छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.2
छुप्भ्_4,1.8 इत्युक्तः क्षत्तान्विष्य तं विजने देशे ऽधस्ताच्छकटस्य गन्त्र्याः पामानं खर्जूं कषमाणं कण्डूयमानं दृष्ट्वायं नूनं सयुग्वा रैक्व इत्युप समीप उपविवेश विनयेनोपविष्टवान् ।
तं च रैक्वं हाभ्युवादोक्तवान् ।
त्वमसि हे भगवो भगवन्सयुग्वा रैक्व इति ।
एवं पृष्टो ऽहमस्मि ह्यरा 3 अर इति हानादर एव प्रतिजज्ञे ऽभ्युपगतवान् ।
स तं विज्ञायाविदं विज्ञातवानस्मीति प्रत्येयाय प्रत्यागत इत्यर्थः ॥8॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य प्रथमः खण्डः
=======================================================================
स्तर्त् छुप् 4,2.1
तद् उ ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कम् अश्वतरीरथं तद् आदाय प्रतिचक्रमे ।
तं हाभ्युवाद
छुप्भ्_4,2.1 तत्तत्र ऋषेर्गार्हस्थ्यं प्रत्यभिप्रयं बुद्ध्वा धनार्थितां चो ह, एव जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कं कण्ठहारमश्वतरीरथमश्वतरीभ्यां युक्तं रथं तदादाय धनं गृहीत्वा प्रतिचक्रमे रैक्वं प्रति गतवान् ।
तं च गत्वाभ्युवाद हाभ्युक्तवान् ॥1 ॥
स्तर्त् छुप् 4,2.2
रैक्वेमानि षट् शतानि गवाम् अयं निष्को ऽयम् अश्वतरीरथः ।
अनु म एतां भगवो देवतां शाधि यां देवताम् उपास्स इति
छुप्भ्_4,2.2 हे रैक्व गवां षट्शतानीमानि तुभ्यं मयाऽनीतान्ययं निष्को ऽश्वतरीरथश्चायमेतद्धनमादत्स्व भगवो ऽनुशाधि च मे मामेतां यां च देवतां त्वमुपाःसे तद्देवतोपदेशेन मामनुशाधीत्यर्थः ॥2 ॥
स्तर्त् छुप् 4,2.3
तम् उ ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिर् अस्त्व् इति ।
तद् उ ह पुनर् एव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कम् अश्वतरीरथं दुहितरं तद् आदाय प्रतिचक्रमे
छुप्भ्_4,2.3 तमेवमुक्तवन्तं राजानं प्रत्युवाच परो रैक्वः ।
अहेत्ययं निपातो विनिग्रहार्थीयो ऽन्यत्रेह त्वनर्थकः ।
एवशब्दस्य पृथक्प्रयोगात् ।
हारेत्वा हारेण युक्तेत्वा गन्त्री सेयं हारेत्वा गोभिः सह तवैवास्तु तिष्ठतु न ममापर्याप्तेन कर्मार्थमनेन प्रयोजनमित्यभिप्रायो हे शूद्रेति ।
ननु राजासौ क्षत्तृसम्बन्धात्स ह क्षत्तारमुवाचेत्युक्तम् ।
विद्याग्रहणाय च ब्राह्मणसमीपोपगमाच्छूद्रस्य चानधिकारात्कथमिदमननुरूपं रैक्वेणोच्यते हे शूद्रेति ।
तत्राऽहुराचार्याः-हंसवचनश्रवणाच्छुगेनमाविवेश ।
तेनासौ शुचा श्रुत्वा रैक्वस्य महिमानं वा आद्रवतीति ऋषिरात्मनः परोक्षज्ञतां दर्शयञ्शूद्रेत्याहेति ।
शूद्रवद्वा धनेनैवैनं विद्याग्रहणायोपजगाम न च शुश्रूषया ।
न तु जात्यैव शूद्र इति ।
अपरे पुनराहुरल्पं धनमाहृतमिति रुषैवैनमुक्तवाञ्छूद्रेति ।
लिङ्गं च बह्वाहरण उपादानं धनस्येति ।
तदुहर्षेर्मतं ज्ञात्वा पुनरेव जानश्रुतिः पौत्रायणो गवां सहस्रमधिकं जायां चर्षेरभिमतां दुहितरमात्मनस्तदादाय प्रतिचक्रमे क्रान्तवान् ॥3 ॥
स्तर्त् छुप् 4,2.4-5
तं हाभ्युवाद ।
रैक्वेदं सहस्रं गवाम् अयं निष्को ऽयम् अश्वतरीरथ इयं जायायं ग्रामो यस्मिन्न् आस्से ऽन्व् एव मा भगवः शाधीति
तस्या ह मुखम् उपोद्गृह्णन्न् उवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ।
ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास ।
तस्मै होवाच
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0