भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.8

2.8.1

छुप्भ्_2,7.2 एतद्दृष्ट्या विशिष्टं यः परोवरीयः सामोपास्ते परोवरीयो हास्य जीवनं भवतीत्युक्तार्थम् ।
इति तु पञ्चविधस्य साम्न उपासनमुक्तमिति सप्तविधे वक्ष्यमाणविषये बुद्धिसमाधानार्थम् ।
निरपेक्षो हि पञ्चविधे, वक्ष्यमाणे बुद्धिं समाधित्सति ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य सप्तमः खण्डः
=======================================================================
स्तर्त् छुप् 2,8.1
अथ सप्तविधस्य ।
वाचि सप्तविध्.अम् सामोपासीत ।
यत् किंच वाचो हुम् इति स हिङ्कारः ।
यत् प्रेति स प्रस्तावः ।
यद् एति स आदिः

2.8.2

छुप्भ्_2,8.1 अथानन्तरं सप्तविधस्य समस्तस्य साम्न उपासनं साध्विदमारभ्यते ।
वाचीति सप्तमी पूर्ववत् ।
वाग्दृष्टिविशिष्टं सप्तविधं सामोपासीतेत्यर्थः ।
यत्किञ्च वाचः शब्दस्य हुमिति यो विशेषः स हिङ्कारो हकारसामान्यात् ।
यत्प्रेति शब्दरूपं स प्रस्तावः प्रसामान्यात् ।
यत्-आ, इति स आदिः ।
आकारसामान्यात् ।
आदिरित्योङ्कारः ।
सर्वादित्वात् ॥1 ॥
स्तर्त् छुप् 2,8.2
यद् उद् इति स उद्गीथः ।
यत् प्रतीति स प्रतिहारः ।
यद् उपेति स उपद्रवः ।
यन् नीति तन् निधनम्

2.8.3

छुप्भ्_2,8.2 यदुदिति स उद्गीथः ।
फत्पूर्वत्वादुद्गीथस्य ।
यत्प्रतीति स प्रतिहारः ।
प्रतिसामान्यात् ।
यदुपेति स उपद्रव उपोपक्रमत्वादुपद्रवस्य ।
यन्नीति तन्निधनम् ।
निशब्दसामान्यात् ॥2 ॥
स्तर्त् छुप् 2,8.3
दुग्धे ऽस्मै वाग् दोहं यो वाचो दोहः ।
अन्नवान् अन्नादो भवति ।
य एतद् एवं विद्वान् वाचि सप्तविधं सामोपास्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc