भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.2

2.2.1

छुप्भ्_2,1.4 अतः स यः कश्चित्साधु सामेति साधुगुणवत्सामेत्युपास्ते समस्तं साम साधुगुणवद्विद्वांस्तस्यैतत्फलमभ्याशो ह क्षिप्रं ह;यदिति क्रियाविशेषणार्थमेनमुपासकं साधवः शोभना धर्माः श्रुतिस्मृत्यविरुद्धा आ च गच्छेयुरागच्छेयुश्च न केवलमागच्छेयुरुप च नमेयुरुपनमेयुश्च भोग्यत्वेनोपतिष्ठेयुरित्यर्थः ॥4॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य प्रथमः खण्डः
=======================================================================
स्तर्त् छुप् 2,2.1
लोकेषु पञ्चविधं सामोपासीत ।
पृथिवी हिङ्कारः ।
अग्निः प्रस्तावः ।
अन्तरिक्षम् उद्गीथः ।
आदित्यः प्रतिहारः ।
द्यौर् निधनम् ।
इत्य् ऊर्ध्वेषु

2.2.2

छुप्भ्_2,2.1 कानि पुनस्तानि साधुदृष्टिविशिष्टानि समस्तानि सामान्युपास्यानीति ।
इमानि तान्युच्यन्ते लोकेषु पञ्चविधमित्यादीनि ।
ननु लोकादिदृष्ट्या तान्युपास्यानि साधुदृष्ट्या चेति विरुद्धम् ।
न ।
साध्वर्थस्य लोकादिकार्येषु कारणस्यानुगतत्वात् मृदादिवद्घटादिविकारेषु ।
साधुशब्दवाच्योर्ऽथो धर्मो ब्रह्म वा सर्वथापि लोकादिकार्येष्वनुगतम् ।
अतो यथा यत्र घटादिदृष्टिर्मृदादिदृष्ट्यनुगतैव सा ।
तथा साधुदृष्ट्यनुगतैव लोकादिदृष्टिः ।
धर्मादिकार्यत्वाल्लोकादीनाम् ।
यद्यपि कारणत्वमविशिष्टं ब्रह्मधर्मयोः, तथापि धर्म एव साधुशब्दवाच्य इति युक्तं"साधुकारी साधुर्भवती"ति धर्मविषये साधुशब्दप्रयोगात् ।
ननु लोकादिकार्येषु कारणस्यानुगतत्वादर्थप्राप्तैव तद्दृष्टिरिति साधु सामेत्युपास्त इति न वक्तव्यम् ।
न ।
शास्रगम्यत्वात्तद्दृष्टेः ।
सर्वत्र हि शास्रप्रापिता एव धर्मा उपास्या न विद्यमाना अप्यशास्रीयाः ।
लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चभक्तिभेदेन पञ्चप्रकारं साधुसमस्तं सामोपासीत ।
कथम् ।
पृथिवो हिङ्कारः ।
लोकेष्विति या सप्तमी तां प्रथमात्वेन वि
स्तर्त् छुप् 2,2.2
अथावृत्तेषु ।
द्यौर् हिङ्कारः ।
आदित्यः प्रस्तावः ।
अन्तरिक्षम् उद्गीथः ।
अग्निः प्रतिहारः ।
पृथिवी निधनम्

2.2.3

छुप्भ्_2,2.2 अथाऽवृत्तेष्ववाङ्मुखेषु पञ्चविधमुच्यते सामोपासनम् ।
गत्यागतिविशिष्टा हि लोकाः ।
यथा ते तथादृष्ट्यैव सामोपासनं विधीयते यतो ऽत आवृत्तेषु लोकेषु ।
द्यौर्हिङ्कारः प्राथम्यात् ।
आदित्यः प्रस्तावः ।
उदिते ह्यादित्ये प्रस्तूयन्ते कर्माणि प्राणिनाम् ।
अन्तरिक्षमुद्गीथः पूर्ववत् ।
अग्निः प्रतिहारः ।
प्राणिभिः प्रतिहरणादग्नेः ।
पृथिवी निधनम् ।
तत आगतानामिह निधनात् ॥2 ॥
स्तर्त् छुप् 2,2.3
कल्पन्ते हास्मै लोका ऊर्ध्वाश् चावृत्तश् च य एतद् एवं विद्वांल् लोकेषु पञ्चविधं सामोपास्ते

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc