भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.10

4.10.1

छुप्भ्_4,9.3 किञ्च श्रुतं हि यस्मान्मम विद्यत एवास्मिन्नर्थे भगवत्समेभ्य ॠषिभ्यः ।
आचार्याद्धैव विद्या विदिता साधिष्ठं साधुतमत्वं प्रापदिति प्राप्नोतीत्यतो भगवानेब ब्रूयादित्युक्त आचार्यो ऽब्रवीत्तस्मै तामेव दैवतैरुक्तां विद्याम् ।
अत्र ह न किञ्चन षोडशकलविद्यायाः किञ्चिदेकदेशमात्रमपि न वीयाय न विगतमित्यर्थः ।
द्विरभ्यासो विद्यापरिसमाप्त्यर्थः ॥3॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्य नवमः खण्डः
=======================================================================
स्तर्त् छुप् 4,10.1
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यम् उवास ।
तस्य ह द्वादश वार्षान्य् अग्नीन् परिचचार ।
स ह स्मान्यान् अन्तेवासिनः समावर्तयंस् तं ह स्मैव न समावर्तयति

4.10.2

छुप्भ्_4,10.1 पुनर्ब्रह्मविद्यां प्रकारान्तरेण वक्ष्यामीत्यारभेत गतिं च तद्विदो ऽग्निविद्यां च ।
आख्यायिका पूर्ववच्छ्रद्धातपसोर्ब्रह्मविद्यासाधनत्वप्रदश्रनार्था-उपकोसलो ह वै नामतः कमलस्यापत्यं कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास तस्य, हः एतिह्यार्थः ।
तस्याऽचार्यस्य द्वादश वर्षाण्यग्नीन्परिचचाराग्नीनां परिचरणं कृतवान् ।
स ह स्माऽचार्यो ऽन्यान्ब्रह्मचारिणः स्वाध्यायं ग्राहयित्वा समावर्तयंस्तमेवोपकोसलमेकं न समावर्तयति स्म ह ॥1 ॥
स्तर्त् छुप् 4,10.2
तं जायोवाच तप्तो ब्रह्मचारी कुशलम् अग्नीन् परिचचारीत् ।
मा त्वा अग्नयः परिप्रवोचन् ।
प्रब्रूह्य् अस्मा इति ।
तस्मै हाप्रोच्यैव प्रवासां चक्रे

4.10.3

छुप्भ्_4,10.2 तमाचार्यजायोवाच तप्तोब्रह्मचारी कुशलं सम्यगग्नीन्परिचचारीत्परिचरितवान् ।
भगवांश्चाग्निषु भक्तं न समावर्तयति ।
अतो ऽस्मद्भक्तं न समावर्तयतीति ज्ञात्वा त्वामग्नयो मा परिप्रवोचन्गर्हां तव मा कुर्युः ।
अतः प्रब्रूह्यस्मै विद्यामिष्टामुपकोसलायेति ।
तस्मा एवं जाययोक्तो ऽपि हाप्रोच्यैवानुक्त्वैव किञ्चित्प्रवासांचक्रे प्रवसितवान् ॥2 ॥
स्तर्त् छुप् 4,10.3
स ह व्याधिना अनशितुं दध्रे ।
तम् आचार्यजाया उवाच ब्रह्मचारिन्न् अशान ।
किं नु न अश्नासि इति ।
स ह उवाच बहव इमे ऽस्मिन् पुरुषे कामा नानात्यायाः ।
व्याधीभीः प्रतिपूर्णो ऽस्मि ।
न अस्।इष्यामि इति

4.10.4

छुप्भ्_4,10.3 स होपकोसलो व्याधिना मानसेन दुःखेनानशितुमनशनं कर्तुं दध्रे धृतवान्मनः ।
तं तूष्णीमग्न्यगारे ऽवस्थितमाचार्यजायोवाच हे ब्रह्मचारिन्नशान भुङ्क्ष्व किं नु कस्मान्नु कारणान्नाश्नासीति ।
स होवाच बहवो ऽनेके ऽस्मिन्पुरुषे ऽकृतार्थे प्राकृते कामा इच्छाः कर्तव्यं प्रति नानात्ययो ऽतिगमनं येषां व्याधीनां कर्तव्यचिन्तानां ते नानात्यया व्याधयः कर्तव्यताप्राप्तिनिमित्तानि चित्तदुःखानीत्यर्थः ।
तैः प्रतिपूर्णो ऽस्मि ।
अतो नाशिष्यामीति ॥3 ॥
स्तर्त् छुप् 4,10.4
अथ हाग्नयः समूदिरे ।
तप्तो ब्रह्मचारी कुशलं नः पर्यचारीत् ।
हन्तास्मै प्रब्रवामेति तस्मै होचुः ।
प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति

4.10.5

छुप्भ्_4,10.4 उक्त्वा तूष्णींभूते ब्रह्मचारिण्यथ हाग्नयः शुश्रूषयाऽवर्जिताः कारुण्याविष्टाः सन्तस्रयो ऽपि समूदिरे संभूयोक्तवन्तः ।
हन्तेदानीमस्मै ब्रह्मचारिणे ऽस्मद्भक्ताय दुःखिताय तपस्विने श्रद्दधानाय सर्वे ऽनुशास्मो ऽनुप्रब्रवाम ब्रह्मविद्यामिति ।
एवं संप्रधार्य तस्मै होचुरुक्तवन्तः प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥4 ॥
स्तर्त् छुप् 4,10.5
स होवाच ।
विजानाम्य् अहं यत् प्राणो ब्रह्म ।
कं च तु खं च न विजानामीति ।
ते होचुः ।
यद् वाव कं तद् एव खम् ।
यद् एव खं तद् एव कम् इति ।
प्राणं च हास्मै तद् आकाशं चोचुः

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc