भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.13

5.13.1

छुप्भ्_5,12.2 अत्स्यन्नं दीप्ताग्निः सन्पश्यसि च पुत्रपौत्रादि प्रियमिष्टम् ।
अन्यो ऽप्यत्त्यन्नं पश्यति च प्रियं भवत्यस्य सुतं प्रसुतमासुतमित्यादिकर्मित्वं;ब्रह्मवर्चसं कुले यः कश्चिदेतं यथोक्तमेवं वैश्वानरमुपास्ते ।
मूर्धा त्वात्मनो वैश्वानरस्यैष न समस्तो वैश्वानरः ।
अतः समस्तबुद्ध्या वैश्वानरस्योपासनान्मूर्धा शिरस्ते विपरीतग्राहिमो व्यपतिष्यद्विपतितमभविष्यत् ।
यद्यदि मां नाऽगमिष्यो नाऽगतो ऽभविष्यः ।
साध्वकार्षीर्यन्मामागतो ऽसीत्यभिप्रायः ॥2॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य द्वादशः खण्डः
=======================================================================
स्तर्त् छुप् 5,13.1
अथ होवाच सत्ययज्ञं पौलुषिम् ।
प्राचीनयोग्य कं त्वम् आत्मानम् उपास्स इति ।
आदित्यम् एव भगवो राजन्न् इति होवाच ।
एष वै विश्वरूप आत्मा वैश्वानरो यं त्वम् आत्मानम् उपास्ते ।
तस्मात् तव बहु विश्वरूपं कुले दृश्यते

5.13.2

छुप्भ्_5,13.1 अथ होवाच सत्ययज्ञं पौलुषिं हे प्राचीनयोग्य कं त्वमात्मानमुपास्त इत्यादित्यमेव भगवो राजन्निति होवाच ।
शुक्लनीलादिरूपत्वाद्विश्वरूपत्वमादित्यस्य सर्वरूपत्वाद्वा ।
सर्वाणि रूपाणि हि त्वाष्ट्राणि यतो ऽतो वा विश्वरूप आदित्यस्तदुपासनात्तव बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले ॥1 ॥
स्तर्त् छुप् 5,13.2
प्रवृत्तो ऽश्वतरीरथो दासी निष्कः ।
अत्स्य् अन्नं पश्यसि प्रियम् ।
अत्त्य् अन्नं पश्यति प्रियं भवत्य् अस्य ब्रह्मवर्चसं कुले य एतम् एवम् आत्मानं वैश्वानरम् उपास्ते ।
चक्षुष् ट्व् एतद् आत्मन इति होवाच ।
अन्धो ऽभविष्यो यन् मां नागमिष्य इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc