भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.8

4.8.1

छुप्भ्_4,7.3,4 अग्निःकला सूर्यः कला चन्द्रः कला विद्युत्कलैष वै सोम्येति ज्योतिर्विषयमेव च दर्शनं प्रोवाचातो हंसस्याऽदित्यत्वं प्रतीयते ।
विद्वत्फलं-ज्योतिष्मान्दीप्तियुक्तो ऽस्मिंल्लोके भवति ।
चन्द्रादित्यादीनां ज्योतिष्मत एव च मृत्वा लोकाञ्जयति ।
समानमुत्तरम् ॥3-4 ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य सप्तमः खण्डः
=======================================================================
स्तर्त् छुप् 4,8.1
मद्गुष्टे पादं वक्तेति ।
स ह श्वो भूते गा अभिप्रस्थापयां चकार ।
ता यत्राभिसायं बभूवुस् तत्राग्निम् उपसमाधाय गा उपरुध्य समिधम् आधाय पश्चाद् अग्नेः प्राङ् उपोपविवेश

4.8.2

छुप्भ्_4,8.1 हंसो ऽपि मद्गुष्टे पादं वक्तेत्युपरराम ।
मद्गुरुदकचरः पक्षी स चाप्सम्बन्धात्प्राणः स ह श्वोभूत इत्यादि पूर्ववत् ॥1 ॥
स्तर्त् छुप् 4,8.2-3
तं मद्गुर् उपनिपत्याभ्युवाद सत्यकाम 3 इति ।
भगव इति ह प्रतिशुश्राव

4.8.3

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ।
ब्रवीतु मे भगवान् इति ।
तस्मै होवाच ।
प्राणः कला ।
चक्षुः कला ।
श्रोत्रं कला ।
मनः कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान् नाम

4.8.4

छुप्भ्_4,8.2,3 स च मद्गुः प्राणः स्वविषयमेव च दर्शनमुवाच प्राणः कलेत्यादि, आयतनवानित्येवं नाम ।
आयतनं नाम मनः सर्वकरणोपहृतानां भोगानां तद्यस्मिन्पादे विद्यत इत्यायतनवान्नाम पादः ॥2-3 ॥
स्तर्त् छुप् 4,8.4
स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मण आयतनवान् इत्य् उपास्त आयतनवान् अस्मिंल् लोके भवति ।
आयतनवतो ह लोकाञ् जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मण आयतनवान् इत्य् उपास्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc