भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.20

2.20.1

छुप्भ्_2,19.2 अङ्गी भवति समग्राङ्गो भवतीत्यर्थः ।
नाङ्गेन हस्तपादादिना विहूर्छति न कुटिली भवति पङ्गुः कुणी वेत्यर्थः ।
संवत्सरं संवत्सरमात्रं मज्ज्ञो मांसानि नाश्नीयान्न भक्षयेत् ।
बहुवचनं मत्स्योपलक्षणार्थम् ।
मज्ज्ञो नाश्नीयात्सर्वदैव नाश्नीयादिति वा तद्व्रतम् ॥2॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यैकोनविंशः खण्डः
=======================================================================
स्तर्त् छुप् 2,20.1
अग्निर् हिङ्कारः ।
वायुः प्रस्तावः ।
आदित्य उद्गीथः ।
नक्षत्राणि प्रतिहारः ।
चन्द्रमा निधनम् ।
एतद् राजनं देवतासु प्रोतम्

2.20.2

छुप्भ्_2,20.1 अग्निर्हिङ्कारः प्रथमस्थानत्वात् ।
वायुः प्रस्ताव आनन्तर्यसामान्यात् ।
आदित्य उद्गीथः श्रैष्ठ्यात् ।
नक्षत्राणि प्रतिहारः प्रतिहृतत्वात् ।
चन्द्रमा निधनं कर्मिणां तन्निधनात् ।
एतद्राजनं देवतासु प्रोतं देवतानां दीप्तिमत्त्वात् ॥1 ॥
स्तर्त् छुप् 2,20.2
स य एवम् एतद् राजनं देवतासु प्रोतं वेद ।
एतासाम् एव देवतानां सलोकतां सर्ष्टितां सायुज्यं गच्छति ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
महान् प्रजया पशुभिर् भवति ।
महान् कीर्त्या ।
ब्राह्मणान् न निन्देत् ।
तद् व्रतम्

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc