भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 3.10

3.10.1

इति छान्दोग्योपनिषदि तृतीयाध्यायस्य नवमः खण्डः
=======================================================================
स्तर्त् छुप् 3,10.1
अथ यत् पञ्चमम् अमृतं तत् साध्या उपजीवन्ति ब्रह्मणा मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतद् एवामृतं दृष्ट्वा तृप्यन्ति

3.10.2

त एतद् एव रूपम् अभिसंविशन्ति ।
एतस्माद् रूपाद् उद्यन्ति

3.10.3

स य एतद् एवम् अमृतं वेद साध्यानाम् एवैको भूत्वा ब्रह्मणैव मुखेनैतद् एवामृतं दृष्ट्वा तृप्यति ।
स एतद् एव रूपम् अभिसंविशति ।
एतस्माद् रूपाद् उदेति

3.10.4

स यावद् आदित्य उत्तरत उदेता दक्षिणतो ऽस्तम् एता द्विस् तावद् ऊर्ध्वम् उदेतार्वाग् अस्तम् एता साध्यानाम् एव तावद् आधिपत्यं स्वाराज्यं पर्येता

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc