भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.15

4.15.1

छुप्भ्_4,14.2,3 भगव इति ह प्रतिशुश्राव ।
ब्रह्मविद इव सोम्य ते मुखं प्रसन्नं भाति को नु त्वानुशशासेत्युक्तः प्रत्याह ।
को नु मानुशिष्यादनुशासनं कुर्याद्भो भगवंस्त्वयि प्रोषित इतीहापेव निह्नुते ऽपनिह्नुत इवेति व्यवहितेन सम्बन्धो न चापनिह्नुते न च यतावदग्निभिरुक्तं ब्रवीतीत्यभिप्रायः ।
कथमिमे ऽग्नयो मया परिचरिता उक्तवन्तो नूनं यतस्त्वां दृष्ट्वा वेपमाना इवेदृशा दृश्यन्ते पूर्वमन्यादृशाः सन्त इतीहाग्नीनभ्यूदे ऽभ्युक्तवान्काक्वाग्नीन्दर्शयन् ।
किं नु सोम्य किल ते तुभ्यमवोचन्नग्नय इति पृष्ट इत्येवमिदमुक्तवन्त इत्येवं ह प्रतिजज्ञे प्रतिज्ञातवान्प्रतीकमात्रं किञ्चिन्न सर्वं यथोक्तमग्निभिरुक्तमवोचत् ।
यत आहाऽचार्यो लोकान्वाव पृथिव्यादीन्हे सोम्य किल ते ऽवोचन्न ब्रह्म साकल्येन ।
अहं तु ते तुभ्यं तद्ब्रह्म यदिच्छसि त्वं श्रोतुं वक्ष्यामि, शृणु तस्य मयोच्यमानस्य ब्रह्मणो ज्ञानमाहात्म्यं यथा पुष्करपलाशे पद्मपत्र आपो न शिलष्यन्त एवं यता वक्ष्यामि ब्रह्मैवंविदि पापं कर्म न शिलष्यते न सम्बध्यत इत्येवमुक्तवत्याचार्य आहोपकोसलो ब्रवीतु मे भगवानिति तस्मै होवाचाऽचार्यः ॥2-3 ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य चतुर्दशः खण्डः
=======================================================================
स्तर्त् छुप् 4,15.1
य एषो ऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच ।
एतद् अमृतम् अभयम् एतद् ब्रह्मेति ।
तद् यद्य् अप्य् अस्मिन् सर्पिर् वोदकं वा सिञ्चति वर्त्मनी एव गच्छति

4.15.2

छुप्भ्_4,15.1 य एषो ऽक्षिणि पुरुषो दृश्यते निवृत्तचक्षुर्भिर्ब्रह्मचर्यादिसाधनसम्पन्नैः शान्तैर्विवेकिभिर्दृष्टेर्द्रष्टा"चक्षुषश्चक्षुः"इत्यादिश्रुत्यन्तरात् ।
नन्वग्निभिरुक्तं वितथं यत आचार्यस्तु ते गतिं वक्तेति गतिमात्रस्य वक्तेत्यवोचन्भविष्यद्विषयापरिज्ञानं चाग्नीनम् ।
नैष दोषः ।
सुखाकाशस्यैवाक्षिणि दृश्यत इति द्रष्टुरनुवादात् ।
एष आत्मा प्राणिनामिति होवाचैवमुक्तवानेतद्यदेवाऽत्मतत्त्वमवोचाम ।
एतदमृतममरणधर्म्यविनाश्यत एवाभयं यस्य हि विनाशाशङ्का तस्य भयोपपत्तिस्तदभावादभयमत एवैतद्ब्रह्म बृहदनन्तमिति ।
किञ्चास्य ब्रह्मणो ऽक्षिपुरुषस्य माहात्म्यं तत्तत्र पुरुषस्य स्थाने ऽक्षिणि यद्यप्यस्मिन्यर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति पक्ष्मावेव गच्छति न चक्षुषा सम्बन्ध्यते पद्मपत्रेणेवोदकम् ।
स्थानस्याप्येतन्माहात्म्यं किं पुनः स्थानिनो ऽक्षिपुरुषस्य निरञ्जनत्वं वक्तव्यमित्यभिप्रायः ॥1 ॥
स्तर्त् छुप् 4,15.2
एतं संयद्वाम इत्य् आचक्षते ।
एतं हि सर्वाणि वामान्य् अभिसंयन्ति ।
सर्वाण्य् एनं वामान्य् अभिसंयन्ति य एवं वेद

4.15.3

छुप्भ्_4,15.2 एतं यथोक्तं पुरुषं संयद्वाम इत्याचक्षते ।
कस्मात् ।
यस्मादेतं सर्वाणि वामानि वननीयानि संभजनीयानि शोभनान्यभिसंयन्त्यभिसङ्गच्छन्तीत्यतः संयद्वामः ।
तथैवंविदमेनं सर्वाणि वामान्यभिसंयन्ति य एवं वेद ॥2 ॥
स्तर्त् छुप् 4,15.3
एष उ एव वामनीः ।
एष हि सर्वाणि वामानि नयति ।
सर्वाणि वामानि नयति य एवं वेद

4.15.4

छुप्भ्_4,15.3 एष उ एव वामनीर्यस्मादेष हि सर्वाणि वामानि पुण्यकर्मफलानि पुण्यानुरूपं प्राणिभ्यो नयति प्रापयति वहति चाऽत्मधर्मत्वेन ।
विदुषः फलं-सर्वाणि वामानि नयति य एवं वेद ॥3 ॥
स्तर्त् छुप् 4,15.4
एष उ एव भामनीः ।
एष हि सर्वेषु लोकेषु भाति ।
सर्वेषु लोकेषु भाति य एवं वेद

4.15.5

छुप्भ्_4,15.4 एष उ एव भामनीरेष हि यस्मात्सर्वेषु लोकेष्वादित्यचन्द्राग्न्यादिरूपैर्भाति दीप्यते ।
"तस्य भासा सर्वमिदं विभाति"इति श्रुतेरतो भामानि नयतीति भामनीः ।
य एवं वेदासावपि सर्वेषु लोकेषु भाति ॥4 ॥
स्तर्त् छुप् 4,15.5
अथ यद् उ चैवास्मिञ् छव्यं कुर्वन्ति यदि च नार्चिषम् एवाभिसंभवन्ति ।
अर्चिषो ऽहः ।
अह्न आपूर्यमाणपक्षम् ।
आपूर्यमाणपक्षाद् यान् षड् उदङ्ङ् एति मासांस् तान् ।
मासेभ्यः संवत्सरम् ।
संवत्सराद् आदित्यम् ।
आदित्याच् चन्द्रमसम् ।
चन्द्रमसो विद्युतम् ।
तत् पुरुषो ऽमानवः ।
स एनान् ब्रह्म गमयति ।
एष देवपथो ब्रह्मपथः ।
एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते नावर्तन्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc