भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.2

5.2.1

छुप्भ्_5,1.15 श्रुतेरिदं वचो युक्तमिदं वागादिभिर्मुख्यं प्राणं प्रत्यभिहितं यस्मान्न वै लोके वाचो न चक्षूंषि न श्रोत्राणि न मनांसीति वागादीनि करणान्याचक्षते लौकिका आगमज्ञा वा ।
किं तर्हि?प्राणा इत्येवाऽचक्षते कथयन्ति यस्मात्प्राणो ह्येवैतानि सर्वाणि वागादीनि करणजातानि भवत्यतो मुख्यं प्रामं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणार्थमुपसञ्जिहीर्षति ।
ननु कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै विवदन्तो ऽन्योन्यं स्पर्धेरन्निति ।
न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति ।
तथापगमो देहात्पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते ।
तत्राग्न्यादिचेतनावद्देवताधिष्ठितत्वाद्वागादीनां चेतनावत्त्वं तावत्सिद्धमागमतः. तार्किकसमयविरोध इति चेद्देह एकस्मिन्ननेकचेतनावत्त्वे ।
न ।
ईश्वरस्य निमित्तकारमत्वाभ्युपगमात् ।
ये तावदीश्वरमभ्युपगच्छन्ति तार्किकास्ते मन आदिकार्यकरमानामाध्यात्मिकानां बाह्यानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति रथादिवत् ।
न चास्माभिरग्न्याद्याश्चेतनावत्यो ऽपि देवता अध्यात्मं भोक्त्र्यो ऽभ्युपगम्यन्ते, किं तर्हि,कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानामध्यात्माधिभूताधिदैवभेदकोटिविकल्पानामध्यक्षतामात्रेण नियन्तेश्वरो ऽभ्युपगम्यते ।
स ह्यकरणः ।
"हिरण्यगर्भं जनयामान पूर्वम्"इत्यादि च श्वेताश्वतरीयाः पठन्ति ।
भोक्ता कर्मफलसम्बन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः ।
वागादीनां चेह संवादः कल्पितो विदुषो ऽन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिर्धारणार्थम् ।
यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै विवदमानाः कञ्चिद्गुणविशेषाभिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति ।
तेनोक्ता एकैकश्येनादः कार्यं साधयितुमुद्यच्छत येनादः कार्यं साध्यते स वः श्रेष्ठ इत्युक्तास्तथैवोद्यच्छन्त आत्मनो ऽन्यस्य वा श्रेष्ठवां निर्धारयन्ति ।
ततेमं संव्यवहारं वागादिषु कल्पितवती श्रुतिः ।
कथं नाम विद्वान्वागादीनामेकैकस्याभावे ऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्यतेति ।
तथाच श्रुतिः कौषीतकिनाम् -"जीवति वागपेतो मूकान्हि पस्यामो जीवति चक्षुरपेतो ऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः"इत्याद्या ॥15॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य प्रथमः खण्डः
=======================================================================
स्तर्त् छुप् 5,2.1
स होवाच किं मे ऽन्नं भविष्यतीति ।
यत् किंचिद् इदम् आ श्वभ्य आ शकुनिभ्य इति होचुः ।
तद् वा एतद् अनस्यान्नम् ।
अनो ह वै नाम प्रत्यक्षम् ।
न ह वा एवंविदि किंचनानन्नं भवतीति

5.2.2

छुप्भ्_5,2.1 स होवाच मुख्यः प्राणः किं मे ऽन्नं भविष्यतीति ।
मुख्यं प्राणं प्रष्टारमिव कल्पयित्वा वागादीन्प्रतिवक्तॄनिव कल्पयन्ती श्रुतिराह-यदिदं लोके ऽन्नजातं प्रसिद्धमा श्वभिः सहाऽशकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यदन्नं तत्तवान्नमिति होचुर्वागादय इति ।
प्राणस्य सर्वमन्नं प्राणो ऽत्ता सर्वस्यान्नस्येत्येवं प्रतिपत्तये कल्पिताख्यायिकारूपाद्व्यावृत्य स्वेन श्रुतिरूपेणाऽह-तद्वा एतद्यत्किञ्चिल्लोके प्राणिभिरन्नमद्यते ऽनस्य प्राणस्य तदन्नं प्राणेनैव तदद्यत इत्यर्थः ।
सर्वप्रकारचेष्टाव्याप्तिगुणप्रदर्शनार्थमन इति प्राणस्य प्रत्यक्षं नाम ।
प्राद्युपसर्गपूर्वत्वे हि विशेषगतिरेव स्यात् ।
तथाच सर्वान्नानामत्तुर्नामग्रहणमितीदं प्रत्यक्षं नामान इति सर्वान्नानामत्तुः साक्षादभिधानम् ।
न ह वा एवंविदि यथोक्तप्राणविदि प्राणो ऽहमस्मि सर्वभूतस्थः सर्वान्नानामत्तेति तस्मिन्नेवंविदि ह वै किञ्चन किञ्चिदपि प्राणिभिराद्यं सर्वैरनन्नमन्नाद्यं न भवति सर्वमेवंविद्यन्नं भवतीत्यर्थः ।
प्राणभूतत्वाद्विदुषः ।
"प्राणाद्वा एष उदेति प्राणे ऽस्तमेति"इत्युपक्रम्य-"एवंविदो ह वा उदेति सूर्य एवंविद्यस्तमेति"इति श्रुत्यन्तरात् ॥1 ॥
स्तर्त् छुप् 5,2.2
स होवाच किं मे वासो भविष्यतीति ।
आप इति होचुः ।
तस्माद् वा एतद् अशिष्यन्तः पुरस्ताच् चोपरिष्टाच् चाद्भिः परिदधति ।
लम्भुको ह वासो भवति ।
अनग्नो ह भवति

5.2.3

छुप्भ्_5,2.2 स होवाच पुनः प्राणः ।
पूर्ववदेव कल्पना ।
किं मे वासो भविष्यतीत्याप इति होचुर्वागादयः ।
यस्मात्प्राणस्य वास आपस्तस्माद्वा एतदशिष्यन्तो भोक्तवन्तश्च ब्राह्मणा विद्वांस एतत्कुर्वन्ति ।
किम् ।
अद्भिर्वासस्थानीयाभिः पुरस्ताद्भोजनात्पूर्वमुपरिष्टाच्च भोजनादूर्ध्वं च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य लम्भुको सम्भनशीलो वासो ह भवति ।
वाससो लब्धैव भवतीत्यर्थः ।
अनग्नो ह भवति ।
वाससो लम्भुकत्वेनार्थसिद्धैवानग्नतेत्यनग्नो ह भवतीत्युत्तरीयवान्भवतीत्येतत् ।
भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्ध्यर्थं विज्ञातं तस्मिन्प्राणस्य वास इति दर्शनमात्रमिह विधीयते ।
अद्भिः परिदधतीति नाऽचमनान्तरम् ।
यथा लौकिकैः प्रामिभिरद्यमानमन्नं प्राणस्येति दर्शनमात्रं तद्वत्किं मे ऽन्नं किं मे वास इत्यादिप्रश्नप्रतिवचनयोस्तुल्यत्वात् ।
यद्याचमनमपूर्वं तादर्थ्येन क्रियते तदा कृम्याद्यन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात् ।
तुल्ययोर्विज्ञानार्थयोः प्रस्नप्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्धजरतीयो न्यायो न युक्तः कल्पयितुम् ।
यत्तु प्रसिद्धमाचमनं प्रायत्यार्थं प्राणस्यानग्नतार्थं च न भवतीत्युच्यते न तथा वयमाचमनमुभयार्थं ब्रूमः ।
किं तर्हि प्रायत्यार्थाचमनसाधनभूता आपः प्राणस्य वास इति दर्शनं चोद्यत इति ब्रूमः ।
तत्राऽचमनस्योभयार्थत्वप्रसङ्गदोषचोदनानुपपन्ना ।
वासोर्थ एवाऽचमने तद्दर्शनं स्यादिति चेत् ।
न ।
वासोज्ञानार्थवाक्ये वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदः आचमनस्य तदर्थत्वमन्यार्थत्वं चेति ।
प्रमाणाभावात् ॥2 ॥
स्तर्त् छुप् 5,2.3
तद् धैतत् सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच ।
यद्य् अप्य् एनच् छुष्काय स्थाणवे ब्रूयाज् जायेरन्न् एवास्मिञ् छाखाः प्ररोहेयुः पलाशानीति

5.2.4

छुप्भ्_5,2.3 तदेतत्प्राणदर्शनं स्तूयते ।
कथम् ।
तद्धैतत्प्राणदर्शनं सत्यकामो जाबालो गोश्रुतये नाम्ना वैयाघ्रपद्याय व्याघ्रपदो ऽपत्यं वैयाघ्रपद्यस्तस्मै गोश्रुत्याख्यायोक्त्वोवाचान्यदपि वक्ष्यमाणं वचः ।
किं तदुवाचेत्याह-यद्यपि शुष्काय स्थाणव एतद्दर्शनं ब्रूयात्प्राणविज्जायेरन्नुत्पद्येरन्नेवास्मिन्स्थाणौ शाखाः प्ररोहेयुश्च पलाशानि पत्रामि, किमु जीवते पुरुषाय ब्रूयादिति ॥3 ॥
स्तर्त् छुप् 5,2.4
अथ यदि महज् जिगमिषेत्, अमावास्यायाम् दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थम् दधिमधुनोर् उपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत्

5.2.5

छुप्भ्_5,2.4 अथानन्तरं यदि महन्महत्त्वं जिगमिषेद्गन्तुमिच्छेन्महत्त्वं प्राप्तुं यदिकामयेतेत्यर्थः ।
तस्येदं कर्म विधीयते ।
महत्त्वे हि सति श्रीरुपनमते ।
श्रीमतो ह्यर्थप्राप्तं धनं ततः कर्मानुष्ठानं ततश्च देवयानं पितृयाणं वा पन्थानं प्रतिपत्स्यत इत्येतत्प्रयोजनमुररीकृत्य महत्त्वप्रेप्सोरिदं कर्म न विषयोपभोगकामस्य ।
तस्यायं कालादिविधिरुच्यते-अमावास्यायां दीक्षित्वा दीक्षित इव भूमिशयनादिनियमं कृत्वा तपोरूपं सत्यवचनं ब्रह्मचर्यमित्यादिधर्मवान्भूत्वेत्यर्थः ।
न पुनर्दैक्षमेव कर्मजातं सर्वमुपादत्ते ।
अतद्विकारत्वान्मन्थाख्यस्य कर्मणः ।
"उपसद्व्रती"इति श्रुत्यन्तरात्पयोमात्रभक्षमं च शुद्धिकारमं तप उपादत्ते ।
पौर्णमास्यां रात्रौ कर्माऽरभते सर्वौषधस्य ग्राम्यारण्यानामोषधीनां यावच्छक्त्यल्पमल्पमुपादाय तद्वितुषीकृत्याऽममेव पिष्टं दधिमधुनोरौदुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्तरात्प्रक्षिप्योपमथ्याग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावावसथ्य आज्यस्याऽवापस्थाने हुत्वा स्रुवसंलग्नं मन्थे संपातमवनयेत्संस्रवमधः पातयेत् ॥4 ॥
स्तर्त् छुप् 5,2.5
वसिष्ठाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् ।
प्रतिष्ठायै स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् ।
संपदे स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् ।
आयतनाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत्

5.2.6

छुप्भ्_5,2.5 समानमन्यत् ।
वसिष्ठाय प्रतिष्ठायै संपद आयतनाय स्वाहेति प्रत्येकं तथैव संपातमवनयेद्धुत्वा ॥5 ॥
स्तर्त् छुप् 5,2.6
अथ प्रतिसृप्याञ्जलौ मन्थम् आधाय जपति ।
अमो नामासि ।
अमा हि ते सर्वम् इदम् ।
स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः ।
स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यम् आधिपत्यं गमयतु ।
अहम् एवेदं सर्वम् असानीति

5.2.7

छुप्भ्_5,2.6 अथ प्रतिसृप्याग्नेरीषदपसृप्याञ्जलौ मन्थमाधाय जपतीमं मन्त्रम् ।
अमो नामास्यमा हि ते ।
अम इति प्राणस्य नाम ।
अन्नेन हि प्राणः प्राणिति देह इत्यतो मन्थद्रव्यं प्राणस्यान्नत्वात्प्राणत्वेन स्तूयते ऽमो नामासीति ।
कुतः ।
यतो ऽमा सह हि यस्मात्ते तव प्राणभूतस्य सर्वं समस्तं जगदिदमतः ।
स हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्च ।
अत एव च राजा दीप्तिमानधिपतिश्चाधिष्ठाय पालयिता सर्वस्य ।
समा मामपि मन्थः प्राणो ज्यैष्ठ्यादिगुणपूगमात्मनो गमयत्वहमेवेदं सर्वं जगदसानि भवनि प्राणवत् ।
इतिशब्दो मन्त्रपरिसमाप्त्यर्थः ॥6 ॥
स्तर्त् छुप् 5,2.7
अथ खल्व् एतयर्चा पच्छ आचामति ।
तत् सवितुर् वृणीमह इत्य् आचामति ।
वयं देवस्य भोजनम् इत्य् आचामति ।
श्रेष्ठं सर्वधातमम् इत्य् आचामति ।
तुरं भगस्य धीमहीति सर्वं पिबति ।
निर्णिज्य कंसं चमसं वा पश्चाद् अग्नेः संविशति ।
चर्मणि वा स्थण्डिले वा वाचंयमो ऽप्रसाहः ।
स यदि स्त्रियं पश्येत् समृद्धं कर्मेति विद्यात्

5.2.8

छुप्भ्_5,2.7 अथानन्तरं खल्वेतया वक्ष्यमाणयर्चा पच्छः पादश आचामति भक्षयति, मन्त्रस्यैकैकेन पादेनैकैकं ग्रासं भक्षयति ।
तद्भोजनं सवितुः सर्वस्य प्रसवितुः ।
प्राणमादित्यं चैकीकृत्योच्यते ।
आदित्यस्य वृणीमहे प्रार्थयेमहि मन्थरूपम् ।
येनान्नेन सावित्रेण भोजनेनोपभुक्तेन वयं सवितृस्वरूपापन्ना भवेमेत्यभिप्रायः ।
देवस्य सवितुरिति पूर्वेण सम्बन्धः ।
श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधातमं सर्वस्य जगतो धारयितृतममतिशयेन विधातृतममिति वा ।
सर्वथा भोजनविशेषणम् ।
तुरं त्वरं तूर्णं शीघ्रमित्यतत् ।
भगस्य देवस्य सवितुः स्वरूपमिति शेषः ।
धीमहि चिन्तयेमहि विशिष्टभोजनेन संस्कृताः शुद्धात्मानः सन्त इत्यभिप्रायः ।
अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तद्धोमहि चिन्तयेमहीति सर्वं च मन्थलेपं पिबति निर्णिज्य प्रक्षाल्य कंसं कंसाकारं चमसं चमसाकारं वौदुम्बरं पात्रम् ।
पीत्वाऽचम्य पश्चादग्नेः प्राक्शिराः संविशति चर्मणि वाजिने स्थण्डिले केवलायां वा भूमौ ।
वाचंयमो वाग्यतः सन्नित्यर्थः ।
अप्रसाहो न प्रसह्यते नाभिभूयते स्त्र्याद्यनिष्टस्वप्नदर्शनेन यथा तथा संयतचित्तः सन्नित्यर्थः ।
स एवंभूतो यदि स्रियं पश्येत्स्वप्नेषु तदा विद्यात्समृद्धं ममेदं कर्मेति ॥7 ॥
स्तर्त् छुप् 5,2.8
तद् एष श्लोकः ।
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्ननिदर्शने

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc