छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.13
छुप्भ्_3,12.9 अयं वाव स यो ऽयमन्तर्हृदये हृदयपुण्डरीक आकाशः ।
कथमेकस्य सत आकाशस्य त्रिधा भेद इति ।
उच्यते-बाह्येन्द्रियविषये जागरितस्थाने नभसि दुःखबाहुल्यं दृश्यते ।
ततो ऽन्तःशरीरे स्वप्नस्थानभूते मन्दतरं दुःखं भवति स्वप्नान्पश्यतः ।
हृदयस्थे पुनर्नभसि न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति ।
अतः सर्वदुःखनिवृत्तिरूपमाकाशं सुषुप्तस्थानम् ।
अतो युक्तमेकस्यापि त्रिधा भेदान्वाख्यानम् ।
बहिर्धा पुरुषादारभ्याऽकाशस्य हृदये सङ्कोचकरणं चेतःसमाधानस्थानस्तुतये ।
यथा"त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ।
अर्धतस्तु कुरुक्षेत्रमर्धतस्तु पृथूदकम्"इति तद्वत् ।
तदेतद्धार्दाकाशाख्यं ब्रह्म पूर्णं सर्वगतं न हृदयमात्रपरिच्छिन्नमिति मन्तव्यम् ।
यद्यपि हृदयाकाशे चेतः समाधीयते ऽप्रवर्ति न कुतश्चित्क्वचित्प्रवर्तितुं शीलमस्येत्यप्रवर्ति तदनुच्छित्तिधर्मकम् ।
यथान्यानि भूतानि परिच्छिन्नान्युच्छित्तिधर्मकाणि न तथा हार्दं नभः ।
पूर्णामप्रवर्तिनीमनुच्छेदात्मिकां श्रियं विभूतिं गुणफलं लभते दृष्टं य एवं यथोक्तं पूर्णाप्रवर्तिगुणं ब्रह्म वेद जानातीहैव जीवंस्तद्भावं प्रतिपद्यत इत्यर्थः ॥9॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य द्वादशः खण्डः
=======================================================================
स्तर्त् छुप् 3,13.1
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः ।
स यो ऽस्य प्राङ् सुषिः स प्राणः ।
तच् चक्षुः ।
स आदित्यः ।
तद् एतत् तेजो ऽन्नाद्यम् इत्य् उपासीत ।
तेजस्व्य् अन्नादो भवति य एवं वेद
छुप्भ्_3,13.1 तस्य ह वा इत्यादिना गायत्र्याख्यस्य ब्रह्मण उपासनाङ्गत्वेन द्वारपालादिगुणविधानार्थमारभ्यते ।
यथा लोके द्वारपाला राज्ञ उपासनेन वशीकृता राजप्राप्त्यर्था भवन्ति तथेहापीति ।
तस्येति प्रकृतस्य हृदयस्येत्यर्थः ।
एतस्यानन्तरनिर्दिष्टस्य पञ्च पञ्चसंख्याका देवानां सुषयो देवसुषयः स्वर्गलोकप्राप्तिद्वारच्छिद्राणि देवेः प्राणादित्यादिभी रक्ष्यमाणानीत्यतो देवसुषयस्तस्य स्वर्गलोकभवनस्य हृदयस्यास्य यः प्राङ्सुषिः पूर्वाभिमुखस्य प्राग्गतं यच्छिद्रं द्वारं स प्राणस्तत्स्थस्तेन द्वारेण यः सञ्चरति वायुविशेषः स प्रागनितीति प्राणः ।
तेनैव सम्बद्धमव्यतिरिक्तं तच्चक्षुस्तथैव स आदित्यः"आदित्यो ह वै बाह्यः प्राणः"इति श्रुतेश्चक्षूरूपप्रतिष्ठाक्रमेण हृदि स्थितः ।
