भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.14

3.14.1

छुप्भ्_3,13.7 अथ यदसौ विद्वान्स्वर्गं लोकं वीरपुरुषसेवनात्प्रतिपद्यते ।
यच्चोक्तं"त्रिपादस्यामृतं दिवी"ति तदिदं लिङ्गेन चक्षुःश्रोत्रेन्द्रियगोचरमापादयितव्यम्, यथाग्न्यादि धूमादिलिङ्गेन ।
तथा ह्येवमेवेदमिति यथोक्ते ऽथ दृढ प्रतीतिः स्यात् ।
अनन्यत्वेन च निश्चय इति ।
अत आह-यदतो ऽमुष्माद्दिवो द्युलोकात्परः परमिति लिङ्गव्यत्ययेन ।
ज्योतिर्दीप्यते ।
स्वयंप्रभं सदाप्रकाशत्वाद्दीप्यते इव दीप्यत इत्युच्यते ।
अग्न्यादिवाज्ज्वलनलक्षणाया दीप्तेरसम्भवात् ।
विश्वतः पृष्ठेष्वित्येतस्य व्याख्यान सर्वतः पृष्ठेष्विति ।
संसारादुपरीत्यर्थः ।
संसार एव हि सर्वः ।
असंसारिण एकत्वान्निर्भेदत्वाच्च ।
अनुत्तमेषु तत्पुरुषसमासाशङ्कानिवृत्तय आहोत्तमेषु लोकेष्विति सत्यलोकादिषु हिरण्यगर्भादिकार्यस्थपरस्येश्वरस्याऽसन्नत्वादुच्यत उत्तमेषु लोकेष्विति ।
इदं वावेदमेव तद्यदिदमस्मिन्पुरुषे ऽन्तर्मध्ये ज्योतिश्चक्षुः - श्रोत्रग्राह्येण लिङ्गेनोष्णिम्ना शब्देन चावगम्यते ।
यत्त्वचा स्पर्शरूपेण गृह्यते तच्चक्षुषैव ।
दृढप्रतीतिकरत्वात्त्वचः ।
अविनाभूतत्वाच्च रूपस्पर्शयोः ।
कथं पुनस्तस्य ज्योतिषो लिङ्गं त्वग्दृष्टिगोचरत्वमापद्यत इति, आह-यत्र यस्मिन्काले ।
एतदिति क्रियाविशेषणम् ।
अस्मिञ्शरीरे हस्तेनाऽलभ्य संस्पर्शेनोष्णिमानं रूपसहभाविनमुष्णस्पर्शभावं विजानाति ।
स ह्यूष्णिमा नामरूपव्याकरणाय देहमनुप्रविष्टस्य चैतन्यात्मज्योतिषो लिङ्गमव्यभिचारात् ।
न हि जीवन्तमात्मानमूष्णिमा व्यभिचरति"उष्ण एव जीविष्यञ्शीतो मरिष्यन्न्" इति हि विज्ञायते ।
मरणकाले च तेजः परस्यां देवतायामिति परेणाविभागत्वोपगमात् ।
अतो ऽसाधारमं लिङ्गमौष्ण्यमग्नेरिव धूमः ।
अतस्तस्य परस्यैषा दृष्टिः साक्षादिव दर्शनं दर्शनोपाय इत्यर्थः ।
तथा तस्य ज्योतिष एषा श्रुतिः श्रवणंश्रवणोपायो ऽप्युच्यमानः ।
यत्र यदा पुरुषो ज्योतिषो लिङ्गं शुश्रूषति श्रोतमिच्छति तदैतत्कर्णावपिगृह्यैतच्छब्दः क्रियाविशेषणम् ।
अपिगृह्यापिधायेत्यर्थो ऽङ्गुलिभ्यां प्रोर्णुत्य निनदमिव रथस्येव घोषो निनदस्तमिव शृणोति नदथुरिव ऋषभकूजितमिव शब्दो यथा चाग्नेर्बहिर्ज्वलत एवं शब्दमन्तः शरीर उपशृणोति तदेतज्ज्योतिर्दृष्टश्रुतलिङ्गत्वाद्दृष्टं च श्रुतं चेत्युपासीत ।
तथोपासनाच्चक्षुष्यो दर्शनीयः श्रुतो विश्रुतश्च ।
यत्स्पर्शगुणोपासननिमित्तं फलं तद्रूपे सम्पादयति चक्षुष्य इति ।
रूपस्पर्शयोः सहभावित्वात् ।
इष्टत्वाच्च दर्शनीयतायाः ।
एवं च विद्यायाः फलमुपपन्नं स्यान्न तु मृदुत्वादिस्पर्शवत्त्वे ।
य एवं यथोक्तौ गुणौ वेद ।
स्वर्गलोकप्रतिपत्तिस्तूक्तमदृष्टं फलम् ।
द्विरभ्यास आदरार्थः ॥7॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य त्रयोदशः खण्डः
=======================================================================
स्तर्त् छुप् 3,14.1
सर्वं खल्व् इदं ब्रह्म तज्जलान् इति शान्त उपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुर् अस्मिंल् लोके पुरुषो भवति तथेतः प्रेत्य भवति ।
स क्रतुं कुर्वीत

3.14.2

छुप्भ्_3,14.1 पुनस्तस्यैव त्रिपादमृतस्य ब्रह्मणो ऽनन्तगुणवतो ऽनन्तशक्तेरनेकभेदोपास्यस्य विशिष्टगुणशक्तिमत्वेनोपासनं विधित्सन्नाह-सर्वं समस्तं;खल्विति वाक्यालङ्कारार्थो निपातः ।
इदं जगन्नामरूपविकृतं प्रत्यक्षादिविषयं ब्रह्मकारणं वृद्धतमत्वाद्ब्रह्म ।
कथं सर्वस्य ब्रह्मत्वमित्यत आह-तज्जलानिति ।
तस्माद्ब्रह्मणो जातं तेजोबन्नादिक्रमेण सर्वम् ।
अतस्तज्जम् ।
तथा तेनैव जननक्रमेण प्रतिलोमतया तस्मिन्नेव ब्रह्मणि लीयते तदात्मतया श्लिष्यत इति तल्लम् ।
तथा तस्मिन्नेव स्थितिकाले ऽनिति प्राणिति चेष्टत इति ।
एवं ब्रह्मात्मतया त्रिषु कालेष्वविशिष्टं तद्व्यतिरेकेणाग्रहणात् ।
अतस्तदेवेदं जगत् ।
यथा चेदं तदेवैकमद्वितीयं तथा षष्ठे विस्तरेण वक्ष्यामः ।
यस्माच्च सर्वमिदं ब्रह्म, अतः शान्तो रागद्वेषादिदोषरहितः संयतः सन्यत्तत्सर्वं ब्रह्म तद्वक्ष्यमाणैर्गुणैरुपासीत ।
कथमुपासीत ।
क्रतुं कुर्वीत क्रतुर्निश्चयो ऽध्यवसाय एवमेव नान्यथेत्यविचलः प्रत्ययस्तं क्रतुं कुर्वीतोपासीतेत्यनेन व्यवहितेन सम्बन्धः ।
किं पुनः क्रतुकरणेन कर्तव्यं प्रयोजनम् ।
कथं वा क्रतुः कर्तव्यः क्रतुकरणं चाभिप्रेतार्थसिद्धिसाधनं कथमित्यस्यार्थस्य प्रतिपादनार्थमथेत्यादिग्रन्थः ।
अथ खल्विति हेत्वर्थः ।
यस्मात्क्रतुमयः क्रतुप्रायो ऽध्यवसायात्मकः पुरुषो जीवः ।
यथाक्रतुर्यादृशः क्रतुरस्य सो ऽयं यथाक्रतुर्यथाध्यवसायो यादृङ्निश्चयो ऽस्मिंल्लोके जीवन्निह पुरुषो भवति तथेतो ऽस्माद्देहात्प्रेत्य मृत्वा भवति ।
क्रत्वनुरूपफलात्मको भवतीत्यर्थः ।
एवं ह्येतच्छास्रतो दृष्टम् ।
"यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्"इत्यादि ।
यत एवं व्यवस्था शास्रदृष्टातः स एवं जानन्कतुं कुर्वीत यादृशं क्रतुं वक्ष्यामस्तम् ।
यत एवं शास्रप्रामाण्यादुपपद्यते क्रत्वनुरूपं फलमतः स कर्तव्यः क्रतुः ॥1 ॥
स्तर्त् छुप् 3,14.2
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यत्तो ऽवाक्य् अनादरः

3.14.3

छुप्भ्_3,14.2 कथम् ।
मनोमयो मनःप्रायः ।
मनुते ऽनेनेति मनस्तत्स्ववृत्त्या विषयेषु प्रवृत्तं भवति तेन मनसा तन्मयः, तथा प्रवृत्त इव तत्प्रायो निवृत्त इव च ।
अत एव प्राणशरीरः प्राणो लिङ्गात्मा विज्ञानक्रियाशक्तिद्वयसंमीर्छितः ।
"यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः"इति श्रुतेः ।
स शरीरं यस्य स प्राणशरीरः ।
"मनोमयः úआणशरीरनेता"इति च श्रुत्यन्तरात् ।
भारूपः ।
भा दीप्तिश्चैतन्यलक्षणं रूपं यस्य स भारूपः ।
सत्यसङ्कल्पः ।
सत्या अवितथाः सङ्कल्पा यस्य सो ऽयं सत्यसङ्कल्पः ।
न यथा संसारिण इवानैकान्तिकफलः सङ्कल्प ईश्वरस्येत्यर्थः ।
अनृतेन मिथ्याफलत्वहेतुना प्रत्यूढत्वात्सङ्कल्पस्य मिथ्याफलत्वम् ।
वक्ष्यत्यनृतेन हि प्रत्यूढा इति ।
आकाशात्मा ।
आकाश इवाऽत्मा स्वरूपं यस्य स आकाशात्मा ।
सर्वगतत्वं सूक्ष्मत्वं रूपदिहीनत्वं चाऽकाशतुल्यतेश्वरस्य ।
सर्वकर्मा ।
सर्वं विश्वं तेनेश्वरेण क्रियत इति जगत्सर्वं कर्मास्य स सर्वकर्मा ।
"स हि सर्वस्य कर्ता"इति श्रुतेः ।
सर्वकामः ।
सर्वे कामा दोषरहिता अस्येति सर्वकामः ।
"धर्मविरुद्धो भूतेषु कामो ऽस्मि"इति स्मृतेः ।
ननु कामो ऽस्मीति वचनादिह बहुव्रीहिस्तथा कामो ऽस्मीतिस्मृत्यर्थो वाच्यः ।
सर्वगन्धः ।
सर्वे गन्धाः सुखकरा अस्य सो ऽयं सर्वगन्धः ।
"पुण्यो गन्धः पृथिव्याम्"इति स्मृतेः ।
तथा रसा अपि विज्ञेयाः. अपुण्यगन्धरसग्रहणस्य पाप्मसम्बन्धनिमित्तत्वश्रवणात् ।
"तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ।
पाप्मना ह्येषु विद्धः"इति श्रुतेः ।
न च पाप्मसंसर्ग ईश्वरस्य, अविद्यादिदोषस्यानुपपत्तेः ।
सर्वमिदं जगदभ्यात्तो ऽभिव्याप्तः ।
अततेर्व्याप्त्यर्थस्य कर्तरि निष्ठा ।
तथावाक्युच्यते ऽनयेति वाग्वागेव वाकः ।
द्वा वचेर्घञन्तस्य करणे वाक् ।
स यस्य विद्यते स वाकी न वाक्यवाकी ।
वाक्प्रतिषेधश्चात्रोपलक्षणार्थः ।
गन्धरसादिश्रवणादीश्वरस्य प्राप्तानिघ्राणादीनि करणानि गन्धादिग्रहणाय ।
अतो वाक्प्रतिषेधेन प्रतिषिध्यन्ते तानि ।
"अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः"इत्यादिमन्त्रवर्णात् ।
अनादरो ऽसंभ्रमः ।
अप्राप्तप्राप्तौ हि संभ्रमः स्यादनाप्तकामस्य ।
न त्वाप्तकामत्वान्नित्यतृप्तस्येश्वरस्य संभ्रमो ऽस्ति क्वचित् ॥2 ॥
स्तर्त् छुप् 3,14.3
एष म आत्मा अन्तर्हृदये ऽणीयान् व्रीहेर् वा यवाद् वा सर्षपाद् वा श्यामाकाद् वा श्यामाकतण्डुलाद् वा ।
एष म आत्मा अन्तर्हृदये ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षाज् ज्यायान् दिवो ज्यायान् एभ्यो लोकेभ्यः

3.14.4

छुप्भ्_3,14.3 एष यथोक्तगुणो मे ममाऽत्मान्तर्हृदये हृदयपुण्डरीकस्यान्तर्मध्ये ऽणीयानणुतरो व्रीहेर्वा यवाद्वेत्याद्यत्यन्तसूक्ष्मत्वप्रदर्शनार्थम् ।
श्यामाकाद्वा श्यामाकतण्डुलाद्वेति परिच्छिन्नपरिमाणादणीयानित्युक्ते ऽणुपरिमाणत्वं प्राप्तमाशङ्क्यातस्तत्प्रतिषेधायाऽरभते - एष म आत्मान्तर्हृदये ज्यायान्पृथिव्या इत्यादिना ।
ज्यायःपरिमाणाच्च ज्यायस्त्वं दर्शयन्ननन्तपरिमाणत्वं दर्शयति ॥3 ॥
स्तर्त् छुप् 3,14.4
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वम् इदम् अभ्यत्तो ऽवाक्यनादरः ।
एष म आत्मा अन्तर्हृदये ।
एतद् ब्रह्म ।
एतम् इतः प्रेत्याभिसंभविता अस्मीति यस्य स्याद् अद्धा न विचिकित्सा अस्ति ।
इति ह स्माह शाण्डिल्यः शाण्डिल्यः

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc