छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.4
छुप्भ्_5,3.7 स ह कृच्छ्रीभूतो ऽप्रत्याख्येयं ब्राह्मणं मन्वानो न्यायेन विद्या वक्तव्येति मत्वा तं ह गौतमं चिरं दीर्घकालं वसेत्येवमाज्ञापयाञ्चकाराऽज्ञप्तवान् ।
यत्पूर्वं प्रत्याख्यातवान्राजा विद्यां यच्च पश्चाच्चिरं वसेत्याज्ञप्तवान्, तन्निमित्तं ब्राह्ममं क्षमापयति हेतुवचनोक्त्या-तं होवाच राजा सर्वविद्यो ब्रह्मणो ऽपि सन्यथा येन प्रकारेण मा मां हे गौतमावदस्त्वं तामेव विद्यालक्षणां वाचं मे ब्रूहीत्यज्ञानात्तेन त्वं जानीहि ।
तत्रास्ति वक्तव्यं यथा येन प्रकारेणेयं विद्या प्राक्त्वत्तो ब्राह्मणान्न गच्छति न गतवती, न च ब्राह्मणा अनया विद्ययानुशासितवन्तः, तथैतत्प्रसिद्धं लोके यतस्तस्मादु पुरा पूर्वं सर्वेषु लोकेषु क्षत्त्रस्यैव क्षत्त्रजातेरेवानया विद्यया प्रशासनं प्रशास्तृत्वं शिष्यामामभूद्बभूव ।
क्षत्त्रियपरम्परयैवेयं विद्यतावन्तं कालमागता ।
तथाप्यहमेतां तुभ्यं वक्ष्यामि च्वत्सम्प्रदानादूर्ध्वं ब्राह्मणान्गमिष्यति ।
अतो मया यदुक्तं तत्क्षन्तुमर्हसीत्युक्त्वा तस्मै होवाच विद्यां राजा ॥7॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य तृतीयः खण्डः
=======================================================================
स्तर्त् छुप् 5,4.1
असौ वाव लोको गौतमाग्निः ।
तस्यादित्य एव समित् ।
रश्मयो धूमः ।
अहर् अर्चिः ।
चन्द्रमा अङ्गाराः ।
नक्षत्राणि विस्फुलिङ्गाः
छुप्भ्_5,4.1 पञ्चम्यामाहुतावाप इत्ययं प्रश्नः प्राथम्येनापाक्रियते ।
तदपाकरणमन्वितरेषामपाकरणमनुकूलं भवेदिति ।
अग्निहोत्राहुत्योः कार्यारम्भो यः स उक्तो वाजसनेयके ।
तं प्रति प्रस्नाः-उत्क्रान्तिराहुत्योर्गतिः प्रतिष्ठा तृप्तिः पुनरावृत्तिर्लोकं प्रत्युत्थायी इति ।
तेषां चापाकरणमुक्तं तत्रैव-"ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाऽहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्लामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत इत्याद्येवमेव पूर्ववद्दिवं तर्पयतस्ते तत आवर्तेते ।
इमामाविश्य तर्पयित्वा पुरुषमाविशतः ।
ततः स्रियमाविश्य लोकं प्रत्युत्थाया भवति"इति ।
तत्राग्निहोत्राहुत्योः कार्यारम्भमात्रमेवंप्रकारं भवतीत्युक्ताम ।
इह तु तं कार्यारम्भमग्नि होत्रापूर्वविपरिणामलक्षणं पञ्चधा प्रविभज्याग्नित्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विधित्सन्नाह-असौ वाव लोको गौतमाग्निरित्यादि ।
इह सायंप्रातरग्निहोत्राहुती हुते पय आदिसाधने श्रद्धापुरःसरे आहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षक्रमेणोत्क्रम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते अप्समवायित्वादप्शब्दवाच्ये श्रद्धाहेतुत्वाच्च श्रद्धाशब्दवाच्ये तयोरधिकरणो ऽग्निरन्यच्च तत्सम्बन्धं समिदादीत्युच्यते ।
या चासावग्न्यादिभावनाऽहुत्योः सापि तथैव निर्दिश्यते ।
असौ वाव लोको ऽग्निर्हे गौतम यथाग्निहोत्राधिकरणमाहवनीय इह ।
तस्याग्नेर्घुलोकाख्यस्याऽदित्य एव समित्तेन हीद्धो ऽसौ लोको दीप्यते ।
अतः समिन्धनात्समिदादित्यः ।
रश्मयो धूमस्तदुत्थानात्, समिधो हि धूम उत्तिष्ठति ।
अहरर्चिः प्रकाशसामान्यात्, आदित्यकार्यत्वाच्च चन्द्रमा अङ्गाराः ।
अहःप्रशमे ऽभिव्यक्तेः ।
अर्चिषा हि प्रशमे ऽङ्गारा अभिव्यज्यन्ते ।
नक्षत्राणि विस्फुलिङ्गाश्चन्द्रमसो ऽवयवा इव विप्रकीर्णत्वसामान्यात् ॥1 ॥
स्तर्त् छुप् 5,4.2
तस्मिन्न् एतस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति ।
तस्या आहुतेः सोमो राजा संभवति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0