छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.14
छुप्भ्_4,13.1,2 अथ हैनमाहवनीयो ऽनुशशास प्राण आकाशो द्यौर्विद्युदिति ममाप्येताश्चतस्रस्तनवः ।
य एव विद्युति पुरुषो दृश्यते सो ऽहमस्मीत्यादि पूर्ववत्सामान्यात् ।
दिवा(द्य्वा) काशयोस्त्वाश्रयत्वाद्विद्युदाहवनीययोर्भोग्यत्वेनैव सम्बन्धः ।
समानमन्यत् ॥1-2 ॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य त्रयोदशः खण्डः
=======================================================================
स्तर्त् छुप् 4,14.1
ते होचुः ।
उपकोसलैषा सोम्य ते ऽस्मद्विद्यात्मविद्या च ।
आचार्यस् तु ते गतिं वक्तेति ।
आजगाम हास्याचार्यः ।
तम् आचार्यो ऽभ्युवादोपकोसल 3 इति
छुप्भ्_4,14.1 ते पुनः सम्भूयोचुर्हेपकोसलैषा सोम्य ते तवास्मद्विद्याग्निविद्येत्यर्थः ।
आत्मविद्या पूर्वोक्ता प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति च ।
आचार्यस्तु ते गतिं वक्ता विद्याफलप्राप्तय इत्युक्त्वोपरेमुरग्नयः ।
आजगाम हास्याऽचार्यः कालेन ।
तं च शिष्यमाचार्यो ऽभ्युवादोपकोसल3 इति ॥1 ॥
स्तर्त् छुप् 4,14.2-3
भगव इति ह प्रतिशुश्राव ।
ब्रह्मविद इव सोम्य मुखं भाति ।
को नु त्वानुशशासेति ।
को नु मानुशिश्याद् भो इतीहापेव निह्नुते ।
इमे नूनम् ईदृशा अन्यादृशा इतीहाग्नीन् अभ्यूदे ।
किं नु सोम्य किल ते ऽवोचन्न् इति
इदम् इति ह प्रतिजज्ञे ।
लोकान् वाव किल सोम्य ते ऽवोचन् ।
अहं तु ते तद् वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवम् एवंविदि पापं कर्म न श्लिष्यत इति ।
ब्रवीतु मे भगवान् इति ।
तस्मै होवाच
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0