छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.10
छुप्भ्_2,9.8 अथ यत्प्रथमास्तमिते ऽदर्शनं जिगमिषति सवितरि तन्निधनं तदस्य पितरो ऽन्वायत्तास्तस्मात्तान्निदधति पितृपितामहप्रपितामहरूपेण दर्भेषु निक्षिपन्ति तांस्तदर्थं पिण्डान्वा स्थापयन्ति ।
निधनसम्बन्धान्निधनभाजिनो ह्येतस्य साम्नः पितरः ।
एवमवयवशः सप्तधा विभक्तं खल्वमुमादित्यं सप्तविधं सामोपास्ते यस्तस्य तदापत्तिः फलमिति वाक्यशेषः ॥8॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य नवमः खण्डः
=======================================================================
स्तर्त् छुप् 2,10.1
अथ खल्व् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपासीत ।
हिङ्कार इति त्र्यक्षरम् ।
प्रस्ताव इति त्र्यक्षरम् ।
तत् समम्
छुप्भ्_2,10.1 मृत्युरादित्यः अहोरात्रादिकालेन जगतः प्रमापयितृत्वात् ।
तस्यातितरणायेदं सामोपासनमुपदिश्यते-अथ खल्वनन्तरम् ।
आदित्यमृत्युविषयसामोपासनस्य, आत्मसंमितं स्वावयवतुल्यतया मितं परमात्मतुल्यतया वा संमितमतिमृत्यु मृत्युजयहेतुत्वात् ।
यथा प्रथमे ऽध्याय उद्गीथभक्तिनामाक्षराण्युद्गीथ इत्युपास्यत्वेनोक्तानि, तथेह साम्नः सप्तविधभक्तिनामाक्षराणि समाहृत्य त्रिभिस्रिभिः समतया सामत्वं परिकल्प्योपास्यत्वेनोच्यन्ते ।
तदुपासनेन मृत्युगोचराक्षरसमख्यासामान्येन तं मृत्युं प्राप्य तदतिरिक्ताक्षरेण तस्याऽदित्यस्य मृत्योरतिक्रमणायैव संक्रममं कल्पयति ।
अतिमृत्यु सप्तविधं सामोपासीत मृत्युमतिक्रान्तमतिरिक्ताक्षरसंख्ययेत्यमृत्यु साम ।
तस्य प्रथमभक्तिनामाक्षराणि बिङ्कार इत्येतत्त्र्यक्षरं भक्तिमान प्रस्ताव इति च भक्तेस्त्र्यक्षरमेव मान तत्पूर्वेण समम् ॥1 ॥
स्तर्त् छुप् 2,10.2
आदिर् इति द्व्यक्षरम् ।
प्रतिहार इति चतुरक्षरम् ।
तत इहैकम् ।
तत् समम्
छुप्भ्_2,10.2 आदिरिति द्व्यक्षरं, सप्तविधस्य साम्नः संख्यापूरण ओङ्कार आदिरित्युच्यते ।
प्रतिहार इति चतुरक्षरम् ।
तत इहैकमक्षरमवच्छिद्याऽद्यक्षरयोः प्रक्षिप्यते ।
तेन तत्सममेव भवति ॥2 ॥
स्तर्त् छुप् 2,10.3
उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस् त्रिभिः समं भवति ।
अक्षरम् अतिशिष्यते त्र्यक्षरम् ।
तत् समम्
छुप्भ्_2,10.3 उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्रिभिः समं भवत्यक्षरमतिशिष्.यते ऽतिरिच्यते ।
तेन वैषम्ये प्राप्ते साम्नः समत्वकरणायाऽह-तदेकमपि सदक्षरमिति त्र्यक्षरमेव भवति ।
अतस्तत्समम् ॥3 ॥
स्तर्त् छुप् 2,10.4
निधनम् इति त्र्यक्षरम् ।
तत् समम् एव भवति ।
तानि ह वा एतानि द्वाविंशतिर् अक्षराणि
छुप्भ्_2,10.4 निधनमिति त्र्यक्षरं तत्सममेव भवति ।
एवं त्र्यक्षरसमतया सामत्वं सम्पाद्य यथाप्राप्तान्येवाक्षराणि संख्यायन्ते - तानि ह वा एतानि सप्तभक्तिनामाक्षराणि द्वाविंशतिः ॥4 ॥
स्तर्त् छुप् 2,10.5
एकविंशत्यादित्यम् आप्नोति ।
एकविंशो वा इतो ऽसाव् आदित्यः ।
द्वाविंशेन परम् आदित्याज् जयति ।
तन् नाकम् ।
तद् विशोकम्
छुप्भ्_2,10.5 तत्रैकविंशत्यक्षरसंख्ययाऽदित्यमाप्नोति मृत्युम् ।
यस्मादेकविंश इतो ऽस्माल्लोकादसावादित्यः संख्यया ।
"द्वादश मासाः पञ्चर्तवस्रय इमे लोका असावादित्य एकविंश"इति श्रुतेरतिशिष्टेन द्वाविंशेनाक्षरेण परं मृत्योरादित्याज्जयत्याप्नोतीत्यर्थः ।
यच्च तदादित्यात्परं किं तत्?नाकं कमिति सुखं तस्य प्रतिषेधो ऽकं तन्न भवतीति नाकं कमेवेत्यर्थः ।
मृत्युविषयत्वाद्दुःखस्य विशोकं च तद्विगतशोकं मानसदुःखरहितमित्यर्थः ।
तदाप्नोतीति ॥5 ॥
स्तर्त् छुप् 2,10.6
आप्नोतीहादित्यस्य जयम् ।
परो हास्यादित्यजयाज् जयो भवति य एतद् एवं विद्वान् आत्मसंमितम् अतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0