भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.7

4.7.3

छुप्भ्_4,6.4 स यः कश्चिद्यथोक्तं पादमनन्तवत्त्वेन गुणेनोपास्ते स तथैव तद्गुणो भवत्यस्मिंल्लोके ।
मृतश्चानन्तवतो ह लोकान्स जयति य एतमेवमित्यादि पूर्ववत् ॥4॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य षष्ठ खण्डः
4.7.1-2
हंसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाया गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥1 ॥
तं हंस उपनिपत्याभ्युवाद सत्यकाम 3 इति भगव इति ह प्रतिशुश्राव ॥2॥
छुप्भ्_4,7.1,2 सो ऽग्निर्हंसस्ते पादं वक्तेत्युक्तवोपरराम ।
हंस आदित्यः ।
शौक्ल्यात्पतनसामान्याच्च ।
स ह श्वोभूत इत्यादि समानम् ॥1-2 ॥
स्तर्त् छुप् 4,7.3-4
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ।
ब्रवीतु मे भगवान् इति ।
तस्मै होवाच ।
अग्निः कला ।
सूर्यः कला ।
चन्द्रः कला ।
विद्युत् कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान् नाम

4.7.4

स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ज्योतिष्मान् इत्य् उपास्ते ज्योतिष्मान् अस्मिंल् लोके भवति ।
ज्योतिष्मतो ह लोकाञ् जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ज्योतिष्मान् इत्य् उपास्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc