छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.9
छुप्भ्_2,8.3 दुग्धे ऽस्मा इत्याद्युक्तार्थम् ॥3॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्याष्टमः खण्डः
=======================================================================
स्तर्त् छुप् 2,9.1
अथ खल्व् अमुम् आदित्यं सप्तविधं सामोपासीत ।
सर्वदा समस् तेन साम ।
मां प्रति मां प्रतीति सर्वेण समस् तेन साम
छुप्भ्_2,9.1 अवयवमात्रे साम्न्यादित्यदृष्टिः पञ्चविधेषूक्ता प्रथमे चाध्याये ।
अथेदानीं खल्वमुमादित्यं समस्ते साम्न्यवयवविभागशो ऽध्यस्य सप्तविधं सामोपासीत ।
कथं पुनः सामत्वमादित्यस्येति ।
उच्यते ।
उद्गीथत्वे हेतुवदादित्यस्य सामत्वे हेतुः ।
को ऽसौ, सर्वदा समो वृद्धिक्षयाभावात्तेन हेतुना सामाऽदित्यो मां प्रति मां प्रतीति तुल्यां बुद्धिमुत्पादयति ।
अतः सर्वेण समो ऽतः साम समत्वादित्यर्थः ।
उद्गीथभक्तिसामान्यवचनादेव लोकादिषूक्तसामान्याद्धिङ्कारादित्वं गम्यत इति हिङ्कारादित्वे कारणं नोक्तम् ।
सामत्वे पुनः सवितुरनुक्तं कारणं न सुबोधमिति समत्वमुक्तम् ॥1 ॥
स्तर्त् छुप् 2,9.2
तस्मिन्न् इमानि सर्वाणि भूतान्य् अन्वायत्तानीति विद्यात् ।
तस्य यत् पुरोदयात् स हिङ्कारः ।
तद् अस्य पशवो ऽन्वायत्ताः ।
तस्मात् ते हिङ्कुर्वन्ति ।
हिङ्कारभाजिनो ह्य् एतस्य साम्नः
छुप्भ्_2,9.2 तस्मिन्नादित्ये ऽवयवविभागश इमानि वक्ष्यमाणानि सर्वामि भूतान्यन्वायत्तान्यनुगतान्यादित्यमुपजीव्यत्वेनेति विद्यात् ।
कथं, तस्याऽदित्यस्य यत्पुरोदयाद्धर्मरूपं स हिङ्कारो भक्तिस्तत्रेदं सामान्यं यत्तस्य हिङ्कारभक्तिरूपं तदस्याऽदित्यस्य साम्नः पशवो गवादयो ऽन्वायत्ता अनुगतास्तद्भक्तिरूपमुपजीवन्तीत्यर्थः ।
यस्मादेवं तस्मात्ते हिङ्कुर्वन्ति पशवः प्रागुदयात् ।
तस्माद्धिङ्कारभाजिनो ह्येतस्याऽदित्याख्यस्य साम्नः तद्भक्तिभजनशीलत्वाद्धि त एवं वर्तन्ते ॥2 ॥
स्तर्त् छुप् 2,9.3
अथ यत् प्रथमोदिते स प्रस्तावः ।
तद् अस्य मनुष्या अन्वायत्ताः ।
तस्मात् ते प्रस्तुतिकामाः प्रशंसाकामाः ।
प्रस्तावभाजिनो ह्य् एतस्य साम्नः
छुप्भ्_2,9.3 अथ यत्प्रथमोदिते सवितृरूपं तदस्याऽदित्याख्यास्य साम्नः स प्रस्तावस्तदस्य मनुष्या अन्वायत्ताः पूर्ववत् ।
तस्मात्ते प्रस्तुतिं प्रशंसां कामयन्ते ।
यस्मात्प्रस्तावभाजिनो ह्येतस्य साम्नः ॥3 ॥
स्तर्त् छुप् 2,9.4
अथ यत् संगववेलायां स आदिः ।
तद् अस्य वयांस्य् अन्वायत्तानि ।
तस्मात् तान्य् अन्तरिक्षे ऽनारम्भणान्य् आदायात्मानं परिपतन्ति ।
आदिभाजीनि ह्य् एतस्य साम्नः
छुप्भ्_2,9.4 अथ यत्सङ्गववेलायां गवां रश्मीनां सङ्गमनं सङ्गमो यस्यां वेलायां, गवां वा वत्सैः सा सङ्गववेला तस्मिन्काले यत्सावित्रं रूपं स आदिर्भक्तिविशेष ओङ्कारस्तदस्य वयांसि पक्षिणो ऽन्वायत्तानि ।
यत एवं तस्मात्तानि वयांस्तन्तरिक्षे ऽनारम्बणान्यनालम्बनान्यात्मानमादायाऽत्मानमेवाऽलम्बनत्वेन गृहीत्वा परिपतन्ति गच्छन्त्यत आकारसामान्यादादिभक्तिभाजीनि ह्येतस्य साम्नः ॥4 ॥
स्तर्त् छुप् 2,9.5
अथ यत् संप्रति मध्यंदिने स उद्गीथः ।
तद् अस्य देवा अन्वायत्ताः ।
तस्मात् ते सत्तमाः प्राजापत्यानाम् ।
उद्गीथभाजिनो ह्य् एतस्य साम्नः
छुप्भ्_2,9.5 अथ यत्सम्प्रति मध्यन्दिन ऋजुमध्यन्दिन इत्यर्थः ।
स उद्गीथभक्तिस्तदस्य देवा अन्वायत्ताः ।
द्योतनातिशयात्तत्काले ।
तस्मात्ते सत्तमा विशिष्टतमाः ।
प्राजापत्यानां प्रजापत्यपत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥5 ॥
स्तर्त् छुप् 2,9.6
अथ यद् ऊर्ध्वं मध्यंदिनात् प्राग् अपराह्णात् स प्रतिहारः ।
तद् अस्य गर्भा अन्वायत्ताः ।
तस्मात् ते प्रतिहृता नावपद्यन्ते ।
प्रतिहारभाजिनो ह्य् एतस्य साम्नः
छुप्भ्_2,9.6 अथ यदूर्ध्वं मध्यन्दिनात्प्रागपराह्नाद्यद्रूपं सवितुः स प्रतिहारस्तदस्य गर्भा अन्वायत्ताः ।
अतस्ते सवितुः प्रतिहारभक्तिरूपेणोर्ध्वं प्रतिहृताः सन्तो नावपद्यन्ते नाधः पतन्ति तद्द्वारे सत्यपीत्यर्थः ।
यतः प्रतिहारभाजिनो ह्येतस्य साम्नो गर्भाः ॥6 ॥
स्तर्त् छुप् 2,9.7
अथ यद् ऊर्ध्वम् अपराह्णात् प्राग् अस्तम् अयात् स उपद्रवः ।
तद् अस्यारण्या अन्वायत्ताः ।
तस्मात् ते पुरुषं दृष्ट्वा कक्षं श्वभ्रम् इत्य् उपद्रवन्ति ।
उपद्रवभाजिनो ह्य् एतस्य साम्नः
छुप्भ्_2,9.7 अथ यदूर्ध्वमपराह्नात्प्रागस्तमयात्स उपद्रवस्तदस्याऽरण्याः पश्वो ऽन्वायत्ताः ।
तस्मात्ते पुरुषं दृष्ट्वा भीताः कक्षमरण्यं श्वभ्रं भयशून्यमित्युपद्रवन्त्युपगच्छन्ति दृष्ट्वोपद्रवणादुपद्रवभाजिनो ह्येतस्य साम्नः ॥7 ॥
स्तर्त् छुप् 2,9.8
अथ यत् प्रथमास्तमिते तन् निधनम् ।
तद् अस्य पितरो ऽन्वायत्ताः ।
तस्मात् तान् निदधति ।
निधनभाजिनो ह्य् एतस्य साम्नः ।
एवं खल्व् अमुम् आदित्यं सप्तविधं सामोपास्ते
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0