भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.17

3.17.1

छुप्भ्_3,16.7 निश्चिता हि विद्या फलायेत्येतद्दर्शयन्नुदाहरति-एतद्यज्ञदर्शनं ह स्म वै किल तद्विद्वानाह महिदासो नामतः ।
इतराया अपत्यमैतरेयः ।
किं कस्मान्मे ममैतदुपतपनमुपतपसि स त्वं हे रोग यो ऽहं यज्ञो ऽनेन त्वत्कृतेनोपतापेन न प्रेष्यामि न मरिष्याम्यतो वृथा तव श्रम इत्यर्थः ।
इत्येवमाह स्मेति पूर्वेण सम्बन्धः ।
स एवंनिश्चयः सन्षोडशं वर्षशतमजीवत् ।
अन्यो ऽप्येवंनिश्चः षोडशं वर्षशतं प्रजीवति य एवं यथोक्तं यज्ञसम्पादनं वेद जानाति स इत्यर्थः ॥7॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य षोडशः खण्डः
=======================================================================
स्तर्त् छुप् 3,17.1
स यद् अशिशिषति यत् पिपासति यन् न रमते ता अस्य दीक्षाः

3.17.2

छुप्भ्_3,17.1 स यदशिशिषतोत्यादियज्ञसामान्यनिर्देशः पुरुषस्य पूर्वेणैव सम्बध्यते ।
यदशिशिषत्यशितुमिच्छति ।
तथा पिपासति पातुमिच्छति ।
यन्न रमत इष्टाद्यप्राप्तिनिमित्तं यदैवञ्जातीयकं दुःखमनुभवति ता अस्य दीक्षाः ।
दुःखसामान्याद्विधियज्ञस्येव ॥1 ॥
स्तर्त् छुप् 3,17.2
अथ यद् अश्नाति यत् पिबति यद् रमते तद् उपसदैर् एति

3.17.3

छुप्भ्_3,17.2 अथ यदश्नाति यत्पिबति यद्रमते रतिं चानुभवतीष्टादिसंयोगात्तदुपसदैः समानतामेति ।
उपसदां च पयोव्रतत्वनिमित्तं सुखमस्ति ।
अल्पभोजनीयानि चाहान्याश्वासन्नानीति प्रश्वासो ऽतो ऽशनादीनामुपसदां च सामान्यम् ॥2 ॥
स्तर्त् छुप् 3,17.3
अथ यद् धसति यज् जक्षति यन् मैथुनं चरति स्तुतशस्त्रैर् एव तद् एति

3.17.4

छुप्भ्_3,17.3 अथ यद्धसति यज्जक्षति भक्षयति यन्मैथुनं चरति स्तुतशस्रैरेव तत्समानतामेति ।
शब्दवत्त्वसामान्यात् ॥3 ॥
स्तर्त् छुप् 3,17.4
अथ यत् तपो दानम् आर्जवम् अहिंसा सत्यवचनम् इति ता अस्य दक्षिणाः

3.17.5

छुप्भ्_3,17.4 अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ।
धर्मपुष्टिकरत्वसामान्यात् ॥4 ॥
स्तर्त् छुप् 3,17.5
तस्माद् आहुः सोष्यत्य् असोष्टेति ।
पुनर् उत्पादनम् एवास्य तत् ।
मरणम् एवावभृथः

3.17.6

छुप्भ्_3,17.5 यस्माच्च यज्ञः पुरषस्तस्मात्तं जनयिष्यति माता यदा तदाऽहुरन्ये सोष्यतीति तस्य मातरं यदा च प्रसूता भवति तदासोष्ट पूर्णिकेति विधियज्ञ इव सोष्यति सोमं देवदत्तो ऽसोष्ट सोमं यज्ञदत्त इति, अतः शब्दसामान्याद्वा पुरुषो यज्ञः ।
पुनरुत्पादनमेवास्य तत्पुरुषाख्यस्य यज्ञस्य यत्सोष्यत्यसोष्टेति शब्दसम्बन्धित्वं विधियज्ञस्येव ।
किञ्च तन्मरणमेवास्य पुरुषयज्ञस्यावभृथः समाप्तिसामान्यात् ॥5 ॥
स्तर्त् छुप् 3,17.6
तद् धैतद् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच ।
अपिपास एव स बभूव ।
सो ऽन्तवेलायाम् एतत् त्रयं प्रतिपद्येताक्षितम् अस्य् अच्युतम् असि प्राणसंशितम् असीति ।
तत्रैते द्वे ऋचौ भवतः

3.17.7

छुप्भ्_3,17.6 तद्धैतद्यज्ञदर्शनं घोरो नामत आङ्गिरसो गोत्रतः कृष्णाय देवकीपुत्राय शिष्यायोकत्वोवाच तदेतत्त्रयमित्यादिव्यवहितेन सम्बन्धः ।
स चैतद्दर्शनं श्रुत्वापिपास एवाम्याभ्यो विद्याभ्यो बभूव ।
इत्थं च विशिष्टेयं विद्या यत्कृष्णस्य देवकीपुत्रस्यान्यां विद्यां प्रति तृड्विच्छेदकरीति पुरुषयज्ञविद्यां स्तौति ।
घोर आङ्गिरसः कृष्णायोक्त्वेमां विद्यां किमुवाचेति तदाह-स एवं यथोक्तयज्ञविदन्तवेलायां मरणकाल एतन्मन्त्रत्रयं प्रतिपद्येत जपेदित्यर्थः ।
किं तदक्षितमक्षीणमक्षतं वासीत्येकं यजुः सामर्थ्यादादित्यस्थं प्राणं चैकीकृत्याऽह ।
तथा तमेवाऽहाच्युतं स्वरूपादप्रच्युतमसीति द्वितीयं यजुः ।
प्राणसंशितं प्राणश्च स संशितं सम्यक्तनूकृतं च सूक्ष्मं तत्त्वमसीति तृतीयं यजुः ।
तत्रैतस्मिन्नर्थे विद्यास्तुतिपरे द्वे ऋचौ मन्त्रौ भवतो न जपार्थे ।
त्रयं प्रतिपद्येतेति त्रित्वसंख्याबाधनात् ।
पञ्चसंख्या हि तदा स्यात् ॥6 ॥
स्तर्त् छुप् 3,17.7
आदित् प्रत्नस्य रेतसः ।
उद् वयं तमसस्परि ।
ज्योतिः पश्यन्त उत्तरम् ।
स्वः पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् इति ज्योतिर् उत्तमम् इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc