भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.15

3.15.1

छुप्भ्_3,14.4 मनोमय इत्यादिना ज्यायानेभ्यो लोकेभ्य इत्यन्तेन यथोक्तगुणलक्षण ईश्वरो ध्येयो न तु तद्गुणविशिष्ट एव यथा राजपुरुषमानय चित्रगुं वेत्युक्ते न विशेषणश्याप्यानयने व्याप्रियते तद्वदिहापीति प्राप्तमतस्तन्निवृत्त्यर्थ सर्वकर्मेत्यादि पुनर्वचनम् ।
तस्मान्मनोमयत्वादिगुणविशिष्ट एवेश्वरो ध्येयः ।
अत एव षष्ठसप्तमयोरिव तत्त्वमस्यात्मैवेदं सर्वमिति नेह स्वाराज्ये ऽभिषिञ्चति ।
एष म आत्मैतद्ब्रह्मैतमितः प्रत्याभिसम्भवितास्मीति लिङ्गान्न त्वात्मशब्देन प्रत्यगात्मैवोच्यते ।
ममेति षष्ठ्याः सम्बन्धार्थप्रत्यायकत्वादेतमभिसम्भवितास्मीति च कर्मकर्तृत्वनिर्देशात् ।
ननु षष्ठे ऽप्यथ सम्पत्स्य इति सत्सम्पत्तेः कालान्तरितत्वं दर्शयति ।
न, आरब्धसंस्कारशेषस्थित्यर्थपरत्वात् न कालान्तरितार्थता ।
अन्यथा तत्त्वमसीत्येतस्यार्थस्य बाधप्रसङ्गात् ।
यद्यप्यात्मशब्दस्य प्रत्यगर्थत्वं सर्वं खल्विदं ब्रह्मेति च प्रकृतमेष म आत्मान्तर्हृदय एतद्ब्रह्मेत्युच्यते तथाप्यन्तर्धानमीषदपरित्यज्यैवैतमात्मानमितो ऽस्माच्छरीरात्प्रेत्याभिसम्भवितास्मीत्युक्तम् ।
यथाक्रतुरूपस्याऽत्मनः प्रतिपत्तास्मीति यस्यैवंविदः स्याद्भवेदद्धा सत्यमेवं स्यामहं प्रेत्य एवं न स्यामिति न च विचिकित्सास्तीत्येतस्मिन्नर्थे क्रतुफलसम्बन्धे स तथैवेश्वरभावं प्रतिपद्यते विद्वानित्येतदाह स्मोक्तवान्किल शाण्डल्यो नामर्षिः ।
द्विरभ्यास आदरार्थः ॥4॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य चतुर्दशः खण्डः
=======================================================================
स्तर्त् छुप् 3,15.1
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति ।
दिशो ह्य् अस्य स्रक्तयो द्यौर् अस्योत्तरं बिलम् ।
स एष कोशो वसुधानस् तस्मिन् विश्वम् इदं श्रितम्

3.15.2

छुप्भ्_3,15.1 अस्य कुले वीरो जायत इत्युक्तम् ।
न वीरजन्ममात्रं पितुस्त्राणाय ।
"तस्मात्पुत्रमनुश्ष्टं लोक्यमाहुः"इति श्रुत्यन्तरात् ।
अतस्तद्दीर्घायुष्ट्वं कथं स्यादित्येवमर्थं कोशविज्ञानारम्भः ।
अभ्यर्हितविज्ञानव्यासङ्गादनन्तरमेव नोक्तं तदिदानीमेवाऽरभ्यते-अन्तरिक्षमुदरमन्तःसुषिरं यस्य सो ऽयमन्तरिक्षोदरः कोशः कोश इवानेकधर्मसादृश्यात्कोशः ।
स च भूमिबुध्नो भूमिर्बुध्नो मूलं यस्य स भूमिबुध्नो न जीर्यति न विनश्यति त्रैलोक्यात्मकत्वात् ।
सहस्रयुगकालावस्थायी हि सः ।
दिशो ह्यस्य सर्वाः स्रक्तयः कोणाः ।
द्यौरस्य कोशस्योत्तरमूर्ध्वं बिलं स एष यथोक्तगुणः कोशो वसुधानो वसु धीयते ऽस्मिन्प्राणिनां कर्मफलाख्यमतो वसुधानः ।
यस्मिन्नन्तर्विश्वं समस्तं प्राणिकर्मफलं सह तत्साधनैरिदं यद्गृह्यते प्रत्यक्षादिप्रमाणैः श्रितमाश्रितं स्थितमित्यर्थः ॥1 ॥
स्तर्त् छुप् 3,15.2
तस्य प्राची दिग् जुहूर् नाम ।
सहमाना नाम दक्षिणा ।
राज्ञी नाम प्रतीची ।
सुभूता नामोदीची ।
तासां वायुर् वत्सः ।
स य एतम् एवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति ।
सो ऽहम् एतम् एवं वायुं दिशां वत्सं वेद ।
मा पुत्ररोदं रुदम्

3.15.3

छुप्भ्_3,15.2 तस्यास्य प्राची दिग्प्राग्गतो भागो जुहूर्नाम जुह्वत्यस्यां दिशि कर्मिणः प्राङ्मुखाः सन्त इति जुहूनमि ।
सहमाना मान सहन्ते ऽस्यां पापकर्मफलानि यमपुर्यां प्राणिन इति सहमाना नाम दक्षिणादिक् ।
तथा राज्ञी नाम प्रतीची पश्चिमा दिग्राज्ञी राज्ञा वरुणेनाधिष्ठिता सन्ध्यारागयोगाद्वा ।
सुभूता नाम भूतिमद्भिरीश्वरकुबेरादिभिरधिष्ठितत्वात्सुभूता नामोदीची ।
तासां दिशां वायुर्वत्सो दिग्जत्वाद्वायोः ।
"पुरोवात"इत्यादिदर्शनात् ।
स यः कश्चित्पुत्रदीर्घजीवितर्थ्येवं यथोक्तगुणं वायुं दिशां वत्सममृतं वेद स न पुत्ररोदं पुत्रनिमित्तं रोदनं न रोदिति पुत्रो न म्रियत इत्यर्थः ।
यत एवं विशिष्टं कोशदिग्वत्सविषयं विज्ञानमतः सो ऽहं पुत्रजीवितार्थ्येवमेतं वायुं दिशां वत्सं वेद जाने ।
अतो मा पुत्ररोदं रुदं मा रुदं पुत्रमरणनिमित्तम् ।
पुत्रोरोदो मम मा भूदित्यर्थः ॥2 ॥
स्तर्त् छुप् 3,15.3
अरिष्टं कोशं प्रपद्ये ऽमुनामुनामुना ।
प्राणं प्रपद्ये ऽमुनामुनामुना ।
भूः प्रपद्ये ऽमुनामुनामुना ।
भुवः प्रपद्ये ऽमुनामुनामुना ।
स्वः प्रपद्ये ऽमुनामुनामुना

3.15.4

छुप्भ्_3,15.3 अरिष्टमविनाशिनं कोशं यथोक्तं प्रपद्ये प्रपन्नो ऽस्मि पुत्रायुषे ।
अमुनामुनामुनेति त्रिर्नाम गृह्णाति पुत्रस्य ।
तथा प्राणं प्रपद्ये ऽमुनामुनामुना, भूः प्रपद्ये ऽमुनामुनामुना भुवः प्रपद्ये ऽमुनामुनामुना स्वः प्रपद्ये ऽमुनामुनामुना, सर्वत्र प्रपद्य इति त्रिनमि गृह्णाति पुनः पुनः ॥3 ॥
स्तर्त् छुप् 3,15.4
स यद् अवोचं प्राणं प्रपद्य इति ।
प्रानो वा इदं सर्वं भूतं यद् इदं किंच ।
तम् एव तत् प्रापत्सि

3.15.6

छुप्भ्_3,15.4 स यदवोचं प्राणं प्रपद्य इति व्याख्यानार्थमुपन्यासः ।
प्राणो वा इदंसर्वं भूतं यदिदं जगत् ।
"यथा वारानाभाव्" इति वक्ष्यति ।
अतस्तमेव सर्वं तत्तेन प्राणप्रपदनेन प्रापत्सि प्रपन्नो ऽभवम् ॥4॥
3.15.5 अथ यदवीचं भूः प्रपद्य इति पृथिवीं प्रपद्ये ऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥5॥
छुप्भ्_3,15.5
तथा भूः प्रपद्य इति त्रींल्लोकान्भूरादीन्प्रपद्य इति तदवोचम् ॥5 ॥
स्तर्त् छुप् 3,15.6
अथ यद् अवोचं भुवः प्रपद्य इत्य् अग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्य् एव तद् अवोचम्

3.15.7

छुप्भ्_3,15.6 अथ यदवोचं भुवः प्रपद्य इत्यग्न्यादीन्प्रपद्य इति तदवोचम् ॥6 ॥
स्तर्त् छुप् 3,15.7
अथ यद् अवोचं स्वः प्रपद्य इत्य् ऋग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्य् एव तद् अवोचम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc