छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.5
छुप्भ्_3,4.1-3 अथ ये ऽस्योदञ्चो रश्मय इत्यादि समानम् ।
अथर्वाङ्गिरसो ऽथर्वणाङ्गिरसा च दृष्टा मन्त्रा अथर्वाङ्गिरसः कर्मणि प्रयुक्ता मधुकृतः ।
इतिहासपुराणं पुष्पम् ।
तयोश्चेतिहासपुराणयोरश्वमेधे पारिप्लवासु रात्रिषु कर्माङ्गत्वेन विनियोगः सिद्धः ।
मध्वेतदादित्यस्य परः कृष्णं रूपमतिशयेन कृष्णमित्यर्थः ॥1-3 ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य चतुर्थः खण्डः
=======================================================================
स्तर्त् छुप् 3,5.1-3
अथ ये ऽस्योर्ध्वा रश्मयस् ता एवास्योर्ध्वा मधुनाड्यः ।
गुह्या एवादेशा मधुकृतः ।
ब्रह्मैव पुष्पं ।
ता अमृता आपः
ते वा एते गुह्या आदेशा एतद् ब्रह्माभ्यतपन् ।
तस्याभितप्तस्य यशस् तेज इन्द्रियं वीर्यम् अन्नाद्यं रसो ऽजायत
तद् व्यक्षरत् ।
तद् आदित्यम् अभितो ऽश्रयत् ।
तद् वा एतद् यद् एतद् आदित्यस्य मध्ये क्षोभत इव
छुप्भ्_3,5.1,2,3 अथ ये ऽस्योर्ध्वा रश्मय इत्यादि पूर्ववत् ।
गुह्या गोप्या रहस्या एवाऽदेशा लोकद्वारीयादिविधय उपासनानि च कर्माङ्गविषयाणि मधुकृतो ब्रह्मैव शब्दाधिकारात्प्राणवाख्यं पुष्पम् ।
समानमन्यत् ।
मध्वेतदादित्यस्य मध्ये क्षोभत इव समाहितदृष्टेर्दृश्यते सञ्चलतीव ॥1-3 ॥
स्तर्त् छुप् 3,5.4
ते वा एते रसानां रसाः ।
वेदा हि रसाः ।
तेषाम् एते रसाः ।
तानि वा एतान्य् अमृतानाम् अमृतानि ।
वेदा ह्य् अमृताः ।
तेषाम् एतान्य् अमृतानि
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0