"स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषि"इत्यादि हि वाजसनेयके ।
प्राणवायुदेवतैव ह्येका चक्षुरादित्यश्च सहाऽश्रयेण ।
वक्ष्यति च-प्राणाय स्वाहेति हतुं हविः सर्वमेतत्तर्पयतीति ।
तदेत्प्राणाख्यं स्वर्गलोकद्वारपालत्वाद्ब्रह्म ।
स्वर्गलोकं प्रतिपित्सुस्तेजश्चैतच्चक्षुरादित्यस्वरूपेण, अन्नाद्यत्वाच्च सवितुस्तेजो ऽन्नाद्यमित्याभ्यां गुणाभ्यामुपासीत ।
ततस्तेजस्व्यन्नादश्चाऽमयावित्वरहितो भवति य एवं वेद तस्यैतद्गुणफलम् ।
उपासनेन वशीकृतो द्वारपः स्वर्गलोकप्राप्ति हेतुर्भवतीति मुख्यं च फलम् ॥1 ॥
स्तर्त् छुप् 3,13.2
अथ यो ऽस्य दक्षिणः सुषिः स व्यानः ।
तच् छ्रोत्रम् ।
स चन्द्रमाः ।
तद् एतच् छ्रीश् च यशश् चेत्य् उपासीत ।
श्रीमान् यशस्वी भवति य एवं वेद
छुप्भ्_3,13.2 अथ यो ऽस्य दक्षिणः सुषिस्तत्स्थो वायुविशेषः स वीर्यवत्कर्म कुर्वन्विगृह्य वा प्राणापानौ, नाना वानितीति व्यानस्तत्सम्बद्धमेव च तच्छ्रोत्रमिन्द्रियं तथा स चन्द्रमाः ।
"श्रोत्रेण सृष्टा दिशश्च चन्द्रमाश्चे"ति श्रुतेः ।
सहाश्रयौ पूर्ववत्तदेतच्छ्रीश्च विभूतिः श्रोत्रचन्द्रमसोर्ज्ञानान्नहेतुत्वमतस्ताभ्यां श्रीत्वम् ।
ज्ञानान्नवतश्च यशः ख्यातिर्भवतीति यशोहेतुत्वाद्यशस्त्वमतस्ताभ्यां गुणाभ्यामुपासीतेत्यादि समानम् ॥2 ॥
स्तर्त् छुप् 3,13.3
अथ यो ऽस्य प्रत्यङ् सुषिः सो ऽपानः ।
सा वाक् ।
सो ऽग्निः ।
तद् एतद् ब्रह्मवर्चसम् अन्नाद्यम् इत्य् उपासीत ।
ब्रह्मवर्चस्य् अन्नादो भवति य एवं वेद
छुप्भ्_3,13.3 अथ यो ऽस्य प्रत्यङ्सुषिः पश्चिमस्तत्स्थो वायुविशेषः स मूत्रपुरीषाद्यपनयन्नधो ऽनितीत्यपानः सा तथा वाक् ।
तत्सम्बन्धात्तथाग्निस्तदेतद्ब्रह्मवर्चसं, वृत्तस्वाध्यायनिमित्तं तेजो ब्रह्मवर्चसम् ।
अग्निसम्बन्धाद्वृत्तस्वाध्यायस्य ।
अन्नघ्रसनहेतुत्वादपानस्यान्नाद्यत्वम् ।
समानमन्यत् ॥3 ॥
स्तर्त् छुप् 3,13.4
अथ यो ऽस्योदङ् सुषिः स समानः ।
तन् मनः ।
स पर्जन्यः ।
तद् एतत् कीर्तिश् च व्युष्टिश् चेत्युपासीत ।
कीर्तिमान् व्युष्टिमान् भवति य एवं वेद
छुप्भ्_3,13.4 अथ यो ऽस्योदङ्सुषिरुदग्गतः सुषिस्तत्स्यो वायुविशेषः सो ऽशितपीते समं नयतीति समानः ।
तत्सम्बद्धं मनो ऽन्तःकरणं स पर्जन्यो वृष्ट्यात्मको देवः पर्जन्यनिमित्ताश्चाऽप इति ।
"मनसा सृष्टा आपश्च वरुणश्च"इति श्रुतेः ।
तदेत्कीर्तिश्च ।
मनसो ज्ञानस्य कीर्तिहेतुत्वात् ।
आत्मपरोक्षं वुश्रुतत्वं कीर्तिः ।
यशः स्वकरणसंवेद्यं विश्रुतत्वम् ।
व्युष्टिः कान्तिर्देहगतं लावण्यम् ।
ततश्च कीर्तिसम्भवात्कीर्तिश्चेति ।
समानमन्यत् ॥4 ॥
स्तर्त् छुप् 3,13.5
अथ यो ऽस्योर्ध्वः सुषिः स उदानः ।
स वायुः ।
स आकाशः ।
तद् एतद् ओजश् च महश् चेत्य् उपासीत ।
ओजस्वी महस्वान् भवति य एवं वेद
छुप्भ्_3,13.5 अथ यो ऽस्योर्ध्वः सुषिः स उदान आ पादलादारभ्योर्ध्वमुत्क्रमणादुत्कर्षार्थं च कर्म कुर्वन्ननितीत्युदानः स वायुस्तदाधारश्चाऽकाशस्तदेतद्वाय्वाकाशयोरोजोहेतुत्वादोजो बलं महत्वाच्च मह इति ।
समानमन्यत् ॥5 ॥
स्तर्त् छुप् 3,13.6
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः ।
स य एतान् एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेदास्य कुले वीरो जायते ।
प्रतिपद्यते स्वर्गं लोकं य एतान् एवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद
छुप्भ्_3,13.6 ते वा एते यथोक्ताः पञ्चसुषिसम्बन्धात्पञ्च ब्रह्मणो हार्दस्य पुरषा राजपुरुषा इव द्वारस्थाः स्वर्गस्य हार्दस्य लोकस्य द्वारपा द्वारपालाः ।
एतैर्हि चक्षुःश्रोत्रवाङ्मनःप्राणैर्बहिर्मुखप्रवृत्तैर्ब्रह्मणो हार्दस्य प्राप्तिद्वाराणि निरुद्धनि ।
प्रत्यक्षं ह्येतदजितकरणतया बाह्यविषयासङ्गानृतप्ररूढत्वान्न हार्दे ब्रह्मणि मनस्तिष्ठति ।
तस्मात्सत्यमुक्तमेते पञ्च ब्रह्मपुरुषाः स्वर्गस्य द्वारपा इति ।
अतः स य एतानेवं यथोक्तगुणविशिष्टान्स्वर्गस्य लोकस्य द्वारपान्वेदोपास्त उपासनया वशीकरोति स राजद्वारपालानिवोपासनेन वशीकृत्य तैरनिवारितः प्रतिपद्यते स्वर्गं लोर्क राजानमिव हार्दं ब्रह्म ।
किञ्चास्य विदुषः कुले वीरः पुत्रो जायते वीरपुरुषसेवनात् ।
तस्य चर्णापाकरणेन ब्रह्मोपासनप्रवृत्तिहेतुत्वम् ।
ततश्च स्वर्गलोकप्रतिपत्तये पारम्पर्येण भवतीति स्वर्गलोकप्रतिपत्तिरेवैकं फलम ॥6 ॥
स्तर्त् छुप् 3,13.7
अथ यद् अतः परो दिवो ज्योतिर् दीप्यते विश्वतःपृष्ठेषु सर्वतःपृष्ठेष्व् अनुत्तमेषूत्तमेषु लोकेष्व् इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे ज्योतिः ।
तस्यैषा दृष्टिर् यत्रैतद् अस्मिञ् छरीरे संस्पर्शेनोष्णिमानं विजानाति ।
तस्यैषा श्रुतिर् यत्रैतत् कर्णाव् अपिगृह्य निनदम् इव नदथुर् इवाग्नेर् इव ज्वलत उपशृनोति ।
तद् एतद् दृष्टं च श्रुतं चेत्य् उपासीत ।
चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0