भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.12

3.12.1

छुप्भ्_3,11.6 नान्यस्मै कस्मैचन प्रब्रूयात्तीर्थद्वयमनुज्ञातमनेकेषां प्राप्तानां तीर्थानामाचार्यादीनाम् ।
कस्मात्पुनस्तीर्थसङ्कोचनं विद्याया निष्क्रयार्थमाचार्याय धनस्य पूर्णां सम्पन्नां भोगोपररणैर्नासावस्य निष्क्रयो यस्मात्ततो ऽपि दानादेतदेव यन्मधुविद्यादानं भूयो बहुतरफलमित्यर्थः ।
द्विरभ्यास आदरार्थः ॥6॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्यैकादशः खण्डः
=======================================================================
स्तर्त् छुप् 3,12.1
गायत्री वा इदं सर्वं भूतं यद् इदम् किञ्च ।
वाग् वै गायत्री ।
वाग् वा इदं सर्वं भूतं गायति च त्रायते च

3.12.2

छुप्भ्_3,12.1 यत एवमतिशयफलैषा ब्रह्मविद्यातः सा प्रकारान्तरेणापि वक्तव्येति गायत्री वा इत्याद्यारभ्यते ।
गायत्रीद्वारेण चोच्यते ।
ब्रह्मणः सर्वविशेषरहितस्य नेति नेतीत्यादिशिषप्रतिषेधगम्यस्य दुर्बोधत्वात् ।
सत्स्वनेकेषु च्छन्दःसु गायत्र्या एव ब्रह्मज्ञानद्वारतयोपादानं प्राधान्यात् ।
सोमाहरणात् इतरच्छन्दोक्षराहरणेनेतरच्छन्दोव्याप्त्या च सर्वसवनव्यापकत्वाच्च यज्ञे प्राधान्यं गायत्र्याः ।
गायत्रीसारत्वाच्च ब्राह्मणस्य मातरमिव हित्वा गुरुतरां गायत्रीं ततो ऽन्यद्गुरुतरं न प्रतिपद्यते यथोक्तं ब्रह्मापीति ।
तस्यामत्यन्तगौरवस्य प्रसिद्धत्वात् ।
अतो गायत्रीमुखेनैव ब्रह्मोच्यते ।
गायत्री वा इत्यवधारणार्थो वैशब्दः ।
इदं सर्वं भूतं प्रामिजातं यत्किञ्च स्थावरं जङ्गमं वा तत्सर्वं गायत्र्येव ।
तस्याश्छन्दोमात्रायाः सर्वभूतत्वमनुपपन्नमिति गायत्रीकारणं वाचं शब्दयत्यसौ गौरसावश्व इति च त्रायते च रक्षत्यमुष्मान्मा भैषीः किं ते भयमुत्थितमित्यादिना सर्वतो भयान्निवर्त्यमानो वाचा त्रातः स्यात् ।
यद्वाग्भूतं गायति च त्रायते च गायत्र्येव तद्गायति च त्रायते च वाचो ऽनन्यत्वाद्गायत्र्याः ।
गानात्त्राणाच्च गायत्र्या गायत्रीत्वम् ॥1 ॥
स्तर्त् छुप् 3,12.2
या वै सा गायत्रीयं वाव सा येयं पृथिवी ।
अस्यां हीदं सर्वं भूतं प्रतिष्ठितम् ।
एताम् एव नातिशीयते

3.12.3

छुप्भ्_3,12.2 या वै सैवंलक्षणा सर्वभूतरूपा गायत्री, इयं वाव सा येयं पृथिवी ।
कथं पुनरियं पृथिवी गायत्रीति, उच्यतेसर्वभूतसम्बन्धात् ।
कथं सर्वभूतसम्बन्धः, अस्यां पृथिव्यां हि यस्मात्सर्वं स्थावरं जङ्गमं च भूतं प्रतिष्ठितमेतामेव पृथिवीं नातिशीयते नातिवर्तत इत्येतत् ।
यथा गानत्राणाभ्यां भूतसम्बन्धो गायत्र्या एवं भूतप्रतिष्ठानादुभूतसम्बद्धा पृथिव्यतो गायत्री पृथिवी ॥2 ॥
स्तर्त् छुप् 3,12.3
या वै सा पृथिवीयं वाव सा यद् इदम् अस्मिन् पुरुषे शरीरम् ।
अस्मिन् हीमे प्राणाः प्रतिष्ठिताः ।
एतद् एव नातिशीयन्ते

3.12.4

छुप्भ्_3,12.3 या वै सा पृथिवी गायत्रीयं वाव सेदमेव ।
तत्किं, यदिदमस्मिन्पुरुषे कार्यकारणसङ्घाते जीवति शरीरं पार्थिवत्वाच्छरीरस्य ।
कथं शरीरस्य गायत्रीत्वमिति ।
उच्यते-अस्मिन्हीमे प्राणा भूतशब्दवाच्याः प्रतिष्ठिताः ।
अतः पृथिवीवद्भूतशब्दवाच्यप्राणप्रतिष्ठानाच्छरीरं गायत्री ।
एतदेव यस्माच्छरीरं नातिशीयन्ते प्राणाः ॥3 ॥
स्तर्त् छुप् 3,12.4
यद् वै तत् पुरुषे शरीरम् इदं वाव तद् यद् इदम् अस्मिन्न् अन्तः पुरुषे हृदयम् ।
अस्मिन् हीमे प्राणाः प्रतिष्ठिताः ।
एतद् एव नातिशीयन्ते

3.12.5

छुप्भ्_3,12.4 यद्व तत्पुरुषे शरीरं गायत्रीदं वाव तत् ।
यदिदमस्मिन्नन्तर्मध्ये पुरुषे हृदयं पुण्डरीकाख्यमेतद्गायत्री ।
कथमित्याह-अस्मिन्हीमे प्राणाः प्रतिष्ठिता अतः शरीरवद्गायत्री हृदयम् ।
एतदेव च नातिशीयन्ते प्राणाः ।
"प्राणो ह पिता ।
प्राणो माता ।
"इति,"अहिंसन्सर्वभूतानि"इति च श्रुतेर्भूतशब्दवाच्याः प्राणाः ॥4 ॥
स्तर्त् छुप् 3,12.5
सैषा चतुष्पदा षड्विधा गायत्री ।
तद् एतद् ऋचाभ्यनूक्तम्

3.12.6

छुप्भ्_3,12.5 सैषा चतुष्पदा षडक्षरपदा छन्दोरूपा सती भवति गायत्री षड्विधा वाग्भूतपृथिवीशरीरहृदयप्राणरूपा सती षड्विधा भवति ।
वाक्प्राणयोरन्यार्थनिर्दिष्टयोरपि गायत्रीप्रकारत्वम् ।
अन्यथा षड्विधसंख्यापूरणानुपपत्तेः ।
तदेतस्मिन्नर्थ एतद्गीयत्र्याख्यं ब्रह्म गायत्र्यनुगतं गायत्रीमुखेनोक्तमृचापि मन्त्रेणाभ्यनूक्तं प्रकाशितम् ॥5 ॥
स्तर्त् छुप् 3,12.6
तावान् अस्य महिमा ततो ज्यायांश् च पुरुषः ।
पादो ऽस्य सर्वा भूतानि त्रिपाद् अस्यामृतं दिवीति

3.12.7

छुप्भ्_3,12.6 तावानस्य गायत्र्याख्यस्य ब्रह्मणः समस्तस्य महिमा विभूतिविस्तारः ।
यावांश्चतुष्पात्षड्विधश्च ब्रह्मणो विकारः पादो गायत्रीति व्याख्यातः ।
अतस्तस्माद्विकारलक्षणाद्गायत्र्याख्याद्वाचारम्भणमात्रात्ततो ज्यायान्महत्तरश्च परमार्थसत्यरूपो ऽविकारः पूरुषः पुरुषः सर्वपूरणात्पुरि शयनाच्च ।
तस्यास्य पादः सर्वा सर्वाणि भूतानि तेजोबन्नादीनि सस्थावरजङ्गमानि ।
त्रिपात्त्रयः पादा अस्य सो ऽयं त्रिपात् ।
त्रिपादमृतं पुरुषाख्यं समस्तस्य गायत्र्यात्मनो दिवि द्योतनवति स्वात्मन्यवस्थितमित्यर्थ इति ॥6 ॥
स्तर्त् छुप् 3,12.7
यद् वै तद् ब्रह्मेतीदं वाव तद् यो ऽयं बहिर्धा पुरुषाद् आकाशः ।
यो वै स बहिर्धा पुरुषाद् आकाशः

3.12.8

छुप्भ्_3,12.7 यद्वै तत् त्रिपादमृतं गायत्रीमुखेनोक्तं ब्रह्मेतीदं वाव तदिदमेव ।
तद्यो ऽयं प्रसिद्धो बहिर्धा बहिः पुरुषादाकाशो भौतिको यो वै स बहिर्धा पुरुषादाकाश उक्तः ॥7 ॥
स्तर्त् छुप् 3,12.8
अयं वाव स यो ऽयम् अन्तः पुरुष आकाशः ।
यो वै सो ऽन्तः पुरुष आकाशः

3.12.9

छुप्भ्_3,12.8 अयं वाव स यो ऽयमन्तः पुरुषे शरीर आकाशो यो वै सो ऽन्तः पुरुष आकाशः ॥8 ॥
स्तर्त् छुप् 3,12.9
अयं वाव स यो ऽयम् अन्तर्हृदय आकाशः ।
तद् एतत् पूर्णम् अप्रवर्ति ।
पूर्णम् अप्रवर्तिनीं श्रियं लभते य एवं वेद

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc