भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.21

2.21.1

छुप्भ्_2,20.2 विद्वत्फलम्-एतासामेवाग्न्यादीनां देवतानां सलोकतां समानलोकतां सार्ष्टितां समानर्द्धित्वं सायुज्यं समुग्भावमेकदेहदेहित्वमित्येतत् ।
वाशब्दो ऽत्र लुप्तो द्रष्टव्यः सलोकतां वेत्यादि ।
भावनाविशेषतः फलविशेषोपपत्तेः ।
गच्छति प्राप्नोति ।
समुच्चयानुपपत्तेश्च ।
ब्राह्मणान्न निन्देत्तद्व्रतम् ।
"एते वै देवाः प्रत्यक्षं यद्ब्राह्मणा"इति श्रुतेर्ब्राह्मणनिन्दा देवतानिन्दैवेति ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य विंशः खण्डः
=======================================================================
स्तर्त् छुप् 2,21.1
त्रयी विद्या हिङ्कारः ।
त्रय इमे लोकाः स प्रस्तावः ।
अग्निर् वायुर् आदित्यः स उद्गीथः ।
नक्षत्राणि वयांसि मरीचयः स प्रतिहारः ।
सर्पा गन्धर्वाः पितरस् तन् निधनम् ।
एतत् साम सर्वस्मिन् प्रोतम्

2.21.2

छुप्भ्_2,21.1 त्रयी विद्या हिङ्कारः ।
अग्न्यादिसाम्न आनन्तर्यं त्रयीविद्याया अग्न्यादिकार्यत्वश्रुतेः ।
हिङ्कारः प्राथम्यात्सर्वकर्तव्यानाम् ।
त्रय इमे लोकास्तत्कार्यत्वादनन्तरा इति प्रस्तावः ।
अग्न्यादीनामुद्गीथत्वं श्रैष्ठ्यात् ।
नक्षत्रादीनां प्रतिहृतत्वात्प्रतिहारत्वम् ।
सर्पादीनां धकारसामान्यान्निधनत्वमेतत्साम नामविश्षाभावात्सामसमुदायः सामशब्दः सर्वस्मिन्प्रोतम् ।
त्रयीविद्यादिदृष्ट्या हिङ्कारादिसामभक्तय उपास्याः ।
अतीतेष्वपि सामोपासनेषु येषु येषु प्रोतं यद्यत्साम तद्दृष्ट्या तदुपास्यमिति ।
कर्माङ्गनां दृष्टिविशेषेणाज्यस्येव संस्कार्यत्वात् ॥1 ॥
स्तर्त् छुप् 2,21.2
स य एवम् एतत् साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति

2.21.3

छुप्भ्_2,21.2 सर्वविषयसामविदः फलं-सर्वं ह भवति सर्वेश्वरो भवतीत्यर्थः ।
निरुपचरितसर्वभावे हि दिक्स्थेभ्यो बलिप्राप्त्यनुपपत्तिः ॥2 ॥
स्तर्त् छुप् 2,21.3
तद् एष श्लोकः ।
यानि पञ्चधा त्रीणि त्रीणि ।
तेभ्यो न ज्यायः परम् अन्यद् अस्ति

2.21.4

छुप्भ्_2,21.3 तदेतस्मिन्नर्थ एष श्लोको मन्त्रो ऽप्यस्ति ।
यानि पञ्चधा पञ्चप्रकारेण हिङ्कारादिविभागैः प्रोक्तानि त्रीणि त्रीणि त्रयीविद्यादीनि तेभ्यः पञ्चत्रिकेभ्यो ज्यायो महत्तरं परं च व्यतिरिक्तमन्यद्वस्त्वन्तरं नास्ति न विद्यत इत्यर्थः ।
तत्रैव हि सर्वस्यान्तभविः ॥3 ॥
स्तर्त् छुप् 2,21.4
यस् तद् वेद स वेद सर्वम् ।
सर्वा दिशो बलिम् अस्मै हरन्ति ।
सर्वम् अस्मीत्य् उपासित ।
तद् व्रतं तद् व्रतम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc