छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.12
छुप्भ्_5,11.5,6,7 तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगर्हाण्यर्हणानि पुरोहितैर्भृत्यैश्च कारयाञ्चकार कारितवान् ।
स हान्येद्यू राजा प्रातः सञ्जिहान उवाच विनयेनोपगम्यैतद्धनं मत्त उपादद्ध्वमिति ।
तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनं यतो न प्रतिगृह्णन्ति मत्तो धनमिति मन्वान आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाह ।
न मे मम जनपदे स्तेनः परस्वहर्ता विद्यते ।
न कदर्यो ऽदाता सति विभवे ।
न मद्यपो द्विजोत्तमः सन् ।
नानाहिताग्निः शतगुः ।
नाविद्वानधिकारानुरूपम् ।
न स्वैरी परदारेषु गन्ता ।
अत एव स्वैरिणी कुतो दुष्टचारिणी न सम्भवतीत्यर्थः ।
तैश्च न वयं धनेनार्धिन इत्युक्त आह-अल्पं मत्वैते धनं न गृह्णन्तीति ।
यक्ष्यमाणो वै कतिभिरहोभिरहं हे भगवन्तो ऽस्मि ।
तदर्थं कॢप्तं धनं मया यावदेकैकस्मै यथोक्तमृत्विजे धनं दास्यामि तावत्प्रत्येकं भगवद्भ्यो ऽपि दास्यामि ।
वसन्तु भगवन्तः पश्यन्तु च मम यागमित्युक्तास्ते होचुः ।
येन हैवार्थेन प्रयोजनेन यं प्रति चरेद्गच्छेत्पुरुषस्तं हैवार्थं वदेत् ।
इदमेव प्रयोजनमागमनस्येत्ययं न्यायः सताम् ।
वयं वैश्वानरज्ञानार्थिनः ।
आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि सम्यग्जानासि ।
अतस्तमेव नो ऽस्मभ्यं ब्रूहीत्युक्तस्तान्होवाच ।
प्रातर्वो युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दातास्मीत्युक्तास्ते ह राज्ञो ऽभिप्रायज्ञाः समित्पाणयः समिद्भारहस्ता अपरेद्युः पूर्वाह्ने राजानं प्रतिचक्रमिरे गतवन्तः ।
यत एवं महाशाला महाश्रोत्रिया ब्राह्मणाः सन्तो महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ता जातितो हीनं राजानं विद्यार्थिनो विनयेनोपजग्मुः ।
तथान्यैर्विद्योपादित्सुभिर्भवितव्यम् ।
तेभ्यश्चादाद्विद्यामनुपनीयैवोपनयनमकृत्वैव तान् ।
यथा योग्येभ्यो विद्यामदात्तथान्येनापि विद्या दातव्येत्याख्यायिकार्थः ।
एतद्वैश्वानरविज्ञानमुवाचेति वक्ष्यमाणेन सम्बन्धः ॥5-7 ॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्यैकादशः खण्डः
=======================================================================
स्तर्त् छुप् 5,12.1
औपमन्यव कं त्वम् आत्मानम् उपास्स इति ।
दिवम् एव भगवो राजन्न् इति होवाच ।
एष वै सुतेजा आत्मा वैश्वानरो यं त्वम् आत्मानम् उपास्से ।
तस्मात् तव सुतं प्रसुतम् आसुतं कुले दृश्यते
छुप्भ्_5,12.1 स कथमुवाचेत्याह-औपमन्यव हे कमात्मानं वैश्वानरं त्वमुपाःस इति पप्रच्छ ।
नन्वयमपन्यायः आचार्यः सञ्शिष्यं पृच्छतीति ।
नैष दोषः ।
"यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामी"ति न्यायदर्शनात् ।
अन्यत्राप्याचार्यस्य अप्रतिभानवति शिष्ये प्रतिभोत्पादनार्थः प्रश्नो दृष्टो ऽजातशत्रोः"क्वैष तदाभूत्कुत एतदागाद्" इति ।
दिवमेव द्युलोकमेव वैश्वानरमुपासे भगवो राजन्निति होवाच ।
एष वै सुतेजाः शोभनं तेजो यस्य सो ऽयं सुतेजा इति प्रसिद्धो वैश्वानर आत्माऽत्मनो ऽवयवभूतत्वाद्यं त्वमात्मानमात्मैकदेशमुपाःसे तस्मात्सुतेजसो वैशेवानरस्योपासनात्तव सुतमभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्षेण च सुतमासुतं चाहर्गणादिषु तव कुले दृश्यते ऽतीव कर्मिणस्त्वत्कुलीना इत्यर्थः ॥1 ॥
स्तर्त् छुप् 5,12.2
अत्स्य् अन्नं पश्यसि प्रियम् ।
अत्त्य् अन्नं पश्यति प्रियम् भवत्य् अस्य ब्रह्मवर्चसं कुले ये एतम् एवम् आत्मानं वैश्वानरम् उपास्ते ।
मूधा त्व् एष आत्मन इति होवाच ।
मूर्धा ते व्यपतिष्यद् यन् मां नागमिष्य इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0