भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.3

5.3.1

छुप्भ्_5,2.8 तदेतस्मिन्नर्थ एष श्लोको मन्त्रो ऽपि भवति ।
यदा कर्मसु काम्येषु कामार्थेषु स्रियं स्वप्नेषु स्वप्नदर्शनेषु स्वप्नकालेषु वा पश्यति समृद्धिं तत्र जानीयीत् ।
कर्मणां फलनिष्पत्तिर्भविष्यतीति जानीयादित्यर्थः ।
तस्मिन्स्त्र्यादिप्रशस्तस्वप्नदर्शने सतीत्यभिप्रायः ।
द्विरुक्तिः कर्मसमाप्त्यर्था ॥8॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य द्वितीयः खण्डः
=======================================================================
स्तर्त् छुप् 5,3.1
श्वेतकेतुर् हारुणेयः पञ्चालानां समितिम् एयाय ।
तं ह प्रवाहणो जैवलिर् उवाच ।
कुमारानु त्वा अशिषत् पितेति ।
अनु हि भगव इति

5.3.2

छुप्भ्_5,3.1 ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्या वैराग्यहेतोर्मुमुक्षूणामित्यत आख्यायिकाऽरभ्यते-श्वेतकेतुनमितो ह, इत्यैतिह्यार्थः ।
अरुणस्यापत्यारुणिस्तस्यापत्यमारुणेयः पञ्चालानां समितिं सभामेयायाऽजगाम ।
तमागतवन्तं ह प्रवाहणो नामतो जीवलस्यापत्यं जैवलिरुवाचोक्तवान् ।
हे कुमारानु त्वा त्वामशिषदन्वसिषत्पिता ।
किमनुशिष्टस्त्वं पित्रेत्यर्थः ।
इत्युक्तः स आहानु ह्यनुशिष्टो ऽस्मि भगव इति सूचयन्नाह ॥1 ॥
स्तर्त् छुप् 5,3.2
वेत्थ यद् इतो ऽधि प्रजाः प्रयन्तीति ।
न भगव इति ।
वेत्थ यथा पुनर् आवर्तन्त 3 इति ।
न भगव इति ।
वेत्थ पथोर् देवयानस्य पितृयाणस्य च व्यावर्तना 3 इति ।
न भगव इति

5.3.3

छुप्भ्_5,3.2 तं होवाच यद्यनुशिष्टो ऽसि वेत्थ यदितो ऽस्माल्लोकादध्यूर्ध्वं यत्प्रजाः प्रयन्ति यद्गच्छन्ति तत्किं जानीष इत्यर्थः ।
न भगव इत्याहेतरो न जाने ऽहं तद्यत्पृच्छसि ।
एवं तर्हि वेत्थ जानीषे यथा येन प्रकारेण पुनरावर्तन्त इति ।
न भगव इति प्रत्याह ।
वेत्थ पथोर्मार्गयोः सहप्रयाणयोर्देवयानस्य पितृयाणस्य च व्यावर्तनमितरेतरवियोगस्थानं सह गच्छतामित्यर्थः ।
न भगव इति ॥2 ॥
स्तर्त् छुप् 5,3.3
वेत्थ यथासौ लोको न संपूर्यत 3 इति ।
न भगव इति ।
वेत्थ यथा पञ्चम्याम् आहुताव् आपः पुरुषवचसो भवन्तीति ।
नैव भगव इति

5.3.4

छुप्भ्_5,3.3 वेत्था यथासौ लोकः पितृसम्बन्धी यं प्राप्य पुनरावर्तन्ते बहुभिः प्रयद्भिरपि येन कारमेन न सम्पूर्यत इति ।
न भगव इति प्रत्याह ।
वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्चसंख्याकायामाहुतौ हुतायामाहुतिनिर्वृत्ता आहुतिसाधनाश्चाऽपः पुरुषवचसः पुरुष इत्येवं वचो ऽभिधानं यासां हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुषशब्दवाच्या भवन्ति पुरुषाख्यां लभन्त इत्यर्थः ।
इत्युक्तो नैव भगव इत्याह ।
नैवाहमत्र किञ्चन जानामीत्यर्थः ॥3 ॥
स्तर्त् छुप् 5,3.4
अथानु किम् अनु शिष्ठो ऽवोचथा यो हीमानि न विद्यात् ।
कथं सो ऽनुशिष्टो ब्रुवीतेति ।
स हायस्तः पितुर् अर्धम् एयाय ।
तं होवाचाननुशिष्य वाव किल मा भगवान् अब्रवीद् अनु त्वाशिषम् इति

5.3.5

छुप्भ्_5,3.4 अथैवमज्ञः सन्किमनु कस्मात्त्वमनुशिष्टो ऽस्मीत्यवोचथा उक्तवानसि ।
यो हीमानि मया पृष्टान्यर्थजातानि न विद्यान्न विजानीत्यात्कथं स विद्वत्स्वनुशिष्टो ऽस्मीति ब्रुवीत ।
इत्येवं स श्वेतकेतुः राज्ञाऽयस्त आयासितः सन्पितुरर्धं स्थानमेयायाऽगतवांस्तं च पितुरमुवाचाननुशिष्यानुशासनमकृत्वैव मा मां किल भगवान्समावर्तनकाले ऽब्रवीदुक्तवाननु त्वाशिषमन्वशिषं त्वामिति ॥4 ॥
स्तर्त् छुप् 5,3.5-6
पञ्च मा राजन्यबन्धुः प्रश्नान् अप्राक्षीत् ।
तेषां नैकंचनाशकं विवक्तुम् इति ।
स होवाच यथा मा त्वं तदैतान् अवदो यथाहम् एषां नैकंचन वेद ।
यद्य् अहम् इमान् अवेदिष्यं कथं ते नावक्ष्यम् इति

5.3.6

स ह गौतमो राज्ञो ऽर्धम् एयाय ।
तस्मै ह प्राप्तायार्हां चकार ।
स ह प्रातः सभाग उदेयाय ।
तं होवाच ।
मानुषस्य भगवन् गौतम वित्तस्य वरं वृणीथा इति ।
स होवाच ।
तवैव राजन् मानुषं वित्तम् ।
याम् एव कुमारस्यान्ते वाचम् अभाषथास् ताम् एव मे ब्रूहीति ।
स ह कृच्छ्री बभूव

5.3.7

छुप्भ्_5,3.5,6 यतः पञ्च पञ्चसंख्याकान्प्रश्नान्राजन्यबन्धू राजान्या बन्धवो ऽस्येति राजन्यबन्धुः स्वयं दुर्वृत्त इत्यर्थः ।
अप्राक्षीत्पृष्टवांस्तेषां प्रश्नानां नैकञ्चनैकमपि नाशकं न शक्तवानहं विवक्तुं विशेषेणार्थतो निर्णेतुमित्यर्थः ।
स होवाच पिता यथा मा मां वत्स त्वं तदाऽगतमात्र एवैतान्प्रश्नानवद उक्तवानसि तेषां नैकञ्चनाशकं विवक्तुमिति तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयमज्ञानं जानीहीत्यर्थः ।
कथं, यथाहमेषां प्रश्नानामेकञ्चनैकमपि न वेद न जान इति यथा त्वमेवाङ्गैतान्प्रश्नान्न जानीषे तथाहमप्येतान्न जान इत्यर्थः ।
अतो मय्यन्यथाभावो न कर्तव्यः ।
कुत एतदेवं यतो न जाने यद्यहमिमान्प्रश्नानवेदिष्यं विदितवानस्मि कथं ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा नावक्ष्यं नोक्तवानस्मीत्युक्त्वा स ह गोत्रतो राज्ञो जैवलेरर्धं स्थानमेयाय गतवान् ।
तस्मै ह गौतमाय प्राप्तायार्हामर्हूणां चकार कृतवान् ।
स च गौतमः कृतातिथ्य उषित्वा परेद्युः प्रातःकाले सभागे सभां गते राज्ञ्युदेयाय ।
भजनं भागः पूजा सेवा सह भागेन वर्तमानो वा सभागः पूज्यमानो ऽन्यैः स्वयं गौतम उदेयाय राजानमुद्गतवान् ।
तं होवाच गौतमं राजा मानुषस्य भगवन्गौतम मनुष्यसम्बन्धिनो वित्तस्य ग्रामादेर्वरं वरणीयं कामं वृणीथाः प्रार्थयेथाः ।
स होवाच गौतमस्तवैव तिष्ठतु राजन्मानुषं वित्तम् ।
यामेव कुमारस्य मम पुत्रस्यान्ते समीपे वाचं पञ्चप्रश्नलक्षणामभाषथा उक्तवानसि तामेव वाचं मे मह्यं ब्रूहि कथयेत्युक्तो गौतमेन राजा स ह कृच्छ्री दुःखी बभूव ।
कथं त्विदमिति ॥5-6 ॥
स्तर्त् छुप् 5,3.7
तं ह चिरं वसेत्य् आज्ञापयां चकार ।
तं होवाच ।
यथा मा त्वं गौतमावदः ।
यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति ।
तस्माद् उ सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनम् अभूद् इति ।
तस्मै होवाच

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc