छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.17
छुप्भ्_4,16.4,5 अथ पुनर्यत्र ब्रह्मा विद्वान्मौनं परिगृह्य वाग्विसर्गमकुर्वन्वर्तते यावत्परिधानीयाया न व्यववदति तथैव सर्वर्त्विज उभे एव वर्तनी संस्कुर्वन्ति न हीयते ऽन्यतरापि ।
किमिवेत्याह ।
पूर्वोक्तविपरीतौ दृष्टान्तौ ।
एवमस्य यजमानस्य यज्ञः स्ववर्तनीभ्यां वर्तमानः प्रतितिष्ठति स्वेनाऽत्मनाविनश्यन्वर्तत इत्यर्थः ।
यज्ञं प्रतितिष्ठन्तं यजमानो ऽनुप्रतितिष्ठति स यजमान एवं मौनविज्ञानवद्ब्रह्मोपेतं यज्ञमिष्ट्वा श्रेयान्भवति श्रेष्ठो भवतीत्यर्थः ॥4-5 ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य षोडशः खण्डः
=======================================================================
स्तर्त् छुप् 4,17.1
प्रजापतिर् लोकान् अभ्यतपत् ।
तेषां तप्यमानानां रसान् प्रावृहत् ।
अग्निं पृथिव्याः ।
वायुम् अन्तरिक्षात् ।
आदित्यं दिवः
छुप्भ्_4,17.1 अत्र ब्रह्मणो मौनं विहितं तद्रेषे ब्रह्मत्वकर्मणि चान्यस्मिंश्च होत्रादिकर्मरेषे व्याहृतिहोमः प्रायश्चित्तमिति तदर्थं व्याहृतयो विधातव्या इत्याह-प्रजापतिर्लोकानभ्यतपल्लोकानुद्दिश्य तत्र सारजिघृक्षया ध्यानलक्षणं तपश्चचार ।
तेषां तप्यमानानां लोकानां रसान्साररूपान्प्रावृहदुद्धृतवाञ्जग्राहेत्यर्थः ।
कान् ।
अग्निं रसं पृथिव्याः ।
वायुमन्तरिक्षात् ।
आदित्यं दिवः ॥1 ॥
स्तर्त् छुप् 4,17.2
स एतास् तिस्रो देवता अभ्यतपत् ।
तासां तप्यमानानां रसान् प्रावृहत् ।
अग्नेर् ऋचः ।
वायोर् यजूंषि ।
सामान्य् आदित्यात्
छुप्भ्_4,17.2 पुनरप्येवमेवमग्न्याद्याः स एतास्तिस्रो देवता उद्दिश्याभ्यतपत् ।
ततो ऽपि सारं रसं त्रयीविद्यां जग्राह ॥2 ॥
स्तर्त् छुप् 4,17.3-4
स एतां त्रयीं विद्याम् अभ्यतपत् ।
तस्यास् तप्यमानाया रसान् प्रावृहत् ।
भूर् इत्य् ऋग्भ्यः ।
भुवर् इति यजुर्भ्यः ।
स्वर् इति सामभ्यः
तद् यद्य् ऋक्तो रिष्येद् भूः स्वाहेति गार्हपत्ये जुहुयात् ।
ऋचाम् एव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं संदधाति
छुप्भ्_4,17.3,4 स एतां पुनरभ्यतपत्त्रयीं विद्याम् ।
तस्यास्तप्यमानाया रसं भूरिति व्याहृतिमृग्भ्यो जग्राह ।
भुवरिति व्याहृतिं यजुर्भ्यः ।
स्वरिति व्याहृतिं सामभ्यः ।
अत एव लोकदेववेदरसा महाव्याहृतयाः ।
अतस्तत्तत्र यज्ञे यद्यृक्त ऋक्सम्बन्धादृङ्निमित्तं रिष्येद्यज्ञः क्षतं प्राप्नुयाद्भूः स्वाहेति गार्हपत्ये जुहुयात् ।
सा तत्र प्रायश्चित्तिः ।
कथम्, ॠचामेव तदिति क्रियाविशेषणं, रसेनर्चां वीर्येणौजसर्चां यज्ञस्य ऋक्सम्बन्धिनो यज्ञस्य विरिष्टं विच्छिन्नं क्षतरूपमुत्पन्नं सन्दधाति प्रतिसन्धत्ते ॥3-4 ॥
स्तर्त् छुप् 4,17.5-6
अथ यदि यजुष्टो रिष्येद् भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् ।
यजुषाम् एव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टं संदधाति
अथ यदि सामतो रिष्येत् स्वः स्वाहेत्य् आहवनीये जुहुयात् ।
साम्नाम् एव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं संदधाति
छुप्भ्_4,17.5,6 अथ यदि यजुष्टो यजुर्निमित्तं रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् ।
तथा सामनिमित्ते रेषे स्वः स्वाहेत्याहवनीये जुहुयात् ।
तथा पूर्ववद्यज्ञं सन्दधाति ।
ब्रह्मनिमित्ते तु रेषे त्रिष्वग्निषु ।
तिसृभिर्व्याहृतिभिर्जुहुयात् ।
त्रय्या हि विद्यायाः स रेषः ।
"अथ केन ब्रह्मत्वमित्यनयैव त्रय्या विद्यया"इति श्रुतेः ।
न्यायान्तरं वा मृग्यं ब्रह्मत्वनिमित्ते रेषे ॥5-6 ॥
स्तर्त् छुप् 4,17.7-8
तद् यथा लवणेन सुवर्णं संदध्यात् ।
सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा
एवम् एषां लोकानाम् आसां देवतानाम् अस्यास् त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टं संदधाति ।
भेषजकृतो ह वा एष यज्ञो यत्रैवंविद् ब्रह्मा भवति
छुप्भ्_4,17.7,8 तद्यथा लवणेन सुवर्णं सन्दध्यात् ।
क्षारेण टङ्कणादिना खरे;मृदुत्वकरं हि तत् ।
सुवर्णेन रजतमशक्यसन्धानं सन्दध्यात् ।
रजतेन तथा त्रपु त्रपुणा सीसं सीसेन लोह लोहेन दारु दारु चर्मणा चर्मबन्धनेन ।
एवमेषां लोकानामासां देवतानामस्यास्रय्या विद्याया वीर्येण रसाख्येनौजसा यज्ञस्य विरिष्टं सन्दधाति ।
भेषजकृतो ह वा एष यज्ञः ।
रोगार्त इव पुमांश्चिकित्सकेन सुशिक्षितेनैष यज्ञो भवति ।
को ऽसौ ।
यत्र यस्मिन्यज्ञ एवंविद्यथोक्तव्याहृतिहोमप्रायश्चित्तविद्ब्रह्मर्त्विग्भवति स यज्ञ इत्यर्थः ॥7-8 ॥
स्तर्त् छुप् 4,17.9
एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद् ब्रह्मा भवति ।
एवंविदं ह वा एषा ब्रह्माणम् अनु गाथा ।
यतो यत आवर्तते तत् तद् गच्छति
छुप्भ्_4,17.9 किञ्चैष ह वा उदक्प्रवण उदङ्निम्नो दक्षिणोच्छ्रायो यज्ञो भवति ।
उत्तरमार्गप्रतिपत्तिहेतुरित्यर्थः ।
यत्रैवंविद्ब्रह्मा भवत्येवंविदं ह वै ब्रह्माणमृत्विजं प्रत्येषानुगाथा ब्रह्मणः स्तुतिपरा ।
यतो यत आवर्तते कर्म प्रदेशादृत्विजां यज्ञः क्षतीभवंस्तत्तद्यज्ञस्य क्षतरूपं प्रतिसन्दधत्प्रायश्चित्तेन गच्छति परिपालयतीत्येतत् ॥9 ॥
स्तर्त् छुप् 4,17.10
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश् चर्त्विजो ऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥10॥
मानवः ।
ब्रह्मैवैक ऋत्विक् कुरून् अश्वाभिरक्षति ।
एवंविद् ध वै ब्रह्मा यज्ञं यजमानं सर्वांश् चर्त्विजो ऽभिरक्षति ।
तस्माद् एवंविदम् एव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम्
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0