छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.1
छुप्भ्_3,19.4 स यः कश्चिदेतमेवं यथोक्तमहिमानं विद्वान्सन्नादित्यं ब्रह्मेत्युपास्ते स तद्भावं प्रतिपद्यत इत्यर्थः ।
किञ्च दृष्टं फलमभ्याशः क्षिप्रं तद्विदो यदिति क्रियाविशेषणमेनमेवंविदं साधवः ।
शोभना घोषाः ।
साधुत्वं घोषादीनां यदुपभोगे पापानुबन्धाभावः ।
आ च गच्छेयुरागच्छेयुश्चोप च निम्रेडेरन्नुपनिम्रेडेरंश्च न केवलमागमनमात्रं घोषाणामुपसुखयेयुश्चोपसुखं च कुर्यरित्यर्थः ।
द्विरभ्यासो ऽध्यायपरिसमाप्त्यर्थः आदरार्थश्च ॥4 ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्यैकोनविंशः खण्डः
इति च्छान्दोग्योपनिषद्ब्राह्मणे तृतीयो ऽध्यायः समाप्तः
इन् रेए निछ्त् zउल्äस्सिगे zएइछेन्:
अथ चतुर्थो ऽध्यायः
स्तर्त् छुप् 4,1.1
जानश्रुतिर् ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस ।
स ह सर्वत आवसथान् मापयां चक्रे सर्वत एव मे ऽन्नम् अत्स्यन्तीति
छुप्भ्_4,1.1 वायुप्राणयोर्ब्रह्मणः पाददृष्ट्यध्यासः पुरस्ताद्वर्णितः ।
अथेदानीं तयोः साक्षाद्ब्रह्मत्वेनोपास्यत्वायोत्तरमारभ्यते ।
सुखावबोधार्थाऽख्यायिका, विद्यादानग्रहणविधिप्रदर्शनार्था च श्रद्धान्नदानानुद्धतत्वादीनां च विद्याप्राप्ति साधनत्वं प्रदर्श्यत आख्यायिकया ।
जानश्रुतिर्जनश्रुतस्यापत्यम् ।
हः ऐतिह्यार्थः ।
पुत्रस्य पौत्रः पौत्रायणः स एव श्रद्धादेयः श्रद्धापुरःसरमेव ब्राह्मणादिभ्यो देयमस्येति श्रद्धादेयः ।
बहुदायी प्रभूतं दातुं शीलमस्येति बहुदायी ।
बहुपाक्यो बहु पक्तव्यमहन्यहनि गृहे यस्यासौबहुपाक्यः ।
भोजनार्थिभ्यो बह्वस्य गृहे ऽन्नं पच्यत इत्यर्थः ।
एवङ्गुणसम्पन्नो ऽसौ जानश्रुतिः पौत्रायणो विशिष्टे देशे काले च कस्मिंश्चिदास बभूव ।
स ह सर्वतः सर्वासु दिक्षु ग्रामेषु नगरेषु चाऽवसथानेत्य वसन्ति येष्वित्यावसथास्तान्मापयाञ्चक्रे कारितवानित्यर्थः ।
सर्वत एव मे ममान्नं तेष्वावसथेषु वसन्तो ऽत्स्यन्ति भोक्ष्यन्त इत्येवमभिप्रायः ॥1 ॥
स्तर्त् छुप् 4,1.2
अथ ह हंसा निशायाम् अतिपेतुः ।
तद् धैवं हंसो हंसम् अभ्युवाद ।
हो हो ऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिर् आततं तन् मा प्रसाङ्क्षीस् तत् त्वां मा प्रधाक्षीर् इति
छुप्भ्_4,1.2 तत्रैवं सति राजनि तस्मिन्धर्मकाले हर्म्यतलस्थे ऽथ ह हंसा निशायां रात्रावतिपेतुः ।
ऋषयो देवता वा राज्ञो ऽन्नदानगुणैस्तोषिताः सन्तो हंसारूपा भूत्वा राज्ञो दर्शनगोचरे ऽतिपेतुः ।
तत्तस्मिन्काले तेषां पततां हंसानामेकः पृष्ठतः पतन्नग्रतः पतन्तं हंसमभ्युवादाभ्युक्तवान्हो हो ऽयीति भो भो इति सम्बोध्य भल्लाक्ष भल्लाक्षेत्यादरं दर्शयन् यथा पश्य पश्याऽश्चर्यमिति तद्वत् ।
भल्लाक्षेति मन्ददृष्टित्वं सूचयन्नाह ।
अथवा सम्यग्ब्रह्मदर्शनाभिमानवत्त्वात्तस्यासकृदुपालब्धस्तेन पीड्यमानो ऽमर्षितया तत्सूचयति भल्लाक्षेति ।
जानश्रुतेः पौत्रायणस्य समं तुल्यं दिवा द्युलोकेन ज्योतिः प्रभास्वरमन्नदानादिजनितप्रभावजमाततं व्याप्तं द्युलोकस्पृगित्यर्थः ।
दिवाह्ना वा समं ज्योतिरित्येतत् ।
तन्मा प्रसाङ्क्षीः सञ्जनं सक्तिं तेन ज्योतिषा सम्बन्धं मा कार्षीरित्यर्थः ।
तत्प्रसञ्जनेन तज्ज्योतिस्त्वा त्वां मा प्रधाक्षीर्मा दहत्वित्यर्थः पुरुषव्यत्यनेन मा प्रधाक्षीदिति ॥2 ॥
स्तर्त् छुप् 4,1.3
तम् उ ह परः प्रत्युवाच कम् व् अर एनम् एतत् सन्तं सयुग्वानम् इव रैक्वम् आत्थ इति ।
यो नु कथं सयुग्वा रैक्व इति
छुप्भ्_4,1.3 तमेवमुक्तवन्तं पर इतरो ऽग्रगामी प्रत्युवाचारे निकृष्टो ऽयं राजा वराकस्तं कमु एनं सन्तं केन माहात्म्येन युक्तं सन्तमिति कुत्सयत्येनमेवं सबहुमानमेतद्वचनमात्थ रैक्वमिव, सयुग्वानं सह युग्वना गन्त्र्या वर्तत इति सयुग्वा रैक्वः ।
तमिवाऽत्थैनम् ।
अननुरूपमस्मिन्नयुक्तमीदृशं वक्तुं रैक्व इवेत्यभिप्रायः ।
इतरश्चाऽह-यो नु कथं त्वयोच्यते सयुग्वा रैक्व इत्युक्तवन्तं भल्लाक्ष आह शृणु यथा स रैक्वः ॥3 ॥
स्तर्त् छुप् 4,1.4
यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंच प्रजाः साधु कुर्वन्ति ।
यस् तद् वेद यत् स वेद स मयैतद् उक्त इति
छुप्भ्_4,1.4 यथा लोके कृतायः कृतो नामायो द्यूतसमये प्रसिद्धश्चतुरङ्कः स यदा जयति द्यूते प्रवृत्तानां तस्मै विजिताय तदर्थमितरे त्रिद्व्येकाङ्का अधरे ऽयास्त्रेताद्वापरकलिनामानः संयन्ति संगच्छन्ते ऽन्तर्भवन्ति ।
चतुरङ्के कृताये त्रिद्व्येकाङ्कानां विद्यमानत्वात्तदन्तर्भवन्तीत्यर्थः ।
यथायं दृष्टान्त एवमेनं रैक्वं कृतायस्थानीयं त्रेताद्यायस्थानीयं सर्वं तदभिसमेत्यन्तर्भवति रैक्वे ।
किं तद्यत्किञ्च लोके सर्वाः प्रजाः साधु शोभनं धर्मजातं कुर्वन्ति तत्सर्वं रैक्वस्य धर्मे ऽन्तर्भवति ।
तस्य च फले सर्वप्राणिधर्मफलमन्तर्भवतीत्यर्थः ।
तथान्यो ऽपि कश्चिद्यस्तद्वेद्यं वेद ।
किं तद्यद्वेद्यं स रैक्वो वेद ।
तद्वेद्यमन्यो ऽपि यो वेद तमपि सर्वप्राणिधर्मजातं तत्फलं च रैक्वमिवाभिसमेतीत्यनुवर्तते ।
स एवंभूतो मया विद्वानेतदिक्त एवमुक्तो रैक्ववत्स एव कृतायस्थानीयो भवतीत्यभिप्रायः ॥4 ॥
स्तर्त् छुप् 4,1.5-6
तद् उ ह जानश्रुतिः पौत्रायण उपशुश्राव ।
स ह संजिहान एव क्षत्तारम् उवाचाङ्गारे ह सयुग्वानम् इव रैक्वम् आत्थेति ।
यो नु कथं सयुग्वा रैक्व इति
यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंच प्रजाः साधु कुर्वन्ति ।
यस् तद् वेद यत् स वेद स मयैतद् उक्त इति
छुप्भ्_4,1.5,6 तदु ह तदेतदीदृशं हंसवाक्यमात्मनः कुत्सारूपमन्यस्य विदुषो रैक्वादेः प्रशंसारूपमुपशुश्राव श्रुतवान्हर्म्यतलस्थो राजा जानश्रुतिः पौत्रायणः ।
तच्च हंसवाक्यं स्मरन्नेव पौनः पुन्येन रात्रिशेषमतिवाहयामास ।
ततः स बन्दिभी राजा स्तुतियुक्ताभिर्वाग्भिः प्रतिबोध्यमान उवाच क्षत्तारं संजिहान एव शयनं निद्रां वा परित्यजन्नेव हे ऽङ्ग वत्सारे स सयुग्वानमिव रैक्वमात्थ किं माम् ।
स एव स्तुत्यर्हे नाहमित्यभिप्रायः ।
अथवा सयुग्वानं रैक्वमात्थ गत्वा मम तद्दिदृक्षा;तदेवशब्दो ऽवधारणार्थो ऽनर्थको वा वाच्यः ।
स च क्षत्ता प्रत्युवाच रैक्वानयनकामो राज्ञो ऽभिप्रायज्ञो यो नु कथं सयुग्वा रैक्व इति, राज्ञैवं चोक्त आनेतुं तच्चिह्नं ज्ञतुमिच्छन्यो नु कथं सयुग्वा रैक्व इत्यवोचत् ।
स च भल्लाक्षवचनमेवावोचत् ॥5-6 ॥
स्तर्त् छुप् 4,1.7
स ह क्षत्तान्विष्य नाविदम् इति प्रत्येयाय ।
तं होवाच यत्रारे ब्राह्मणस्यान्वेषणा तद् एनम् अर्च्छेति
छुप्भ्_4,1.7 तस्य स्मरन्स ह क्षत्ता नगरं ग्रामं वा गत्वान्विष्य रैक्वं नाविदं न व्यज्ञासिषमिति प्रत्येयाय प्रत्यागतवान् ।
तं होवाच क्षत्तरमरे यत्र ब्राह्मणस्य ब्रह्मविद एकान्ते ऽरण्ये नदीपुलिनादौ विविक्ते देशे ऽन्वेषणानुमार्गणं भवति तत्तत्रैनं रैक्वमर्छ ऋच्छ गच्छ तत्र मार्गणं कुर्वित्यर्थः ॥7 ॥
स्तर्त् छुप् 4,1.8
सो ऽधस्ताच् छकटस्य पामानं कषमाणम् उपोपविवेश ।
तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इति ।
अहं ह्य् अरा 3 इति ह प्रतिजज्ञे ।
स ह क्षत्ताविदम् इति प्रत्येयाय
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0