भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.18

3.18.1

छुप्भ्_3,17.7 आदिदित्यत्राऽकारस्यानुबन्धस्तकारो ऽनर्थक इच्छब्दश्च ।
प्रत्नस्य चिरन्तनस्य पुराणस्येत्यर्थः ।
रेतसः कारणस्य बीजभूतस्य जगतः सदाख्यस्य ज्योतिः प्रकाशं पश्यन्ति ।
आशब्द उत्सृष्टानुबन्धः पश्यन्तीत्यनेन सम्बध्यते ।
किं तज्जयोतिः पश्यन्ति ।
वासरमहरहरिव तत्सर्वतो व्याप्तं ब्रह्मणो ज्योतिः ।
निवृत्तचक्षुषो ब्रह्मविदो ब्रह्मचर्यादिनिवृत्तिसाधनैः शुद्धान्तःकरणा आ समन्ततो ज्योतिः पश्यन्तीत्यर्थः ।
परः परमिति लिङ्गव्यत्ययेन, ज्योतिष्परत्वात् ।
यदिध्यते दीप्यते दिवि द्योतनवति पस्मिन्ब्रह्मणि वर्तमानम् ।
येन ज्योतिषेद्धः सविता तपति चन्द्रमा भाति विद्युद्विद्योतते ग्रहतारागणा विभासन्ते ।
किञ्चान्यो मन्त्रदृगाह यथोक्तं ज्योतिः पश्यन् ।
उद्वयं तमसो ऽज्ञानलक्षणात्परि परस्तादिति शेषः ।
तमसो वापनेतृ यज्जयोतिरुत्तरमादित्यस्थं परिपश्यन्तो वयमुदगन्मेति व्यवहितेन सम्बन्धः ।
तज्ज्योतिः स्वः स्वमात्मीयमस्मद्धृदि स्थितम् ।
आदित्यस्थं च तदेकं ज्योतिः ।
यदुत्तरमुत्कृष्टतरमूर्ध्वतरं वापरं ज्योतिरपेक्ष्य पश्यन्त उदगन्म वयम् ।
कमुदगन्मेत्याह ।
देवं द्योतनवन्तं देवत्रा देवेषु सर्वेषु सूर्यं रसानां रश्मीनां प्राणानां च जगत ईरणात्सूर्यस्तमुदगन्म गतवन्तो ज्योतिरुत्तमं सर्वज्योतिर्भ्य उत्कृष्टतममहो प्राप्ता वयमित्यर्थः ।
इदं तज्ज्योतिर्यदृग्भ्यां स्तुतं यद्यजुस्त्रयेण प्रकाशितम् ।
द्विरभ्यासो यज्ञकल्पनापरिसमाप्त्यर्थः ॥7॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य सप्तदशः खण्डः
=======================================================================
स्तर्त् छुप् 3,18.1
मनो ब्रह्मेत्य् उपासीत ।
इत्य् अध्यात्मम् ।
अथाधिदैवतम् ।
आकाशो ब्रह्म ।
इत्य् उभयम् आदिष्टं भवत्य् अध्यात्मं चाधिदैवतं च

3.18.2

छुप्भ्_3,18.1 मनोमय ईश्वर उक्त आकाशात्मेति च ब्रह्मणो गुणैकदेशत्वेन ।
अथेदानीं मन आकाशयोः समस्तब्रह्मदृष्टिविधानार्थ आरम्भो मनो ब्रह्मेत्यादि ।
मनो मनुते ऽनेनेत्यन्तःकरणं तद्ब्रह्म परमित्युपासीतेति एतदात्मविषयं दर्शनमध्यात्मम् ।
अथाधिदैवतं देवताविषयमिदं वक्ष्यामः ।
आकाशो ब्रह्मेत्युपासीत ।
एवमभुयमध्यात्ममधिदैवतं चोभयं ब्रह्मदृष्टिविषयमादिष्टमुपदिष्टं भवति ।
आकाशमनसोः सूक्ष्मत्वात् ।
मनसोपलभ्यत्वाच्च ब्रह्मणो योग्यं मनो ब्रह्मदृष्टेः ।
आकाशश्च सर्वगतत्वात्सूक्ष्मत्वादुपाधिहीनत्वाच्च ॥1 ॥
स्तर्त् छुप् 3,18.2
तद् एतच् चतुष्पाद् ब्रह्म ।
वाक् पादः प्राणः पादश् चक्षुः पादः श्रोत्रं पादः ।
इत्य् अध्यात्मम् ।
अथाधिदैवतम् ।
अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः ।
इत्य् उभयम् एवादिष्टं भवत्य् अध्यात्मं चाधिदैवतं च

3.18.3

छुप्भ्_3,18.2 तदेतन्मन आख्यं चतुष्पाद्ब्रह्म, चत्वारः पादा अस्येति ।
कथं चतुष्पात्त्वं मनसो ब्रह्मण इत्याह-वाक्प्राणश्चक्षुः श्रोत्रमित्येते पादा इत्यध्यात्मम् ।
अथाधिदैवतमाकाशस्य ब्रह्मणो ऽग्निर्वायुरादित्यो दिश इत्येते ।
एवमुभयमेव चतुष्पाद्ब्रह्माऽदिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥2 ॥
स्तर्त् छुप् 3,18.3
वाग् एव ब्रह्मणश् चतुर्थः पादः ।
सो ऽग्निना ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद

3.18.4

छुप्भ्_3,18.3 तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पाद इतरपादत्रयापेक्षया ।
वाचा हि पादेनेव गवादि वक्तव्यविषयं प्रति प्रतिष्ठति ।
अतो मनसः पाद इव वाक् ।
तथा प्राणो घ्राणः पादः ।
तेनापि गन्धविषयं प्रति चङ्क्रमति ।
तथा चक्षुः पादः श्रोत्रं पाद इत्येवमध्यात्मं चतुष्पात्तवं मनसो ब्रह्मणः ।
अथाधिदैवतमग्निवाय्वादित्यदिश आकाशस्य ब्रह्मण उदार इव गोः पादा विलग्ना उपलभ्यन्ते ।
तेन तस्याऽकाशस्याग्न्यादयः पादा उच्यन्ते ।
एवमुभयमध्यात्मं चैवाधिदैवतं चतुष्पादादिष्टं भवति ।
तत्र वागेव मनसो ब्रह्मणश्चतुर्थः पादः ।
सो ऽग्निनाधिदैवतेन ज्योतिषा भाति च दीप्यते तपति च सन्तापं चौष्ण्यं करोति ।
अथवा तैलघृताद्याग्नेयाशनेनेद्धा वाग्भाति च तपति च वदनायोत्साहवती स्यादित्यर्थः ।
विद्वत्फलं भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं यथोक्तं वेदः ॥3 ॥
स्तर्त् छुप् 3,18.4-6
प्राण एव ब्रह्मणश् चतुर्थः पादः ।
स वायुना ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद

3.18.5

चक्षुर् एव ब्रह्मणश् चतुर्थः पादः ।
स आदित्येन ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद

3.18.6

श्रोत्रम् एव ब्रह्मणश् चतुर्थः पादः ।
स दिग्भिर् ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc