भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.19

3.19.1

छुप्भ्_3,18.4,5,6 तथा प्राण एव ब्रह्मणश्चतुर्थः पादः ।
स वायुना गन्धाय भाति च तपति च ।
तता चक्षुरादित्येन रूपग्रहणाय श्रोत्रं दिग्भिः शब्दग्रहणाय ।
विद्याफलं समानं सर्वत्र ब्रह्मसम्पत्तिरदृष्टं फलं य एवं वेद ।
द्विरुक्तिर्दर्शनसमाप्त्यर्था ॥4-6 ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्याष्टादशः खण्डः
=======================================================================
स्तर्त् छुप् 3,19.1
आदित्यो ब्रह्मेत्य् आदेशः ।
तस्योपव्याख्यानम् ।
असद् एवेदम् अग्र आसीत् ।
तत् सद् आसीत् ।
तत् समभवत् ।
तद् आण्डं निरवर्तत ।
तत् संवत्सरस्य मात्राम् अशयत ।
तन् निरभिद्यत ।
ते आण्डकपाले रजतं च सुवर्णं चाभवताम्

3.19.2

छुप्भ्_3,19.1 आदित्यो ब्रह्मणः पाद उक्त इति तस्मिन्सकलब्रह्मदृष्ट्यर्थमिदमारभ्यते-आदित्यो ब्रह्मेत्यादेश उपदेशस्तस्योपव्याख्यानं क्रियते स्तुत्यर्थम् ।
असदव्यकृतनामरूपमिदं जगदशेषमग्रे प्रागवस्थायामुत्पत्तेरासीन्न त्वसदेव ।
कथमसतः सज्जायेतेत्यसत्कार्यत्वस्य प्रतिषेधात् ।
नन्विहासदेवेति विधानाद्विकल्पः स्यात् ।
न, क्रियास्विव वस्तुनि विकल्पानुपपत्तेः ।
कथं तर्हीदमसदेवेति ।
नन्ववोचामाव्याकृतनामरूपत्वादसदिवासदिति ।
नन्वेवशब्दो ऽवधारणार्थः ।
सत्यमेवं, न तु सत्त्वाभावमवधारयति ।
किं तर्हि?व्याकृतनामरूपाभावमवधारयति नामरूपव्याकृतविषये सच्छब्दप्रयोगो दृष्टः ।
तच्च नामरूपव्याकरणमादित्यायत्तं प्रायशो जगतः तदभावे ह्यन्धं तम इदं न प्रज्ञायेत किञ्चनेत्यतस्तत्स्तुतिपरे वाक्ये सदपीदं राज्ञः कुलं सर्वगुणसम्पन्ने पूर्णवर्मणि राजन्यसतीति तद्वत् ।
न च सत्त्वमसत्त्वं वेह जगतः प्रतिपिपादयिषितमादित्यो ब्रह्मेत्यादेशपरत्वात् ।
उपसंहरिष्यत्यन्त आदित्यं ब्रह्मेत्युपास्त इति ।
तत्सदासीत्तदसच्छब्दवाच्यं प्रागुत्पत्तेः स्तिमितमनिस्पन्दमसदिव सत्कार्याभिमुखमीषदुपजातप्रवृत्ति सदासीत्ततो लब्धपरिस्पन्दं तत्समभवदल्पतरनामरूपव्याकरणेनाङ्कुरीभूतमि व बीजम् ।
ततो ऽपि क्रमेण स्थूलीभवत्तदद्भ्य आण्डं समवर्तत संवृत्तम् ।
आण्डमिति दैर्ध्यं छान्दसम् ।
तदण्डं संवत्सरस्य कालस्य प्रसिद्धस्य मात्रां परिमाणमभिन्नस्वरूपमेवाशयत स्थितं बभूव ।
तत्ततः संवत्सरपरिमाणात्कालादूर्ध्वं निरभिद्यत निर्भिन्नं वयसामिवाण्डम् ।
तस्य निर्भिन्नस्याण्डस्य कपाले द्वे रजतं च सुवर्णं चाभवतां संवृत्ते ॥1 ॥
स्तर्त् छुप् 3,19.2
तद् यद् रजतं सेयं पृथिवी ।
यत् सुवर्णं सा द्यौः ।
यज् जरायु ते पर्वताः ।
यद् उल्बं (स) समेघो नीहारः ।
या धमनयस् ता नद्यः ।
यद् वास्तेयम् उदकं स समुद्रः

3.19.3

छुप्भ्_3,19.2 तत्तयोः कपालयोर्यद्रजतं कपालमासीत्सेयं पृथिवी पृथिव्युपलक्षितमधो ऽण्डकपालमित्यर्थः ।
यत्सुवर्णं कपालं सा द्यौर्द्युलोकोपलक्षितमूर्ध्वं कपालमित्यर्थः ।
यज्जरायु गर्भपरिवेष्टनं स्थूलमण्डस्य द्विशकलीभावकाल आसीत्ते पर्वता बभूवुः ।
यदुल्वं सूक्ष्मं गर्भपरिवेष्टनं तत्सह मेद्यैः समेघो नीहारो ऽवश्यायो बभूवेत्यर्थः ।
या गर्भस्य जातस्य देहे धमनयः शिरास्ता नद्यो बभूवुः ।
यत्तस्य बस्तौ भवं वास्तेयमुदकं स समुद्रः ॥2 ॥
स्तर्त् छुप् 3,19.3
अथ यत् तद् अजायत सो ऽसाव् आदित्यः ।
तं जायमानं घोषा उलूलवो ऽनूदतिष्ठन्त् सर्वाणि च भूतानि सर्वे च कामाः ।
तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवो ऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः

3.19.4

छुप्भ्_3,19.3 अथ यत्तदजायत गर्भरूपं तस्मिन्नण्डे सो ऽसावादित्यस्तमादित्यं जायमानं घोषाः शब्दा उलूलव उरूरवो विस्तीर्णरवा उदतिष्ठन्नुत्थितवन्त ईश्वरस्येवेह प्रथमपुत्रजन्मनि सर्वाणि च स्थावरजङ्गमानि भूतानि सर्वे च तेषां भूतानां कामाः काम्यन्त इति विषयाः स्त्रीवस्रान्नादयः ।
यस्मादादित्यजन्मनिमित्ता भूतकामोत्पत्तिस्तस्मादद्यत्वे ऽपि तस्याऽदित्यस्योदयं प्रति प्रत्यायनं प्रत्यस्तगमनं च प्रत्यथवा पुनः पुनः प्रत्यागमनं प्रत्यायनं तत्प्रति तन्निमित्तीकृत्येत्यर्थः ।
सर्वाणि च भूतानि सर्वे च कामा घोषा उलूलवश्चानूत्तिष्ठन्ति ।
प्रसिद्धं ह्येतदुदयादौ सवितुः ॥3 ॥
स्तर्त् छुप् 3,19.4
स य एतम् एवं विद्वान् आदित्यं ब्रह्मेत्य् उपास्ते ।
अभ्याशो ह यद् एनं साधवो घोषा आ च गच्छेयुर् उप च निम्रेडेरन् निम्रेडेरन्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc