भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.16

4.16.1

छुप्भ्_4,15.5 अथेदानीं यथोक्तब्रह्मविदो गतिरुच्यते ।
यद्यदि उ चैवास्मिन्नेवंविदि शव्यं शवकर्म मृते कुर्वन्ति यदि च न कुर्वन्ति ऋत्विजः सर्वथाप्येवंवित्तेन शवकर्मणाकृतेनापि प्रतिबद्धो न ब्रह्म[द्मटप्राप्नोति ।
न च कृतेन शवकर्मणास्य कश्चनाभ्यधिको लोकः ।
"न कर्मणा वर्धते नो कनीयान्"इति श्रुत्यन्तरात् ।
शवकर्मण्यनादरं दर्शयन्विद्यां स्तौति न पुनः शवकर्मैवंविदो न कर्तव्यमिति ।
अक्रियमाणे हि शवकर्मणि कर्मणा फलारम्भे प्रतिबन्धः कश्चिदनुमीयते ऽन्यत्र ।
यत इह विद्याफलारम्भकाले शवकर्म स्याद्वा न वेति विद्यावतो ऽप्रतिबन्धेन फलारम्भं दर्शयति ।
ये सुखाकाशमक्षिस्थं संयद्वामो वामनीर्भामनीरित्येवङ्गुणमुपासते प्राणसहितामग्निविद्यां च तेषामन्यत्कर्म भवतु मा वा भूत्सर्वथापि ते ऽर्चिषमेवाभिसम्भवन्त्यर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्त इत्यर्थः ।
अर्चिषो ऽर्चिर्देवताया अहरहरभिमानिनीं देवतामह्न आपूर्यमाणपक्षं शुक्लपक्षदेवतामापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङुत्तरां दिशमेति सविता तान्मासानुत्तरायणदेवतां तेभ्यो मासेभ्यः संवत्सरं संवत्सरदेवतां ततः संवत्सरादादिदित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्तत्रस्थांस्तान्पुरुषः कश्चिद्ब्रह्मलोकादेत्यामानवो मानव्यां सृष्टौ भवो मानवो न मानवो ऽमानवः स पुरुष एनान्ब्रह्म सत्यलोकस्थं गमयति गन्तृगन्तव्यगमयितृत्वव्यपदेशेभ्यः ।
सन्मात्रब्रह्मप्राप्तौ तदनुपपत्तेः ।
ब्रह्मैव सन्ब्रह्माप्येतीति हि तत्र वक्तुं न्याय्यम् ।
सर्वभेदनिरासेन सन्मात्रप्रतिपत्तिं वक्ष्यति ।
न चादृष्टो मार्गो ऽगमनायोपतिष्ठते ।
"स एनमविदितो न भुनक्ति"इति श्रुत्यन्तरात् ।
एष देवपथः देवैरर्चिरादिभिः गमयितृत्वेनाधिकृतैः उपलक्षितः पन्था देवपथ उच्यते ।
ब्रह्म गन्तव्यं तेन चोपलक्षित इति ब्रह्मपथः ।
एतेन प्रतिपद्यमाना गच्छन्तो ब्रह्मेमं मानवं मनुसम्बन्धिनं मनोः सृष्टिलक्षणमावत नाऽवर्तन्त आवर्तन्ते ऽस्मिञ्जननमरणप्रबन्धचक्रारूढा घटीयन्त्रवत्पुनः पुनरित्यार्वतस्तं न प्रतिपद्यन्ते ।
नावर्तन्ते नाऽवर्तन्ते इति द्विरुक्तिः सफलाया विद्यायाः परिसमाप्तिप्रदर्शनार्था ॥5॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य पञ्चदशः खण्डः
=======================================================================
स्तर्त् छुप् 4,16.1
एष ह वै यज्ञो यो ऽयं पवते ।
एष ह यन्न् इदं सर्वं पुनाति ।
यद् एष यन्न् इदं सर्वं पुनाति ।
तस्माद् एष एव यज्ञः ।
तस्य मनश् च वाक् च वर्तनी

4.16.2

छुप्भ्_4,16.1 रहस्यप्रकरणे प्रसङ्गादारण्यकत्वसामान्याच्च यज्ञे क्षत उत्पन्ने व्याहृतयः प्रायश्चित्तार्था विधातव्यास्तदभिज्ञस्य चर्त्विजो ब्रह्मणो मौनमित्यत इदमारभ्यते-एष ह वा एष वायुर्यो ऽयं पवते ऽयं यज्ञः ।
ह वा इति प्रसिद्धार्थावद्योतकौ निपातौ ।
वायुप्रतिष्ठो हि यज्ञः प्रसिद्धः श्रुतिषु ।
"स्वाहा वातेधाः ।
" "अयं वै यज्ञो यो ऽयं पवते"इत्यादिश्रुतिभ्यः ।
वात एव हि चलनात्मवत्वात्क्रियासमवायी ।
"वात एव यज्ञस्याऽरम्भको वातः प्रतिष्ठा"इति च श्रवणात् ।
एष ह यन्गच्छंश्चलन्निदं सर्वं जगत्पुनाति पावयति शोधयति ।
न ह्यचलतः शुद्धिरस्ति ।
दोषनिरसनं चलतो हि दृष्टं न स्थिरस्य ।
यद्यस्माच्च यन्नष इदं सर्वं पुनाति तस्मादेष एव यज्ञो यत्पुनातीति ।
तस्यास्यैवं विशिष्टस्य यज्ञस्य वाक्च मन्त्रोच्चारणे व्यापृता ।
मनश्च यथाभूतार्थज्ञाने व्यापृतम् ।
ते एते वाङ्मनसे वर्तनी मार्गौ याभ्यां यज्ञस्तायमानः प्रवर्तते ते वर्तनी ।
प्राणापानपरिचलनवत्या हि"वाचश्चित्तस्य चोत्तरोत्तरक्रमो यद्यज्ञः"इति हि श्रुत्यन्तरम् ।
अतो वाङ्मनसाभ्यां यज्ञो वर्तत इति वाङ्मनसे वर्तनी उच्येते यज्ञस्य ॥1॥
स्तर्त् छुप् 4,16.2-3
तयोर् अन्यतरां मनसा संस्करोति ब्रह्मा ।
वाचा होताध्वर्युर् उद्गातान्यतराम् ।
स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति

4.16.3

अन्यतराम् एव वर्तनीं संस्करोति ।
हीयते ऽन्यतरा ।
स यथैकपाद् व्रजन् रथो वैकेन चक्रेण वर्तमानो रिष्यत्य् एवम् अस्य यज्ञो रिष्यति ।
यज्ञं रिष्यन्तं यजमानो ऽनु रिष्यति ।
स इष्ट्वा पापीयान् भवति

4.16.4

छुप्भ्_4,16.3 तयोर्वर्तन्योरन्यतरां वर्तनीं मनसा विवेकज्ञानवता संस्करोति ब्रह्मर्त्विग्वाचा वर्तन्या होताध्वर्युरुद्गातेत्येते त्रयो ऽप्यृत्विजो ऽन्यतरां वाग्लक्षणां वर्तनीं वाचैव संस्कुर्वन्ति ।
तत्रैवं सति वाङ्मनसे वर्तनी संस्कार्ये यज्ञे ।
अथ स ब्रह्मा यत्र यस्मिन्काल उपाकृते प्रारब्धे प्रातरनुवाके शस्रे पुरा पूर्वं परिधानीयाया ऋचो ब्रह्मैतस्मिन्नन्तरे काले व्यववदति मौनं परित्यजति यदि तदान्यतरामेव वा#अग्वर्तनीं संस्करोति ब्रह्मणासंस्क्रियमाणा मनोवर्तनी हीयते विनश्यति च्छिद्रीभवत्यन्यतरा ।
स यज्ञो वाग्वर्तन्यैवान्यतरया वर्तितुमशक्नुवन्रिष्यति ।
कथमिवेत्याह ।
स यथैकपात्पुरुषो ब्रजन्गच्छन्नध्वानं रिष्यति, रथो वैकेन चक्रेण वर्तमानो गच्छन्रिष्यत्येवमस्य यजमानस्य कुब्रह्मणा यज्ञो रिष्यति विनश्यति ।
यज्ञं रिष्यन्तं यजमानो ऽरिष्यति ।
यज्ञप्राणो हि यजमानः ।
अतो युक्तो यज्ञरेषे रेषस्तस्य ।
स तं यज्ञमिष्ट्वा तादृशं पापीयान्पापतरो भवति ॥2-3 ॥
स्तर्त् छुप् 4,16.4-5
अथ यत्र उपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यववदत्य् उभे एव वर्तनी संस्कुर्वन्ति ।
न हीयते ऽन्यतरा

4.16.5

स यथोभयपाद् व्रजन् रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्य् एवम् अस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानो ऽनु प्रतितिष्ठति ।
स इष्ट्वा श्रेयान् भवति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc