छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.22
छुप्भ्_2,21.4 यस्तद्यथोक्तं सर्वात्मकं साम वेद स वेद सर्वं;स सर्वज्ञो भवतीत्यर्थः ।
सर्वा दिशः सर्वदिक्स्था अस्मा एवंविदे बलिं भोगं हरन्ति प्रापयन्तीत्यर्थः ।
सर्वमस्मि भवामीत्येवमेतत्सामोपासीत तस्यैतदेव व्रतम् ।
द्बिरुक्तिः सामोपासनसमाप्त्यर्प्था ॥4॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्यैकविंशः खण्डः
=======================================================================
स्तर्त् छुप् 2,22.1
विनर्दि साम्नो वृणे पशव्यम् इत्य् अग्नेर् उद्गीथः ।
अनिरुक्तः प्रजापतेः ।
निरुक्तः सोमस्य ।
मृदु श्लक्ष्णं वायोः ।
श्लक्ष्णं बलवद् इन्द्रस्य ।
क्रौञ्चं बृहस्पतेः ।
अपध्वान्तं वरुणस्य ।
तान् सर्वान् एवोपसेवेत ।
वारुणं त्व् एव वर्जयेत्
छुप्भ्_2,22.1 सामोपासनप्रसङ्गेन गानविशेषादिसम्पदुद्गातुरुपदिश्यते ।
फलविशेषसम्बन्धात्ष विनर्दि विशिष्टो नर्दः स्वरविशेष ऋषभकूजितसमो ऽस्यास्तीति विनर्दि गानमिति वाक्यशेषः ।
तच्च साम्नः सम्बन्धि पशुभ्यो हितं पशव्यमग्नेरग्निदेवत्यं चोद्गीथ उद्गानम् ।
तदहमेवंविशिष्टं वृणे प्रर्थय इति कश्चिद्यजमान उद्गाता वा मन्यते ।
अनिरुक्तो ऽमुकसम इत्यविशेषितः प्रजापतेः प्रजापतिदेवत्यः स न गानविशेषः ।
आनिरुक्त्यात्प्रजापतेर्निरुक्तः स्पष्टः सोमस्य, सोमदेवत्यः स उद्गीथ इत्यर्थः ।
मृदु श्लक्षणं च गानं वायोर्वायुदेवत्यं तत् ।
श्लक्ष्णं बलवच्च प्रयत्नाधिक्योपेतं चेन्द्रस्यैन्द्रं तद्गानम् ।
क्रौञ्चं क्रौञ्चपक्षिनिनादसमं बृहस्पतेर्बार्हस्पत्यं तत् ।
अपध्वान्तं भिन्नकांस्यस्वरसमं वरुणस्यैतद्गानम् ।
तान्सर्वानेवोपसेवेत प्रयुञ्जीत वारुणं त्वेवैकं वर्जयेत् ॥1 ॥
स्तर्त् छुप् 2,22.2
अमृतत्वं देवेभ्य आगायानीत्य् आगायेत् ।
स्वधां पितृभ्य आशां मनुष्येभ्यस् तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नम् आत्मन आगायानीत्य् एतानि मनसा ध्यायन्न् अप्रमत्तः स्तुवीत
छुप्भ्_2,22.2 अमृतत्वं देवेभ्य आगायानि साधयानि ।
स्वधां पितृभ्य आगायान्याशां मनुष्येभ्य आशां प्रार्थनां प्रार्थितमित्येतत् ।
तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मने मह्यमागायानीत्येतानि मनसा चिन्तयन्ध्यायन्नप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः स्तुवीत ॥2 ॥
स्तर्त् छुप् 2,22.3
सर्वे स्वरा इन्द्रस्यात्मानः ।
सर्व ऊष्माणः प्रजापतेर् आत्मानः ।
सर्वे स्पर्शा मृत्योर् आत्मानः ।
तं यदि स्वरेषूपालभेत ।
इन्द्रं शरणं प्रपन्नो ऽभूवं स त्वा प्रति वक्ष्यतीत्य् एनं ब्रूयात्
छुप्भ्_2,22.3 सर्वे स्वरा अकारादय इन्द्रस्य बलकर्मणः प्राणस्याऽत्मानो देहावयवस्थानीयाः सर्व ऊष्माणः शषसहादयः प्रजापतेर्विराजः कश्यपस्य वाऽत्मानः ।
सर्वे स्पर्शाः कादयो व्यञ्जनानि मृत्योरात्मानस्तमेवंविदमुद्गातारं यदि कश्चित्स्वरेषूपालभेत स्वरस्त्वया दुष्टः प्रयुक्त इत्येवमुपालब्ध इन्द्रं प्राणमीश्वरं शरणमाश्रयं प्रपन्नो ऽभूवं स्वरान् प्रयुञ्जानो ऽहं स इन्द्रो यत्तव वक्तव्यं त्वा त्वां प्रति वक्ष्यति स एव देव उत्तरं दास्यतीत्येनं ब्रूयात् ॥3 ॥
स्तर्त् छुप् 2,22.4
अथ यद्य् एनम् ऊष्मासूपालभेत ।
प्रजापतिं शरणं प्रपन्नो ऽभूवं स त्वा प्रति पेक्ष्यतीत्य् एनं ब्रूयात् ।
अथ यद्य् एनं स्पर्शेषूपालभेत ।
मृत्युं शरणं प्रपन्नो ऽभूवं स त्वा प्रति धक्ष्यतीत्य् एनं ब्रूयात्
छुप्भ्_2,22.4 अथ यद्येनमूष्मसु तथैवोपालभेत प्रजापतिं शरणं प्रपन्नो ऽभूवं स त्वा प्रतिपेक्ष्यति सञ्चूर्णयिष्यतीत्येनं ब्रूयात् ।
अथ यद्येनं स्पर्शेषूपालभेत मृत्युं शरणं प्रपन्नो ऽभूवं स त्वा प्रति धक्ष्यति भस्मीकरिष्यतीत्येनं ब्रूयात् ॥4 ॥
स्तर्त् छुप् 2,22.5
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति ।
सर्व ऊष्माणो ऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेर् आत्मानं परिददानीति ।
सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योर् आत्मानं परिहराणीति
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0