भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.16

3.16.1

छुप्भ्_3,15.7 अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदादीन्प्रपद्य इत्येव तदवोचमिति ।
उपरिष्टान्मन्त्राञ्जपेत्ततः पूर्वोक्तमजरं कोशं सदिग्वत्सं यथावद्ध्यात्वा द्विर्वचनमादरार्थम् ॥7॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य पञ्चदशः खण्डः
=======================================================================
स्तर्त् छुप् 3,16.1
पुरुषो वाव यज्ञः ।
तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातःसवनम् ।
चतुर्विंशत्यक्षरा गायत्री ।
गायत्रं प्रातःसवनम् ।
तद् अस्य वसवो ऽन्वायत्ताः ।
प्राणा वाव वसवः ।
एते हीदं सर्वं वासयन्ति

3.16.2

छुप्भ्_3,16.1 पुत्रायुष उपासनमुक्तं जपश्च ।
अथेदानीमात्मनो दीर्घजीवनायेदमुपासनं जपं च विदधदाह ।
जीवन्हि स्वयं पुत्रादिफलेन युज्यते नान्यथा इत्यत आत्मानं यज्ञं सम्पादयति-पुरषः पुरुषो जीवनविशिष्टः कार्यकरणसङ्घातो यथाप्रसिद्ध एव ।
वावशब्दो ऽवधारणार्थः ।
पुरष एव यज्ञ इत्यर्थः ।
तथा हि सामान्यैः सम्पादयति यज्ञत्वम् ।
कथम् ।
तस्य पुरुषस्य यानि चतुर्विंशतिवर्षाण्यायुषस्तत्प्रातःसवनं यज्ञस्य ।
केन सामान्येनेत्याह-चतुर्विंशत्यक्षरा गायत्रो छन्दो गायत्रं गायत्रीछन्दस्कं हि विधियज्ञस्य प्रातःसवनम् ।
अतः प्रातःसवनसम्पन्नेन चतुर्विंशतिवर्षायुषा युक्तः पुरुषः ।
अतो विधियज्ञसादृश्याद्यज्ञः ।
तथोत्तरयोरप्यायुषोः सवनद्वयसम्पत्तिस्रिष्टुब्जगत्यक्षरसंख्यासामान्यतो वाच्या ।
किञ्च तदस्य पुरुषयज्ञस्य प्रातःसवनं विधियज्ञस्येव वसवो देवा अन्वायत्ता अनुगताः ।
सवनदेवतात्वेन स्वामिन इत्यर्थः ।
पुरुषयज्ञे ऽपि विधियज्ञ इवाग्न्यादयो वसवो देवाः प्राप्ता इत्यतो विशिनष्टि-प्राणा वाव वसवो वागादयो वायवश्च ।
तेहि यस्मादिदं पुरुषादिप्राणिजातमेते वासयन्ति ।
प्राणेषु हि देहे वत्सतु सर्वमिद वसति नान्यथा ।
इत्यतो वसनाद्वासनाच्च वसवः ॥1 ॥
स्तर्त् छुप् 3,16.2
तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् ।
प्राणा वसव इदं मे प्रातःसवनं माध्यंदिनं सवनम् अनुसंतनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेति ।
उद् धैव तत एत्य् अगदो ह भवति

3.16.3

छुप्भ्_3,16.2 तं चेद्यज्ञसम्पादितमेतस्मिन्प्रातः सवनसम्पन्ने वयसि किञ्चिद्व्याध्यादि मरणशङ्कारणमुपतपेद्दुःखमुत्पादयेत्स तदा यज्ञसम्पादी पुरुष आत्मानं यज्ञं मन्यमानो ब्रूयाज्जपेदित्यर्थः इमं मन्त्रं हे प्राणा वसव अदं मे प्रातः सवनं मम यज्ञस्य वर्तते तन्माध्यन्दिनं सवनमनुसन्तनुतेति माध्यन्दिनेन सवनेनाऽयुषा सहितमेकीभूतं सन्ततं कुरुतेत्यर्थः ।
माहं यज्ञो युष्माकं प्राणानां वसूनां प्रातःसवनेशानां मध्ये विलोप्सीय विलुप्येय विच्छिद्येयेत्यर्थः ।
इतिशब्दो मन्त्रपरिसमाप्त्यर्थः ।
स तेन जपेन ध्यानेन च ततस्तस्मादुपतापादुदेत्युद्गच्छति ।
उद्गम्य विमुक्तः सन्नगदो हानुपतापो भवत्येव ॥2 ॥
स्तर्त् छुप् 3,16.3
अथ यानि चतुश्चत्वारिंशद् वर्षाणि तन् माध्यंदिनं सवनम् ।
चतुश्चत्वारिंशदक्षरा त्रिष्टुप् ।
त्रैष्टुभं माध्यंदिनं सवनम् ।
तद् अस्य रुद्रा अन्वायत्ताः ।
प्राणा वाव रुद्राः ।
एते हीदं सर्वं रोदयन्ति

3.16.4

छुप्भ्_3,16.3 अथ यानि चतुश्चत्वारिंशद्वर्षाणीत्यादि समानम् ।
रुदन्ति रोदयन्तीति प्राणा रुद्राः ।
क्रूरा हि ते मध्यमेवयस्यतो रुद्राः ॥3 ॥
स्तर्त् छुप् 3,16.4-6
तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् ।
प्राणा रुद्रा इदं मे माध्यंदिनं सवनं तृतीयसवनम् अनुसंतनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेति ।
उद् धैव तत एत्य् अगदो ह भवति

3.16.5

अथ यान्य् अष्टाचत्वारिंशद् वर्षाणि तत् तृतीयसवनम् ।
अष्टाचत्वारिंशदक्षरा जगती ।
जागतं तृतीयसवनम् ।
तद् अस्यादित्या अन्वायत्ताः ।
प्राणा वावादित्याः ।
एते हीदं सर्वम् आददते

3.16.6

तं चेद् एतस्मिन् वयसि किंचिद् उपतपेत् स ब्रूयात् ।
प्राणा आदित्या इदं मे तृतीयसवनम् आयुर् अनुसंतनुतेति माहं प्राणानाम् आदित्यानां मध्ये यज्ञो विलोप्सीयेति ।
उद् धैव तत एत्य् अगदो हैव भवति

3.16.7

छुप्भ्_3,16.4-6 तथाऽदित्याः प्राणाः ।
ते हीदं शब्दादिजातमाददते ऽत आदित्यास्तृतीयसवनमायुः षोडशोत्तरवर्षशतं समापयतानुसन्तनुत यज्ञं समापयतेत्यर्थः ।
समानमन्यत् ॥4-6 ॥
स्तर्त् छुप् 3,16.7
एतद् ध स्म वै तद् विद्वान् आह महिदास ऐतरेयः ।
स किं म एतद् उपतपसि यो ऽहम् अनेन न प्रेष्याम् इति ।
स ह षोडशं वर्षशतम् अजीवत् ।
प्र ह षोडशं वर्षशतं जीवति य एवं वेद

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc