छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.11
इति छान्दोग्योपनिषदि तृतीयाध्यायस्य दशमः खण्डः
छुप्भ्_3.8.1-4, 9.1-4, 10.1-4 तथा पश्चादुत्तरत ऊर्ध्वमुदेता विपर्ययेणास्तमेता ।
पूर्वस्मात्पूर्वस्माद्द्विगुणोत्तरोत्तरेण कालेनेत्यपौराणं दर्शनम् ।
सवितुश्चतुर्दिशमिन्द्रयमवरुणसोमपुरीषूदयास्तमयकालस्य तुल्यत्वं हि पौराणिकैरुक्तम् ।
मानसोत्तरस्य मूर्धनि मेरोः प्रदक्षिणावृत्तेस्तुल्यत्वादिति ।
अत्रोक्तः परिहार आचार्यैः ।
अमरावत्यादीनां पुरीणां द्विगुणोत्तरोत्तरेण कालेनोद्वासः स्यात् ।
उदयश्च नाम सवितुस्तन्निवासिनां प्राणिनां चक्षुगोचरापत्तिस्तदत्ययष्चस्तमनं न परमार्थत उदयास्तमने स्तः ।
तन्निवासिनां च प्राणिनामभावे तान्प्रति तेनैव मार्गेण गच्छन्नपि नैवोदेता नास्तमेतेति चक्षुर्गोचरापत्तेस्तदत्ययस्य चाभावात् ।
तथामरावत्याः सकाशाद्द्विगुणं कालं संयमनी पुरी वसत्यतस्तन्निवासिनः प्राणिनः प्रति दक्षिणत इवोदेत्युत्तरतो ऽस्तमेतीत्युच्यते ऽस्मद्बुद्धिं चापेक्ष्य ।
तथोत्तरास्वपि पुरीषु योजना ।
सर्वेषां च मेरुरुत्तरतो भवति ।
यदामरावत्यां मध्याह्नगतः सविता तदा संयमन्यामुद्यन्दृश्यते तत्र मध्याह्नगतो वारुण्यामुद्यन्दृश्यते, तथोत्तरस्यां, प्रदक्षिणावृत्तेस्तुल्यत्वात् ।
इलावृतवासिनां सर्वतः पर्वतप्राकारनिवारितादित्यरश्मीनां सवितोर्ध्व इवोदेतावगिस्तमेता दृश्यते ।
पर्वतोर्ध्वच्छिद्रप्रवेशात्सवितृप्रकाशस्य ।
तथर्गाद्यमृतोपजीविनाममृतानां च द्विगुणोत्तरोत्तरवीर्यवत्त्वमनुमीयते भोगकालद्वैगुण्यलिङ्गेन ।
उद्यमनसंवेशनादि देवानां रुद्रादीनां विदुषश्च समानम् ॥1-4 ॥
इति छान्दोग्योपनिषदि तृतीयाध्यायस्याष्टमनवमदशमखण्डाः
=======================================================================
स्तर्त् छुप् 3,11.1
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तम् एतैकल एव मध्ये स्थाता ।
तद् एष श्लोकः
छुप्भ्_3,11.1 कृत्वैवमुदयास्तमनेन प्राणिनां स्वकर्मफलभोगनिमित्तमनुग्रहं तत्कर्मफलोपभोगक्षये तानि प्राणिजातान्यात्मनि संहृत्याथ ततस्तस्मादनन्तरं प्राण्यनुग्रहकालादूर्ध्वः सन्नात्मन्युदेत्योद्गम्य यान्प्रत्युदेति तेषां प्राणिनामभावात्स्वात्मस्थो नैवोदेता नास्तमेतैकलो ऽद्वितीयो ऽनवयवो मध्ये स्वात्मन्येव स्थाता ।
तत्र कश्चिद्विद्वान्वस्वादिसमानचरणो रोहिताद्यमृतभोगभागी यथोक्तक्रमेण स्वात्मानं सवितारमात्मत्वेनोपेत्य समाहितः सन्नेतं मन्त्रं दृष्ट्वोत्थितो ऽन्यस्मै पृष्टवते जगाद ।
यतस्त्वमागतो ब्रह्मलोकात्किं तत्राप्यहोरात्राभ्यां परिवर्तमानः सविता प्राणिनामायुः क्षपयति यथेहास्माकमित्येवं पृष्टः प्रत्याह ।
तत्तत्र यथा पृष्टे यथोक्ते चार्थ एष श्लोको भवति तनोक्तो योगिनेति श्रुतेर्वचनमिदम् ॥1 ॥
स्तर्त् छुप् 3,11.2
न वै तत्र न निम्लोच ।
नोदियाय कदाचन ।
देवास् तेनाहं सत्येन ।
मा विराधिषि ब्रह्मणेति
छुप्भ्_3,11.2 न वै तत्र यतो ऽहं ब्रह्मलोकादागतस्तस्मिन्न वै तत्रैतदस्ति यत्पृच्छसि ।
न हि तत्र निम्लोचो ऽस्तमगमत्सविता न चोदियायोद्गतः कुतश्चित्कदाचन कस्मिंश्चिदपि काल इति ।
उदयास्तमयवर्जितो ब्रह्मलोक इत्यनुपपन्नमित्युक्तः शुथमिव प्रतिपेदे ।
हे देवाः साक्षिणो यूयं शृणुत यथा मयोक्तं सत्यं वचस्तेन स्तेयनाहं ब्रह्मणा ब्रह्मस्वरूपेण मा विराधिषि मा विरुध्येयमप्राप्तिर्ब्रह्मणा मम मा भूदित्यर्थः ॥2 ॥
स्तर्त् छुप् 3,11.3
न ह वा अस्मा उदेति न निम्लोचति ।
सकृद् दिवा हैवास्मै भवति ।
य एताम् एवं ब्रह्मोपनिषदं वेद
छुप्भ्_3,11.3 सत्यं तेनोक्तमित्याह श्रुतिः-न ह वा अस्मै यथोक्तब्रह्मविदे नोदेति न निम्लोचति नास्तमेति किं तु ब्रह्मविदे ऽस्मै सकृद्दिवा हैव सदैवाहर्भवति स्वयञ्ज्योतिष्ट्वाद्य एतां यथोक्तां ब्रह्मोपनिषदं वेदगुह्यं वेद ।
एवं तन्त्रेण वंशादित्रयं प्रत्यमृतसम्बन्धं च यच्चान्यदवोचामैवं जानातीत्यर्थः ।
विद्वानुदयास्तमयकालापरिच्छेद्यं नित्यमजं ब्रह्म भवतीत्यर्थः ॥3 ॥
स्तर्त् छुप् 3,11.4
तद् धैतद् ब्रह्मा प्रजापतय उवाच ।
प्रजापतिर् मनवे ।
मनुः प्रजाभ्यः ।
तद् धैतद् उद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच
छुप्भ्_3,11.4 तद्धैतन्मधुज्ञानं ब्रह्मा हिरण्यगर्भो विराजे प्रजापतय उवाच ।
सो ऽपि मनवे ।
मनुरिक्ष्वाक्वाद्याभ्यः प्रजाभ्यः प्रोवाचेति विद्यां स्तौति ब्रह्मादिविशिष्टक्रमागतेति ।
किं च तद्धैतन्मधुज्ञानमुद्दालकायाऽरुणये पिता
स्तर्त् छुप् 3,11.5
इदं वाव तज् ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वान्तेवासिने
छुप्भ्_3,11.5 इदं वाव तद्यथोक्तमन्यो ऽपि ज्येष्ठाय पुत्राय सर्वप्रियार्हाय ब्रह्म प्रब्रूयात् ।
प्रणाय्याय वा योग्यायायन्तेवासिने शिष्याय ॥5 ॥
स्तर्त् छुप् 3,11.6
नान्यस्मै कस्मैचन ।
यद्य् अप्य् अस्मा इमाम् अद्भिः परिगृहीतां धनस्य पूर्णां दद्याद् एतद् एव ततो भूय इति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0