छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.5
छुप्भ्_4,4.5 तं होवाच गौतमो नैतद्वचो ऽब्राह्मणो विशेषेण वक्तुमर्हत्यार्जवार्थसंयुक्तम् ।
ऋजवो हि ब्रह्मणा नेतरे स्वभावतः ।
यस्मान्न सत्याद्ब्राह्मणजातिधर्मादगा नापेतवानसि ।
अतो ब्राह्मणं त्वामुपनेष्ये ऽतः संस्कारार्थं होमाय समिधं सोम्याऽहरेत्युक्त्वा तमुपनीय कृशानामबलानां गोयूथान्निराकृत्यापकृष्य चतुःशता चत्वारि शतानि गवामुवाचेमा गाः सोम्यानुसंव्रजानुगच्छ ।
इत्युक्तस्ता अरण्यं प्रत्यभिप्रस्थापयन्नुवाच-नासहस्रेणापूर्णेन सहस्रेण नाऽवर्तेय न प्रत्यागच्छेयम् ।
स एवमुक्त्वा गा अरण्यं तृणोदकबहुलं द्वन्द्वंरहितं प्रवेश्य स ह वर्षगणं दीर्घं प्रोवास प्रोषितवान् ।
ताः सम्यग्गावो रक्षिता यदा यस्मिन्काले सहस्रं संपेदुः संपन्ना बभूवुः ॥5॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य चतुर्थः खण्डः
=======================================================================
स्तर्त् छुप् 4,5.1
अथ हैनम् ऋषभो ऽभ्युवाद सत्यकाम 3 इति ।
भगव इति ह प्रतिशुश्राव ।
प्राप्ताः सोम्य सहस्रं स्मः ।
प्रापय न आचार्यकुलम्
छुप्भ्_4,5.1 तमेतं श्रद्धातपोभ्यां सिद्धं वायुदेवता दिक्संबन्धिनी तुष्टा सत्यृषभमनुप्रविश्यर्षभापन्नानुग्रहायाथ हैनमृषभो ऽभ्युवादाभ्युक्तवान्सत्यकाम 3 इति संबोध्य, तमसौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ ।
प्रप्ताः सोम्य सहस्रं स्मः पूर्णा तव प्रतिज्ञातः प्रापय नो ऽस्मानाचार्यकुलम् ॥1 ॥
स्तर्त् छुप् 4,5.2
ब्रह्मणश् च ते पादं ब्रवाणि इति ।
ब्रवीतु मे भगवान् इति ।
तस्मै होवाच ।
प्राची दिक् कला ।
प्रतिची दिक् कला ।
दक्षिणा दिक् कला ।
उदीची दिक् कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान् नाम
छुप्भ्_4,5.2 किञ्चाहं ब्रङ्मणः परस्य ते तुभ्यं पादं ब्रवाणि कथयानि ।
इत्युक्तः प्रत्युवाच-ब्रवीतु कथयतु मे मह्यं भगवान् ।
इत्युक्त ऋषभस्तस्मै सत्यकामाय होवाच ।
प्राची दिक्कला ब्रह्मणः पादस्य चतुर्थो भागः ।
तथा प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सैम्य ब्रह्मणः पादश्चतुशष्कलश्चतस्रः कला अवयवा यस्य सो ऽयं चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम प्रकाशवानित्यवं नामाभिधानं यस्य ।
तथोत्तरे ऽपि पादास्त्रयश्चतुष्कला ब्रह्मणः ॥2 ॥
स्तर्त् छुप् 4,5.3
स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणः प्रकाशवान् इत्य् उपास्ते प्रकाशवान् अस्मिंल् लोके भवति ।
प्रकाशवतो ह लोकाञ् जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणः प्रकाशवान् इत्य् उपास्ते
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0