छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.4
तस्मा उ ह ददुस्ते हि भिक्षाम् ।
ते वै ये ग्रस्यन्ते ऽग्न्यादयो यश्च तेषां ग्रसिता वायुः पञ्चान्ये वागादिभ्यः, तथान्ये तेभ्यः पञ्चाध्यात्मं वागादयः प्राणश्च, ते सर्वे दश सन्तस्तत्कृतं भवति, ते चतुरङ्क एकाय एवं चत्वारः त्र्यङ्कायः एवं त्रयो ऽपरे द्व्यङ्कायः एवं द्वावन्यावेकाङ्काय एवमेको ऽन्य, इत्येवं देश सन्तस्तत्कृतं भवति ।
यत एवं तस्मात्सर्वासु दिक्षु दशस्वप्यग्न्याद्या वागाद्याश्च दशसंख्यासामान्यादन्नमेव"दशाक्षरा विराड् विराडन्नम्" इति हि श्रुतिः ।
अतो ऽन्नमेव दशसंख्यत्वात् ।
तत एव दश कृतं कृते ऽन्तर्भावाच्चतुरायत्वेनेत्यवोचाम ।
सैषा विराड्दशसंख्या सत्यन्नं चान्नाद्यन्नादिनी च कृतत्वेन दशसंख्ययान्नं कृतसंख्ययान्नादी तया अन्नान्नादिन्या इदं सर्वं जगद्दशदिक्संस्थं दृष्टं कृतसंख्याभूतयोपलब्धम् ।
एवंविदो ऽस्य सर्वं कृतसंख्याभूतस्य दशदिक्संबद्धं दृष्टमुपलब्धं भवति ।
किञ्चान्नादश्च भवति य एवं वेद यथोक्तदर्शी ।
द्विरभ्यास उपासनमाप्त्यर्थः ॥8॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य तृतीयः खण्डः
=======================================================================
स्तर्त् छुप् 4,4.1
सत्यकामो ह जाबालो जबालां मातरम् आमन्त्रयां चक्रे ।
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्व् अहम् अस्मीति
छुप्भ्_4,4.1 सर्वं वागाद्यग्न्यादि चान्नान्नादत्वसंस्तुतं जगदेकीकृत्य षोडशधा प्रविभज्य तस्मिन्ब्रह्मदृष्टिर्विधातव्येत्यारभ्यते ।
श्रद्धातपसोर्ब्रह्मोपासनाङ्गत्वप्रदर्शनायाऽख्यायिका ।
सत्यकामो ह नामतो हशब्द ऐतिह्यार्थो जबालाया अपत्यं जाबालो जबलां स्वां मातरमामन्त्रयाञ्चक्र आमन्त्रितवान् ।
ब्रह्मचर्यं स्वाध्यायग्रहणाय हे भवति विवत्स्याम्याचार्यकुले, किङ्गोत्रो ऽहं किमस्य मम गोत्रं सो ऽहं न्वहमस्मीति ॥1 ॥
स्तर्त् छुप् 4,4.2
सा हैनम् उवाच ।
नाहम् एतद् वेद तात यद्गोत्रस् त्वम् असि ।
बह्व् अहम् चरन्ती परिचारिणी यौवने त्वाम् अलभे ।
साहम् एतन् न वेद यद्गोत्रस् त्वम् असि ।
जबाला तु नामाहम् अस्मि ।
सत्यकामो नाम त्वम् असि ।
स सत्यकाम एव जाबालो ब्रुवीथा इति
छुप्भ्_4,4.2 एवं पृष्टा जबाला सा हैनं पुत्रमुवाच-नाहमेतत्तव गोत्रं वेद हे तात यद्गोत्रस्त्वमसि ।
कस्मान्न वेत्सीत्युक्ताऽह-बहु भर्तृगृहे परिचर्याजातमतिथ्यभ्यागतादि चरन्त्यहं परिचारिणी परिचरन्तीति परिचरणशीलैवाहं परिचरणचित्ततया गोत्रादिस्मरणे मम मनो नाभूत् ।
यौवने च तत्काले त्वामलभे लब्धवत्यस्मि ।
तदैव ते पितोपरतः ।
अतो ऽनाथाहं साहमेतन्न वेद यद्गोत्रस्त्वमसि ।
जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स त्वं सत्यकाम एवाहं जाबालो ऽस्मीत्याचार्याय ब्रुवीथाः यद्याचार्येण पृष्ट इत्यभिप्रायः ॥2 ॥
स्तर्त् छुप् 4,4.3-4
स ह हारिद्रुमतं गौतमम् एत्योवाच ।
ब्रह्मचर्यं भगवति वत्स्यामि ।
उपेयां भगवन्तम् इति
तं होवाच किंगोत्रो नु सोम्यासीति ।
स होवाच ।
नाहम् एतद् वेद भो यद्गोत्रो ऽहम् अस्मि ।
अपृच्छं मातरम् ।
सा मा प्रत्यब्रवीद् बह्व् अहम् चरन्ती परिचरिणी यौवने त्वाम् अलभे ।
साहम् एतन् न वेद यद्गोत्रस् त्वम् असि ।
जबाला तु नामाहम् अस्मि ।
सत्यकामो नाम त्वम् असीति ।
सो ऽहं सत्यकामो जाबालो ऽस्मि भो इति
छुप्भ्_4,4.4 स ह सत्यकामो हारिद्रुमतं हरिद्रुमतो ऽपत्यं हारिद्रुमतं गौतमं गोत्रत एत्य गत्वोवाच ब्रह्मचर्यं भगवति पूजावति त्वयि वत्स्याम्यत उपेयामुपगच्छेयं शिष्यतया भगवन्तमित्युक्तवन्तं तं होवाच गौतमः ।
किङ्गोत्रो नु सोम्यासीति विज्ञातकुलगोत्रः शिष्य उपनेतव्य इति पृष्टः प्रत्याह सत्यकामः ।
स होवाच नाहमेतद्वेद भो यद्गोत्रो ऽहमस्मि ।
किं त्वपृच्छं पृष्टवानस्मि मातरम् ।
सा मया पृष्टा मां प्रत्यब्रवीन्माता ।
बह्वहं चरन्तीत्यादि पूर्ववत् ।
तस्या अहं वचः स्मरामि सो ऽहं सत्यकामो जाबालो ऽस्मि भो इति ॥3-4 ॥
स्तर्त् छुप् 4,4.5
तं होवाच ।
नैतद् अब्रह्मणो विवक्तुम् अर्हति ।
समिधं सोम्याहर ।
उप त्वा नेष्ये न सत्याद् अगा इति ।
तम् उपनीय कृशानाम् अबलानां चतुःशता गा निराकृत्य उवाचेमाः सोम्यानुसंव्रजेति ।
ता अभिप्रस्थापयन्न् उवाच ।
नासहस्रेणावर्तेयेति ।
स ह वर्षगणं प्रोवास ।
ता यदा सहस्रं सम्पेदुः
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0