भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.6

3.6.1

छुप्भ्_3,5.4 ते वा एते यथोक्ता रोहितादिरूपविशेषा रसानां रसाः ।
केषां रसानामित्याह-वेदा हि यस्माल्लोकनिष्यन्दत्वात्सारा इति रसास्तेषां रसानां कर्मभावमापन्नानामप्येते रोहितादिविशेषा रसा इत्यन्तसारभूता इत्यर्थः ।
तथामृतानाममृतानि वेदा ह्यमृता नित्यत्वातेषामेतानि रोहितादीनि रूपाण्यमृतानि ।
रसानां रसा इत्यादि कर्मस्तुतिरेषा ।
यस्यैवंविशिष्टान्यमृतानि फलमिति ॥4॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य पञ्चमः खण्डः
=======================================================================
स्तर्त् छुप् 3,6.1
तद् यत् प्रथमम् अमृतं तद् वसव उपजीवन्त्य् अग्निना मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतद् एवामृतं दृष्ट्वा तृप्यन्ति

3.6.2

छुप्भ्_3,6.1 रूपस्येति ।
न ।
यश आदीनां श्रोत्रादिगम्यत्वात् ।
श्रोत्रग्राह्यं यशः ।
तेजोरूपं चाक्षुषम् ।
इन्द्रियं विषयग्रहणकार्यानुमेयं करणसामर्थ्यम् ।
वीर्यं बलं देहगत उत्साहः प्राणवत्ता ।
अन्नाद्यं प्रत्यहमुपजीव्यमानं शरीरस्थितिकरं यद्भवति रसो ह्येवमात्मकः सर्वः ।
यं दृष्ट्वा तृप्यन्ति सर्वे देवाः ।
दृष्ट्वा तृप्यन्तीत्येतत्सर्वं स्वकरणैरनुभूय तृप्यन्तीत्यर्थः ।
आदित्यसंश्रयाः सन्तो वैगन्ध्यादिदेहकरणदोषरहिताश्च ॥1 ॥
स्तर्त् छुप् 3,6.2
त एतद् एव रूपम् अभिसंविशन्ति ।
एतस्माद् रूपाद् उद्यन्ति

3.6.3

छुप्भ्_3,6.2 किं ते निरुद्यमा अमृतमुपजीवन्ति ।
न ।
कथं तर्हि, एतदेव रूपमभिलक्ष्याधुना भोगावसरो नास्माकमिति बुद्ध्वाभिसंविशन्त्युदासते ।
यदा वै तस्यामृतस्य भोगावसरो भवेत्तदैतस्मादमृतादमृतभोगनिमित्तमित्यर्थः ।
एतस्माद्रूपादुद्यन्त्युत्साहवन्तो भवन्तीत्यर्थः ।
न ह्यनुत्साहवतामननपतिष्ठतामलसानां भोगप्राप्तिर्लोके दृष्टा ॥2 ॥
स्तर्त् छुप् 3,6.3
स य एतद् एवम् अमृतं वेद वसूनाम् एवैको भूत्वाग्निनैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति ।
स एतद् एव रूपम् अभिसंविशति ।
एतस्माद् रूपाद् उदेति

3.6.4

छुप्भ्_3,6.3 स यः कश्चिदेतदेवं यथोदितमृङ्मधुकरतापरससंरक्षणमृग्वेदविहितकर्मपुष्पात्तस्य चाऽदित्यसंश्रयणं रोहित रूपत्वं चामृतस्य प्राचीदिग्गतरश्मिनाडीसंस्थतां वसुदेवभोग्यतां तद्विदश्च वसुभिः सहैकतां गत्वाग्निना मुकेनोपजीवनं दर्शनमात्रेण तृप्तिं स्वभोगावसर उद्यमनं तत्कालापाये च संवेशनं वेद सो ऽपि वसुवत्सर्वं तथैवानुभवति ॥3 ॥
स्तर्त् छुप् 3,6.4
स यावद् आदित्यः पुरस्ताद् उदेता पश्चाद् अस्तम् एता वसूनाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc