छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.7
छुप्भ्_3,6.4 कियन्तं कालं विद्वांस्तदमृतमुपजीवतीत्युच्यते - स विद्वान्यावदादित्यः पुरस्तात्प्राच्यां दिश्युदेता पश्चात्प्रतीच्यामस्तमेता तावद्वसूनां भोगकालस्तावन्तमेव कालं वसूनामाधिपत्यं स्वाराज्यं पर्यता परितो गन्ता भवतीत्यर्थः ।
न यथा चन्द्रमण्डलस्थः केवलकर्मी परतन्त्रो देवानामन्नभूतः ।
किं तर्ह्ययमाधिपत्यं स्वराड्भावं चाधिगच्छति ॥4॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य षष्ठः खण्डः
=======================================================================
स्तर्त् छुप् 3,7.1-3
अथ यद् द्वितीयम् अमृतं तद् रुद्रा उपजीवन्तीन्द्रेण मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतद् एवामृतं दृष्ट्वा तृप्यन्ति
त एतद् एव रूपम् अभिसंविशन्ति ।
एतस्माद् रूपाद् उद्यन्ति
स य एतद् एवम् अमृतं वेद रुद्राणाम् एवैको भूत्वेन्द्रेणैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति ।
स एतद् एव रूपम् अभिसंविशति ।
एतस्माद् रूपाद् उदेति
छुप्भ्_3,7.1-3 अथा यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीत्यादि समानम् ॥1-2-3 ॥
स्तर्त् छुप् 3,7.4
स यावद् आदित्यः पुरस्ताद् उदेता पश्चाद् अस्तम् एता द्विस् तावद् दक्षिणत उदेतोत्तरतो ऽस्तम् एता रुद्राणाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0