भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.1

5.1.1

छुप्भ्_4,17.10 मानवो भ्रह्मा मौनाचरणान्मननाद्वा ज्ञावनत्त्वात्ततो ब्रह्मैवैकर्त्विक्कुरून्कर्तॄन् ।
योद्धॄनारूढानश्वा वडवा यथाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजो ऽभिरक्षति तत्कृतदोषापनयनात् ।
यत एवंविशिष्टो ब्रह्मा विद्वांस्तस्मादेवंविदमेव यथोक्तव्याहृत्यादिविदं ब्रह्माणं कुर्वीत नानेवंविदं कदाचनेति ।
द्विरभ्यासो ऽध्यायपरिसमाप्त्यर्थः ॥10 ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य सप्तदशः खण्डः
इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यपरमहंसपर् इव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतौ च्छान्दोग्योपनिषद्विवरणे चतुर्थो ऽध्यायः
अथ पञ्चमो ऽध्यायः
स्तर्त् छुप् 5,1.1
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश् च ह वै श्रेष्ठश् च भवति ।
प्राणो वाव ज्येष्ठश् च श्रेष्ठश् च

5.1.2

छुप्भ्_5,1.1
सगुण ब्रह्मविद्याया उत्तरा गतिरुक्ता ।
अथेदानीं पञ्चमे ऽध्याये पञ्चाग्निविदो गृहस्थस्योर्ध्वरेतसां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिमनूद्यान्या दक्षिणदिक्सम्बन्धिनी केवलकर्मिणां धूमादिलक्षणा पुनरावृत्तिरूपा तृतीया च ततः कष्टतरा संसारगतिर्वैराग्यहेतोर्वक्तव्येत्यारभ्यते ।
प्राणः श्रेष्ठो वागादिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशो ऽतीते ग्रन्थे प्राणग्रहणं कृतम् ।
स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे?कथं च तस्योपासनमिति तस्य श्रेष्ठत्वादिगुणविधित्सयेदमनन्तरमारभ्यते-यो ह वै कश्चिज्ज्येष्ठं च प्रथमं वयसा वाव ज्येष्ठश्च वयसा वागादिभ्यः ।
गर्भस्थे हि पुरुषे प्राणस्य वृत्तिर्वागादिभ्यः पूर्वं लब्धात्मिका भवति यया गर्भो विवर्धते चक्षुरादिस्थानावयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति ।
श्रेष्ठत्वं तु प्रतिपादयिष्यति सुहय इत्यादिनिदर्शनेन ।
अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्चास्मिन्कार्यकरणसङ्घाते ॥1 ॥
स्तर्त् छुप् 5,1.2
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति ।
वाग् वाव वसिष्ठः

5.1.3

छुप्भ्_5,1.2 यो ह वै वसिष्ठं वसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम् ।
कस्तर्हि वसिष्ठ इत्याह ।
वाग्वाव वसिष्ठो वाग्मिनो हि पुरुषा वसन्त्यभिभवन्त्यन्यान्वसुमत्तमाश्चातो वाग्वसिष्ठः ॥2 ॥
स्तर्त् छुप् 5,1.3
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्य् अस्मिंश् च लोके ऽमुष्मिंश् च ।
चक्षुर् वाव प्रतिष्ठा

5.1.4

छुप्भ्_5,1.3 यो ह वै प्रतिष्ठां वेद स चास्मिंल्लोके ऽमुष्मिंश्च परे प्रतितिष्ठति ह ।
का तर्हि प्रतिष्ठेत्याह-चक्षुर्वाव प्रतिष्ठा ।
चक्षुषा हि पश्यन्समे च दुर्गे च प्रतितिष्ठति यस्मादतः प्रतिष्ठा चक्षुः ॥3 ॥
स्तर्त् छुप् 5,1.4
यो ह वै संपदं वेद सं हास्मै कामाः पद्यन्ते दैवाश् च मानुषाश् च ।
श्रोत्रं वाव संपत्

5.1.5

छुप्भ्_5,1.4 यो ह वै सम्पदं वेद तस्मा अस्मै दैवाश्च मानुषाश्च कामाः सम्पद्यन्ते ह ।
का तर्हि सम्पदित्याह-श्रोत्रं वाव सम्पत् ।
यस्माच्छ्रोत्रेण वेदा गृह्यन्ते तदर्थविज्ञानं च ततः कर्माणि क्रियन्ते ततः कामसम्पदित्येवं कामसम्पद्धेतुत्वाच्छ्रोत्रं वाव संपत् ॥4 ॥
स्तर्त् छुप् 5,1.5
यो ह वा आयतनं वेदायतनं ह स्वानां भवति ।
मनो ह वा आयतनम्

5.1.6

छुप्भ्_5,1.5 यो ह वा आयतनं वेदाऽयतनं ह स्वानां भवत्याश्रयो भवतीत्यर्थः ।
किं तदायतनमित्याह-मनो ह वा आयतनम् ।
इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपामां मन आयतनमाश्रयः ।
अतो मनो ह वा आयतनमित्युक्तम् ॥5 ॥
स्तर्त् छुप् 5,1.6
अथ ह प्राणा अहंश्रेयसि व्यूदिरे ।
अहं श्रेयान् अस्म्य् अहं श्रेयान् अस्मीति

5.1.7

छुप्भ्_5,1.6 अथ ह प्राणा एवं यथोक्तगुणाः सन्तो ऽहंश्रेयस्यहं श्रेयानस्म्यहं श्रेयानस्मीत्येतस्मिन्प्रयोजने व्यूदिरे नाना विरुद्धं चोदिर उक्तवन्तः ॥6 ॥
स्तर्त् छुप् 5,1.7
ते ह प्राणाः प्रजापतिं पितरम् एत्योचुः भगवन् को नः श्रेष्ठ इति ।
तान् होवाच ।
यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरम् इव दृश्येत स वः श्रेष्ठ इति

5.1.8

छुप्भ्_5,1.7 ते ह - तै हैवं विवदमाना आत्मनः श्रेष्ठत्वविज्ञानाय प्रजापतिं पितरं जनयितारं कञ्चिदेत्योचुरुक्तवन्तो हे भगवन्को नो ऽस्माकं मध्ये श्रेष्ठो ऽभ्यधिको गुणैरित्येवं पृष्टवन्तः ।
तान्पितोवाच ह यस्मिन्वो युष्माकं मध्ये उत्क्रान्ते शरीरमिदं पापिष्ठमिवातिशयेन जीवतो ऽपि, समुत्क्रान्तप्राणं ततो ऽपि पापिष्ठतरमिवातिशयेन दृष्यते कुणपमस्पृश्यमशुचि दृश्येत स वो युष्माकं श्रेष्ठ इत्यवोचत्काक्वा तद्दुःखं परिजिहीर्षुः ॥7 ॥
स्तर्त् छुप् 5,1.8-11
सा ह वाग् उच्चक्राम ।
सा संवत्सरं प्रोष्य पर्येत्योवाच ।
कथम् अशकतर्ते मज् जीवितुम् इति ।
यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति ।
प्रविवेश ह वाक्

5.1.9

चक्षुर् होच्चक्राम ।
तत् संवत्सरं प्रोष्य पर्येत्योवाच ।
कथम् अशकतर्ते मज् जीवितुम् इति ।
यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवम् इति ।
प्रविवेश ह चक्षुः

5.1.10

श्रोत्रं होच्चक्राम ।
तत् संवत्सरं प्रोष्य पर्येत्योवाच कथम् अशकतर्ते मज् जीवितुम् इति ।
यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा ध्यायन्तो मनसैवम् इति ।
प्रविवेश ह श्रोत्रम्

5.1.11

मनो होच्चक्राम ।
तत् संवत्सरं प्रोष्य पर्येत्योवाच ।
कथम् अशकतर्ते मज् जीवितुम् इति ।
यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश् चक्षुषा शृण्वन्तः श्रोत्रेणैवम् इति ।
प्रविवेश ह मनः

5.1.12

छुप्भ्_5,1.8,9,10,11 तथोक्तेषु पित्रा प्राणेषु सा ह वागुच्चक्रामोत्क्रान्तवती ।
सा चोत्क्रम्य संवत्सरमात्रं प्रोष्य स्वव्यापारान्निवृत्ता सती पुनः पर्येत्येतरान्प्राणानुवाच कथं केन प्रकारेणाशकत शक्तवन्तो यूयं मदृते मां विना जीवितुं धारयितुमात्मानमिति ते होचुर्यथाकला इत्यादि ।
अकला मूका यथा लोके ऽवदन्तो वाचा जीवन्ति ।
कथम्?प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवं सर्वकरणचेष्टां कुर्वन्त इत्यर्थः ।
एवं वयमजीविष्मेत्यर्थः ।
आत्मनो ऽश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक्पुनः स्वव्यापारे प्रवृत्ता बभूवेत्यर्थः ।
समानमन्यच्चक्षुर्हेच्चक्राम श्रोत्रं होच्चक्राम मनो होच्चक्रामेत्यादि ।
यथा बाला अमनसो ऽप्ररूढमनस इत्यर्थः ॥ 8-11 ॥
स्तर्त् छुप् 5,1.12
अथ ह प्राण उच्चिक्रमिषन् स यथा सुहयः पड्वीशशङ्कून् संखिदेद् एवम् इतरान् प्राणान् समखिदत् ।
तं हाभिसमेत्योचुः ।
भगवन्न् एधि ।
त्वं नः श्रेष्ठो ऽसि ।
मोत्क्रमीर् इति

5.1.13

छुप्भ्_5,1.12 एवं परीक्षितेषु वागादिष्वथानन्तरं ह स मुख्यः प्राण उच्चिक्रमिषन्नुत्क्रमितुमिच्छन्किमकरोदित्युच्यते ।
यथा लोके सुहयः शोभनो ऽश्वः पड्वीशशङ्कून्पादबन्धनकीलान्परीक्षणायाऽरूढेन कश्याहतः सन्सङ्खिदेत्समुत्खनेत् समुत्पाटयेत्, एवमितरान्वागादीन्प्राणान्समखिदत्समुद्धृतवान् ।
ते प्राणाः सञ्चालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमाना अभिसमेत्य मुख्यं प्राणं तमूचुर्हें भगवन्नेधि भव नः स्वामी यस्मात्त्वं नो ऽस्माकं श्रेष्ठो ऽसि मा चास्माद्देहादुत्क्रमीरिति ॥12 ॥
स्तर्त् छुप् 5,1.13-14
अथ हैनं वाग् उवाच ।
यद् अहं वसिष्ठो ऽस्मि त्वं तद्वसिष्ठो ऽसीति ।
अथ हैनं चक्षुर् उवाच ।
यद् अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति

5.1.14

अथ हैनं श्रोत्रम् उवाच ।
यद् अहं संपद् अस्मि त्वं तत्संपद् असीति ।
अथ हैनं मन उवाच ।
यद् अहम् आयतनम् अस्मि त्वं तदायतनम् असीति

5.1.15

छुप्भ्_5,1.13,14 अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येणाऽपादयन्त आहुर्बलिमिव हरन्तो राज्ञे विशः ।
कथं, वाक् तावदुवाच यदहं वसिष्ठो ऽस्मि ।
यदिति क्रियाविशेषणं यद्वसिष्ठत्वगुणास्मीत्यर्थः ।
त्वं तद्वसिष्ठस्तेन वसिष्ठत्वगुणो ऽज्ञानान्ममेति मयाभिमत इत्येतत् ।
तथोत्तरेषु योज्यं चक्षुःश्रोत्रमनःसु ॥ 13-14 ॥
स्तर्त् छुप् 5,1.15
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्य् आचक्षते ।
प्राणा इत्य् एवाचक्षते ।
प्राणो ह्य् एवैतानि सर्वाणि भवति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc