छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.3
छुप्भ्_4,2.4,5 रैक्वेदं गवां सहस्रमयं निष्को ऽयमश्वतरीरथ इयं जायार्थं मम दुहिताऽनीतायं च ग्रामो यस्मिन्नाःसे तिष्ठसि स च त्वदर्थे मया कल्पितः तदेतत्सर्वमादायानुशाध्येव मा मां हे भगव इत्युक्तस्तस्या जायार्थमानीताया राज्ञो दुहितुर्हैव मुखं द्वारं विद्याया दाने तीर्थमुपोद्गृह्णञ्जानन्नित्यर्थः ।
ब्रह्मचारी धनदायी मेधावी श्रोत्रियः प्रियः ।
विद्यया वा विद्या प्राह तानि तीर्थानि षण्मम ॥
इति विद्याया वचनं विज्ञायते हि ।
एवं जानन्नुपोद्गृह्णन्नुवाचोक्तवान् ।
आजहाराऽहृतवान्भवान्यदिमा गा यच्चान्यद्धनं तत्साध्विति वाक्यशेषः ।
शूद्रेति पूर्वोक्तानुकृतिमात्रं न तु कारणान्तरापेक्षया पूर्ववत् ।
अनेनैव मुखेन विद्याग्रहणतीर्थेनाऽलापयिष्यथा आलापयसीति मां भाषयसीत्यर्थः ।
ते हैते ग्रामा रैक्वपर्णा नाम विख्याता महावृषेषु देशेषु यत्र येषु ग्रामेषूवासोषितवान् रैक्वस्तानसौ ग्रामानदादस्मै रैक्वाय राजा ।
तस्मै राज्ञे धनं दत्तवते ह किलोवाच विद्यां स रैक्वः ॥4-5 ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य द्वितीयः खण्डः
=======================================================================
स्तर्त् छुप् 4,3.1
वायुर् वाव संवर्गः ।
यदा वा अग्निर् उद्वायति वायुम् एवाप्येति ।
यदा सूर्यो ऽस्तम् एति वायुम् एवाप्येति ।
यदा चन्द्रो ऽस्तम् एति वायुम् एवाप्येति
छुप्भ्_4,3.1 वायुर्वाव संवर्गो वायुर्बाह्यो वावेत्यवधारणार्थः ।
संवर्गः संवर्जनात्संग्रहणात्संग्रसनाद्वा संवर्गः ।
वक्ष्यमाणा अग्न्याद्या देवता आत्मभावमापादयतीत्यतः संवर्गः ।
सवर्जवाख्यो गुणो ध्येयो वायुवत् ।
कृतायान्तभर्वदृष्टान्तात् ।
कथं संवर्गत्त्वं वायोरित्याह ।
यदा यस्मिन्काले वा अग्निरुद्वायत्युद्वासनं प्राप्नोत्युपशाम्यति तदासावग्निर्वायुमेवाप्येति वायुस्वाभाव्यमपिगच्छति ।
तथा यदा सूर्यो ऽस्तमेति वायुमेवाप्येति ।
यदा चन्द्रो ऽस्तमेति वायुमेवाप्येति ।
ननु कथं सूर्याचन्द्रमसोः स्वरूपावस्थितयोर्वायावपिगमनम् ।
नैष दोषः ।
अस्तमने ऽदर्शनप्राप्तेर्वायुनिमित्तत्वात् ।
वायुना ह्यस्तं नीयते सूर्यः चलनस्य वायुकार्यत्वात् ।
अथवा प्रलये सूर्याचन्द्रमसोः स्वरूपभ्रंशे तेजोरूपयोर्वायावेवापिगमनं स्यात् ॥1 ॥
स्तर्त् छुप् 4,3.2
यदाप उच्छुष्यन्ति वायुम् एवापियन्ति ।
वायुर् ह्य् एवैतान् सर्वान् संवृङ्क्ते ।
इत्य् अधिदैवतम्
छुप्भ्_4,3.2 तथा यदाऽप उच्छुष्यन्त्युच्छोषमाप्नुवन्ति तदा वायुमेवापियन्ति ।
वायुर्हि यस्मादेवैतानग्न्याद्यान्महाबलान्संवृङ्क्ते ।
अतो वायुः संवर्गगुण उपास्य इत्यर्थः ।
इत्यधिदैवतं देवतासु संवर्गदर्शनमुक्तम् ॥2 ॥
स्तर्त् छुप् 4,3.3
अथाध्यात्मम् ।
प्राणो वाव सम्वर्गः ।
स यदा स्वपिति प्राणम् एव वाग् अप्य् एति ।
प्राणं चक्षुः ।
प्राणं श्रोत्रम् ।
प्राणं मनः ।
प्राणो ह्य् एवैतान् सर्वान् संवृङ्क्त इति
छुप्भ्_4,3.3 अथानन्तरमध्यात्ममात्मनि संवर्गदर्शनमिदमुच्यते ।
प्राणो मुख्योवाव संवर्गः ।
स पुरुषो यदा यस्मिन्काले स्वपिति प्राणमेव वागप्येति वायुमिवाग्निः प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो हि यस्मादेवैतान्वागादीन्सर्वान्संवृङ्क्त इति ॥3 ॥
स्तर्त् छुप् 4,3.4
तौ वा एतौ द्वौ सम्वर्गौ ।
वायुर् एव देवेषु प्राणः प्राणेषु
छुप्भ्_4,3.4 तौ वा एतौ द्वौ संवर्गौ संवर्जनगुणो वायुरेव देवेषु संवर्गः प्राणः प्राणेषु वागादिषु मुख्यः ॥4 ॥
स्तर्त् छुप् 4,3.5
अथ ह शौनकं च कापेयम् अभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे ।
तस्मा उ ह न ददतुः
छुप्भ्_4,3.5 अथैतयोः स्तुत्यर्थमियमाख्यायिकाऽरभ्यते ।
हेत्यैतिह्यार्थः ।
शौनकं च शुनकस्यापत्यं शोनकं कापेयं कपिगोत्रमभिप्रतारिणं च नामतः कक्षसेनस्यापत्यं काक्षसेनिं भोजनायोपविष्टौ परिविष्यमाणौ सूपकारैर्ब्रह्मचारी ब्रह्मविच्छण्डो बिभिक्षे भिक्षितवान् ।
ब्रह्मचारिणो ब्रह्मविन्मानितां बुद्ध्वा तं जिज्ञासमानौ तस्मा उ भिक्षां न जजतुर्न दत्तवन्तौ ह किमयं बक्ष्यतीति ॥5 ॥
स्तर्त् छुप् 4,3.6
स होवाच ।
महात्मनश् चतुरो देव एकः कः स जगार भुवनस्य गोपाः ।
तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तम् ।
यस्मै वा एतद् अन्नं तस्मा एतन् न दत्तम् इति
छुप्भ्_4,3.6 स होवाच ब्रह्मचारी महात्मनश्चतुर इति द्वितीयाबहुवचनम् ।
देव एको ऽग्न्यादीन्वायुर्वागादीन्प्राणः ।
कः स प्रजापतिर्जगार ग्रसितवान् ।
कः स जगारेति प्रश्नमेके ।
भुवनस्य भवन्त्यस्मिन्भूतानीति भुवनं भूरादिः सर्वो लोकस्तस्य गोपा गोपायिता रक्षिता गोप्तेत्यर्थः ।
तं कं प्रजापतिं हे कापेय नाभिपश्यन्ति न जानन्ति मर्त्या मरणधर्माणो ऽविवेकिनो वा हे ऽभिप्रतारिन्बहुधाध्यात्माधिदैवताधिभूतप्रकारैर्वसन्तम् ।
यस्मै वा एतदहन्यहन्यन्नमदनायाऽह्रियते संस्क्रियते च तस्मै प्रजापतय एतदन्नं न दत्तमिति ॥6 ॥
स्तर्त् छुप् 4,3.7
तद् उ ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय ।
आत्मा देवानां जनिता प्रजानां हिरङ्यदंष्ट्रो बभसो ऽनसूरिः ।
महान्तम् अस्य महिमानम् आहुर् अनद्यमानो यद् अनन्नम् अत्ति ।
इति वै वयम् ब्रह्मचारिन् नेदम् उपास्महे दत्तास्मै भिक्षाम् इति
छुप्भ्_4,3.7 तदु ह ब्रह्मचारिणो वचनं शौनकः कापेयः प्रतिमन्वानो मनसाऽलोचयन्ब्रह्मचारिणं प्रत्येयायाऽजगाम ।
गत्वा चाऽह-यं त्वमवोचो न पश्यन्ति मर्त्या इति तं वयं पश्यामः ।
कथम्?आत्मा सर्वस्य स्थावरजङ्गमस्य ।
किञ्च देवानामग्न्यादीनामात्मनि संहृत्य ग्रसित्वा पुनर्जनितोत्पादयिता वायुरूपेणाधिदैवतमग्न्यादीनाम् ।
अध्यात्मं च प्राणरूपेण वागादीनां प्रजानां च दनिता ।
अथ वाऽत्मा देवानामग्निवागादीनां जनिता प्रजानां स्थावरजङ्गमानाम् ।
हिरण्यदंष्ट्रो ऽभग्नदंष्ट्र इति यावत् ।
बभसो भक्षणशीलः ।
अनसूरिः सूरिर्मेधावी न सूरिरसूरिस्तत्प्रतिषेधो ऽनसूरिः सूरिरेवेत्यर्थः ।
महान्तमतिप्रमाणमप्रमेयमस्य प्रजापतेर्महिमानं विभूतिमाहुर्ब्रह्मविदः ।
यस्मात्स्वयमन्यैरनद्यमानो ऽभक्ष्यमाणो यदनन्नमग्निवागादिदेवतारूपमत्ति भक्षयतीति ।
वा इति निरर्थकः ।
वयं हे ब्रह्मचारिन्, आ, इदमेवं यथोक्तलक्षणं ब्रह्म वयमा उपास्महे ।
वयमिति व्यवहितेन सम्बन्धः ।
अन्ये न वयमिदमुपास्महे ।
किं तर्हि परमेव ब्रह्मोपास्मह इति वर्णयन्ति ।
दत्तास्मै भिक्षामित्यवोचद्भृत्यान् ॥7 ॥
स्तर्त् छुप् 4,3.8
तस्मै उ ह ददुः ।
ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस् तत् कृतम् ।
तस्मात् सर्वासु दिक्ष्व् अन्नम् एव दश कृतम् ।
सैषा विराड् अन्नादी ।
तयेदं सर्वं दृष्टम् ।
सर्वम् अस्य इदं दृष्टं भवत्य् अन्नादो भवति य एवं वेद य एवं वेद
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0