छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.9
छुप्भ्_4,8.4 तं पादं तथैवोपास्ते यः स आयतनवानाश्रयवानस्मिंल्लोके भवति ।
तथाऽयतनवत एव सावकाशांल्लोकान्मृतो जयति ।
य एतमेवमित्यादि पूर्ववत् ॥4॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्याष्टमः खण्डः
स्तर्त् छुप् 4,9.1
प्राप हाचर्यकुलम् ।
तम् आचर्यो ऽभ्युवाद सत्यकाम 3 इति ।
भगव इति ह प्रतिशुश्राव
छुप्भ्_4,9.1 स एवं ब्रह्मवित्सन्प्राप ह प्राप्तवानाचार्यकुलम् ।
तमाचार्यो ऽभ्युवाद सत्यकाम 3 इति ।
भगव इति ह प्रतिशुश्राव ॥1 ॥
स्तर्त् छुप् 4,9.2
ब्रह्मविद् इव वै सोम्य भासि ।
को नु त्वानुशशासेति ।
अन्ये मनुष्येभ्य इति ह प्रतिजज्ञे ।
भगवांस् त्व् एव मे कामे ब्रूयात्
छुप्भ्_4,9.2 ब्रह्मविदिव वै सोम्य भासि ।
प्रसन्नेन्द्रियः प्रहसितवदनश्च निश्चिन्तः कृतार्थो ब्रह्मविद्भवति ।
अत आचार्यो ब्रह्मविदिव भासोति ।
को न्विति वितर्कयन्नुवाच कस्त्वामनुशशासेति ।
स चाऽह सत्यकामो ऽन्ये मनुष्येभ्यः ।
देवता मामनुशिष्टवत्यः ।
को ऽन्यो भगवच्छिष्यं मां मनुष्यः सन्ननुशासितुमुत्सहेतेत्यभिप्रायः ।
अतो ऽन्ये मनुष्येभ्य इति ह प्रतिजज्ञे प्रतिज्ञातवान् ।
भगवांस्त्वेव मे कामे ममेच्छायां ब्रूयात्किमन्यैरुक्तेन नाहं तद्गणयामीत्यभिप्रायः ॥2 ॥
स्तर्त् छुप् 4,9.3
श्रुतं ह्य् एव मे भगवद्दृशेभ्य आचार्याद् धैव विद्या विदिता साधिष्ठं प्रापतीति ।
तस्मै ह एतद् एव उवाच ।
अत्र ह न किंचन वीयायेति वीयायेति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0