भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.6

4.6.1

छुप्भ्_4,5.3 स यः कश्चिदेवं यथोक्तमेतं ब्रह्मणश्चतुष्कलं पादं विद्वान्प्रकाशवानित्यनेन गुणेन विशिष्टमुपास्ते तस्येदं फलं प्रकाशवानस्मिन् लोके भवति प्रख्यातो भवतीत्यर्थः ।
तथादृष्टं फलं प्रकाशवतो ह लोकान्देवादिसंबन्धिनो मृतः सञ्जयति प्राप्नोति ।
य एतमेव विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥3॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य पञ्चमः खण्डः
स्तर्त् छुप् 4,6.1
अग्निष्टे पादं वक्तेति ।
स ह श्वो भूते गा अभिप्रस्थापयां चकार ।
ता यत्राभिसायं बभूवुस् तत्राग्निम् उपसमाधाय गा उपरुध्य समिधम् आधाय पश्चाद् अग्नेः प्राङ् उपोपविवेश

4.6.2

छुप्भ्_4,6.1 सो ऽग्निस्ते पादं वक्तेत्युपररामर्षभः ।
स सत्याकामो ह श्वोभूते परेद्युर्नैत्यकं नित्यं कर्म कृत्वा गा अभिप्रस्थापयाञ्चकाराऽचार्यकुलं प्रति ।
ताः शनैश्चरन्त्य आचार्यकुलाभिमुख्यः प्रस्थिता यत्र यस्मिन्काले देशे ऽभि सायं निशायामभिसंबभूवुरेकत्राभिमुख्यः संभूताः, तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्रङुपोपविवेश ऋषभवचो ध्यायन् ॥1 ॥
स्तर्त् छुप् 4,6.2
तम् अग्निर् अभ्युवाद सत्यकाम 3 इति ।
भगव इति ह प्रतिशुश्राव

4.6.3

छुप्भ्_4,6.2 तमग्निरभ्युवाद सत्यकाम 3 इति संबोध्य, तमसौ सत्यकामो भगव इति ह प्रतिशुश्राव प्रतिवचनं ददौ ॥2 ॥
स्तर्त् छुप् 4,6.3
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ।
ब्रवीतु मे भगवान् इति ।
तस्मै ह उवाच ।
पृथिवी कला ।
अन्तरिक्षं कला ।
द्यौः कला ।
समुद्रः कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणो ऽनन्तवान् नाम

4.6.4

छुप्भ्_4,6.3 ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानीति तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला समुद्रः कलेत्यात्मगोचरमेव दर्शनमग्निरब्रवीत् ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणो ऽनन्तवान्नाम ॥3 ॥
स्तर्त् छुप् 4,6.4
स य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ऽनन्तवान् इत्य् उपास्ते ऽनन्तवान् अस्मिंल् लोके भवति ।
अनन्तवतो ह लोकाञ् जयति य एतम् एवं विद्वांश् चतुष्कलं पादं ब्रह्मणो ऽनन्तवान् इत्य् उपास्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc