छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.3
छुप्भ्_2,2.3 उपासनफलं-कल्पन्ते समर्था भवन्ति हास्मै लोका ऊर्ध्वाश्चाऽवृत्ताश्च गत्यागतिविशिष्टा भोग्यत्वेन व्यवतिष्ठन्त इत्यर्थः ।
य एतदेवं विद्वांल्लोकेषु पञ्चविधं समस्तं साधु सामेत्युपास्त इति सर्वत्र योजना पञ्चविधे सप्तविधे च ॥3॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य द्वितीयः खण्डः
=======================================================================
स्तर्त् छुप् 2,3.1
वृष्टौ पञ्चविधं सामोपासीत ।
पुरोवातो हिङ्कारः ।
मेघो जायते स प्रस्तावः ।
वर्षति स उद्गीथः ।
विद्योतते स्तनयति स प्रतिहारः
छुप्भ्_2,3.1 वृष्टौ पञ्चविधं सामोपासीत ।
लोकस्थितेर्वृष्टिनिमित्तत्वादानन्तर्यम् ।
पुरोवातो हिङ्कारः ।
पुरोवाताद्युद्ग्रहणान्ता हि वृष्टिः ।
यथा साम हिङ्कारादिनिधनान्तम् ।
अतः पुरोवातो हिङ्कारः ।
प्राथम्यात् ।
मेघो जायते स प्रस्तावः ।
प्रावृषि मेघजनने वृष्टेः प्रस्ताव इति हि प्रसिद्धिः ।
वर्षति स उद्गीथः श्रैष्ठ्यात् ।
विद्योतते स्तनयति स प्रतिहारः ।
प्रतिहृतत्वात् ॥1 ॥
स्तर्त् छुप् 2,3.2
उद्गृह्णाति तन् निधनं वर्षयति ह य एतद् एवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0