छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.11
छुप्भ्_4,10.5 स होवाच ब्रह्मचारी विजानाम्यहं यद्भवद्भिरुक्तं प्रसिद्धपदार्थकत्वात्प्राणो ब्रह्मेति ।
यस्मिन्सति जीवनं यदपगमे च न भवतीति तस्मिन्वायुविशेषे लोके रूढो ऽतो युक्तं ब्रह्मत्वं तस्य ।
तेन प्रसिद्धपदार्थकत्वाद्विजानाम्यहं यत्प्राणो ब्रह्मेति ।
कं च तु खं न विजानामीति ।
ननु कङ्खंशब्दयोरपि सुखाकाशविषयत्वेन प्रसिद्धपदार्थकत्वमेव, कस्माद्ब्रह्मचारिणो ऽज्ञानम्?नृनं सुखस्य कंशब्दवाच्यस्य क्षणप्रध्वंसित्वात्खंशब्दवाच्यस्य चाऽकाशस्याचेतनस्य कथं ब्रह्मत्वमिति मन्यते ।
कथं च भवतां वाक्यमप्रमाणं स्यादिति ।
अतो न विजानामीत्याह ।
तमेवमुक्तन्तं ब्रह्मचारिणं ते हाग्नयः ऊचुः यद्वाव यदेव वयं कमवोचाम तदेव खमाकाशमित्येवं खेन विशेष्यमाणं कं विषयेन्द्रिसंयोगजात्सुखान्निवर्तितं स्यान्नीलेनेव विशेष्यमाणमुत्पलं रक्तादिभ्यः ।
यदेव खमित्याकाशमवोचाम तदेव च कं सुखमिति जानीहि ।
एवं च सुखेन विशेष्यमाणं खं भौतिकादचेतनात्खान्निवर्तितं स्यान्नीलोत्पलवदेव ।
सुखमाकाशस्थं नेतरल्लौकिकम् ।
आकाशं च सुखाश्रयं नेतरद्भौतिकमित्यर्थः ।
नन्वाकाशं चेत्सुखेन विशेषयितुमिष्टमस्त्वन्यतरदेव विशेषणं यद्वाव कं तदेव खमित्यतिरिक्तमितरत् ।
यदेव खं तदेव कमिति पूर्वविशेषेणं वा ।
ननु सुखाकाशयोरुभयोरपि लौकिकसुखाकाशाभ्यां व्यावृत्तिरिष्टेत्यवोचाम ।
सुखेनाऽकाशे विशेषिते व्यावृत्तिरुभयोरर्थप्राप्तैवेति चेत्सत्यमेवं किन्तु सुखेन विशेषितस्यैवाऽकाशस्य ध्येयत्वं विहितं न त्वाकाशगुणस्य विशेषणस्य सुखस्य ध्येयत्वं विहितं स्यात् ।
विशेषणोपादानस्य विशेष्यनियन्तृत्वेनैवोपक्षयात् ।
अतः खेन सुखमपि विशेष्यते ध्येयत्वाय ।
कुतश्चैतन्निश्चीयते ।
कंशब्दस्यापि ब्रह्मशब्दसम्बन्धात्कं ब्रह्मेति ।
यदि हि सुखगुणविशिष्टस्य खस्य ध्येयत्वं विवक्षितं स्यात्कं खं ब्रह्मेति ब्रूयुरग्नयः प्रथमम् ।
न चैवमुक्तवन्तः ।
किं तर्हि कं ब्रह्म खं ब्रह्मेति ।
अतो ब्रह्मचारिणो मोहापनयनाय कङ्खंशब्दयोरितरेतरविशेषणविशेष्यत्व निर्देशो युक्त एव यद्वाव कमित्यादिः ।
तदेतदग्निभिरुक्तं वाक्यार्थमस्मद्बोधाय श्रुतिराह-प्राणं च हास्मै ब्रह्मचारिणे ।
तस्याऽकाशस्तदाकाशः ।
प्राणस्य सम्बन्ध्याश्रयत्वेन हार्द आकाश इत्यर्थः ।
सुखगुणवत्त्वनिर्देशात्तं चाऽकाशं सुखगुणविशिष्टं ब्रह्म तत्स्थं च प्राणं ब्रह्मसम्पर्कादेव ब्रह्मेत्युभयं प्राणं चाऽकाशं च समुच्चित्य ब्रह्मणी ऊचुरग्नय इति ॥5॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य दशमः खण्डः
=======================================================================
स्तर्त् छुप् 4,11.1
अथ हैनं गार्हपत्यो ऽनुशशास पृथिव्य् अग्निर् अन्नम् आदित्य इति ।
य एष आदित्ये पुरुषो दृश्यते सो ऽहम् अस्मि स एव अहम् अस्मि इति
छुप्भ्_4,11.1 सम्भूयाग्नयो ब्रह्मचारिणे ब्रह्मोक्तवन्तः ।
अथानन्तरं प्रत्येकं स्वस्वविषयां विद्यां वक्तुमारेभिरे ।
तत्राऽदावेनं ब्रह्मचारिणं गार्हपत्यो ऽग्निरनुशशास ।
पृथिव्यग्निरन्नमादित्य इति ममैताश्चस्रस्तनवः ।
तत्र य आदित्य एष पुरुषो दृश्यते सो ऽहमस्मि गार्हपत्यो ऽग्निर्यश्च गार्हपत्यो ऽग्निः स एवाहमादित्यो पुरुषो ऽस्मीति ।
पुनः परावृत्त्या स एवाहमस्मीति वचनम् ।
पृथिव्यन्नयोरिव भोज्यत्वलक्षणयोः सम्बन्धो न गार्हपत्यादित्ययोः ।
अत्तृत्वपक्तृत्वप्रकाशनधर्मा अविशिष्टा इत्यत एकत्वमेवानयोरत्यन्तम् ।
पृथिव्यन्नयोस्तु भोज्यत्वेनाऽभ्यां सम्बन्धः ॥1 ॥
स्तर्त् छुप् 4,11.2
स य एतम् एवं विद्वान् उपास्ते ।
अपहते पापकृत्याम् ।
लोकी भवति ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
न अस्य अवरपुरुषाः क्षीयन्ते ।
उप वयं तं भुञ्जामो ऽस्मिंश् च लोके ऽमुष्मिंश् च ।
य एतम् एवं विद्वान् उपास्ते
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0