भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 4.12

4.12.1

छुप्भ्_4,11.2 स यः कश्चिदेवं यथोक्तं गार्हपत्यमग्निमन्नान्नादत्वेन चतुर्धा प्रविभक्तमुपास्ते सो ऽपहते विनाशयति पापकृत्यां पापं कर्म ।
लोकी लोकवांश्चास्मदायेन लोकेनाऽग्नेयेन तद्वान्भवति यथा वयमिह च लोके ।
सर्वं वर्षशतमायुरेति प्राप्नोति ज्योगुज्जवलं जीवति नाप्रख्यात इत्येतत् ।
न चास्यावराश्च ते पुरुषाश्चास्य विदुषः सन्ततिजा इत्यर्थः ।
न क्षीयन्ते सन्तत्युच्छेदो न भवतीत्यर्थः ।
किं च तं वयमुपभुञ्जामः पालयामो ऽस्मिंश्च लोके जीवन्तममुष्मिंश्च परलोके ।
य एतमेवं विद्वानुपास्ते यथेक्तं तस्यैतत्फलमित्यर्थः ॥2॥
इति च्छान्दोग्योपनिषदि चतुर्थाध्यायस्यैकादशः खण्डः
=======================================================================
स्तर्त् छुप् 4,12.1
अथ ह एनम् अन्वाहार्यपचनो ऽनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति ।
य एष चन्द्रमसि पुरुषो दृष्यते सो ऽहम् अस्मि स एव अहम् अस्मि इति

4.12.2

स य एतम् एवं विद्वान् उपास्ते ।
अपहते पापकृत्याम् ।
लोकी भवति ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
न अस्य अवरपुरुषाः क्षीयन्ते ।
उप वयं तं भुञ्जामो ऽस्मिंश् च लोके ऽमुष्मिंश् च ।
य एतम् एवं विद्वान् उपास्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc