छान्दोग्योपनिषद (टीका सहित) · अध्याय 5.11
छुप्भ्_5,10.10 अथ ह पुनर्यो यथोक्तान्पञ्चाग्नीन्वेद स तैरप्याचरन्महापातकिभिः सह न पाप्मना लिप्यते शुद्ध एव ।
तेन पञ्चाग्निदर्शनेन पावितो यस्मात्पूतः पुण्यो लोकः प्राजापत्यादिर्यस्य सो ऽयं पुण्यलोको भवति य एवं वेद यथोक्तं समस्तं पञ्चभिः प्रश्नैः पृष्टमर्थजातं वेद ।
द्विरुक्तिः समस्तप्रश्ननिर्णयप्रदर्शनार्था ॥10॥
इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य दशमः खण्डः
=======================================================================
स्तर्त् छुप् 5,11.1
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिर् इन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस् ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसां चक्रुः ।
को न आत्मा किं ब्रह्मेति
छुप्भ्_5,11.1 दक्षिणेन पथा गच्छतामन्नभाव उत्कस्तद्देवानामन्नं तं देवा भक्षयन्तीति ।
क्षुद्रजन्तुलक्षणा च कष्टा संसारगतिरुक्ता ।
तदुभयदोषपरिजिर्हीर्षया वैश्वानरात्तृभावप्रतिपत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते ।
अत्स्यन्नं पश्यसि प्रियमित्यादिलिङ्गात् ।
आख्यायिका तु सुखावबोधार्था विद्यासम्प्रदानन्यायाप्रदर्शनार्था च-प्राचीनशाल इति नामत उपमन्योरपत्यमौपमन्यवः ।
सत्ययज्ञो नामतः पुलुषस्यापत्यं पौलुषिः ।
तथेन्द्रद्युम्नो नामतो भल्लवेरपत्यं भाल्लविस्तस्यापत्यं भाल्लवेयः ।
जन इति नामतः शर्कराक्षस्यापत्यं शार्कराक्ष्यः ।
बुडिलो नामतो ऽश्वतराश्वस्यापत्यमाश्वतराश्विः ।
पञ्चापि ते हैते महाशाला महागृहस्था विस्तीर्णाभिः शालाभिर्युक्ताः सम्पन्ना इत्यर्थः ।
महाश्रोत्रियाः श्रुताध्ययनवृत्तसम्पन्ना इत्यर्थः ।
त एवंभूताः सन्तः समेत्य संभूय क्वचिन्मीमांसा विचारणां चक्रुः कृतवन्त इत्यर्थः ।
कथम् ।
को नो ऽस्माकमात्मा किं ब्रह्मेत्यात्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वम् ।
ब्रह्मेत्यध्यात्मपरिच्छिन्नमात्मानं निवर्तयत्यात्मेति चाऽत्मव्यतिरिक्तस्याऽदित्यादिब्रह्मण उपास्यत्वं निवर्तयति ।
अभेदेनाऽत्मैव ब्रह्म ब्रह्मैवाऽत्मेत्येवं सर्वात्मा वैश्वानरो ब्रह्म स आत्मेत्येतत्सिद्धं भवति ।
मूर्धा ते व्यपतिष्यदन्धो ऽभविष्यदित्यादिलिङ्गात् ॥1 ॥
स्तर्त् छुप् 5,11.2
ते ह संपादयां चक्रुः ।
उद्दालको वै भगवन्तो ऽयम् आरुणिः संप्रतीमम् आत्मानं वैश्वानरम् अध्येति ।
तं हन्ताभ्यागच्छामेति ।
तं हाभ्याजग्मुः
छुप्भ्_5,11.2 ते ह मीमांसन्तो ऽपि निश्चयमलभमानाः सम्पादयाञ्चक्रुः सम्पादितवन्तः आत्मन उपदेष्टारम् ।
उद्दालको वै प्रसिद्धो नामतो भगवन्तः पूजावन्तो ऽयमारुणिररुणस्यापत्यं सम्प्रति सम्यगिममात्मानं वैश्वानरमस्मदभिप्रेतमध्येति ।
तं हन्तेदानीमभ्यागच्छामेत्येवं निश्चित्यं तं हाभ्याजग्मुर्गतवन्तस्तमारुणिम् ॥2 ॥
स्तर्त् छुप् 5,11.3
स ह संपादयां चकार ।
प्रक्ष्यन्ति माम् इमे महाशाला महाश्रोत्रियाः ।
तेभ्यो न सर्वम् इव प्रतिपत्स्ये ।
हन्ताहम् अन्यम् अभ्यनुशासानीति
छुप्भ्_5,11.3 स ह तान्दृष्ट्वैव तेषामागमनप्रयोजनं बुद्ध्वा सम्पादयाञ्चकार ।
कथम् ।
प्रक्ष्यन्ति मां वैश्वानरमिमे महाशाला महाश्रोत्रियास्तेभ्यो ऽहं न सर्वमिव पृष्टं प्रतिपत्स्ये वक्तुं नोत्सहे ।
अतो हन्ताहमिदानीमन्यमेषामभ्यनुशासानि वक्ष्याम्युपदेष्टारमिति ॥3 ॥
स्तर्त् छुप् 5,11.4
तान् होवाच ।
अश्वपतिर् वै भगवन्तो ऽयं कैकेयः संप्रतीमम् आत्मानं वैश्वानरम् अध्येति ।
तं हन्ताभ्यागच्छामेति ।
तं हाभ्याजग्मुः
छुप्भ्_5,11.4 एवं सम्पाद्य तान्होवाच ।
अश्वपतिर्वै नामतो भगवन्तो ऽयं केकयस्यापत्यं कैकेयः सम्प्रति सम्यगिममात्मानं वैश्वानरमध्येतीत्यादि समानम् ॥4 ॥
स्तर्त् छुप् 5,11.5-7
तेभ्यो ह प्राप्तेभ्यः पृथग् अर्हाणि कारयां चकार ।
स ह प्रातः संजिहान उवाच ।
न मे स्तेनो जनपदे न कदर्यो न मद्यपः ।
नानाहिताग्निर् नाविद्वान् न स्वैरी स्वैरिणी कुतः ।
यक्ष्यमाणो वै भगवन्तो ऽहम् अस्मि ।
यावद् एकैकस्मा ऋत्विजे धनं दास्यामि तावद् भगवद्भ्यो दास्यामि ।
वसन्तु भगवन्त इति
ते होचुः ।
येन हैवार्थेन पुरुषश् चरेत् तं हैव वदेत् ।
आत्मानम् एवेमं वैश्वानरं संप्रत्य् अध्येषि ।
तम् एव नो ब्रूहीति
तान् होवाच ।
प्रातर् वः प्रतिवक्तास्मीति ।
ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे ।
तान् हानुपनीयैवैतद् उवाच
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0