भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.1

2.1.1

छुप्भ्_1,13.4 दुग्धे ऽस्मै वाग्दोहमित्याद्युक्तार्थम् ।
य एतामेवं यथोक्तलक्षणां साम्नां सामावयवस्तोभाक्षरविषयामुपनिषदं दर्शनं वेद तस्यैतद्यथोक्तं फलमित्यर्थः ।
द्विरभ्यासो ऽध्यायपरिसमाप्त्यर्थः ।
सामावयवविषयोपासनाविशेषपरिमाप्त्यर्थो वेति ॥4 ॥ ॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य त्रयोदशः खण्डः
इति छान्दोग्योपनिषद्ब्राह्मणे प्रथमोध्यायः समाप्तः
अथ द्वितीयो ऽध्यायः
ओं
स्तर्त् छुप् 2,1.1
समस्तस्य खलु साम्न उपासनं साधु ।
यत् खलु साधु तत् सामेत्य् आचक्षते ।
यद् असाधु तद् असामेति

2.1.2

छुप्भ्_2,1.1
"ओमित्येतदक्षरम्" इत्यादिना सामावयवविषयमुपासनमनेकफलमुपदिष्टम् ।
अनन्तरं च स्तोभाक्षरविषयमुपासनमुक्तम् ।
सर्वथापि सामैकदेशसम्बद्धमेव तदित्यथेदानीं समस्ते साम्नि समस्तसामविषयाण्युपासनानि वक्ष्यामीत्यारभते श्रुतिः ।
युक्तं ह्येकदेशोपासनानन्तरमेकदेशिविषयमुपासनमुच्यत इति ।
समस्तस्य सर्वावयवविशिष्टस्य पाञ्चभक्तिकस्य साप्तभक्तिकस्य चेत्यर्थः ।
खल्विति वाक्यालङ्कारार्थः ।
साम्न उपासनं साधु ।
समस्ते साम्नि साधुदृष्टिविधिपरत्वान्न पूर्वोक्तोपासननिन्दार्थत्वं साधुशब्दः शोभनवाची ।
कथमवगम्यत इत्याह-यत्खलु लोके साधु शोभनमनवद्यं प्रसिद्धं तत्सामेत्याचक्षते कुशलाः ।
यदसाधु विपरीतं तदसामेति ॥1 ॥
स्तर्त् छुप् 2,1.2
तद् उताप्य् आहुः ।
साम्नैनम् उपागाद् इति साधुनैनम् उपागाद् इत्य् एव तद् आहुः ।
असाम्नैनम् उपागाद् इत्य् एव तद् आहुः

2.1.3

छुप्भ्_2,1.2 तत्तत्रैव साध्वसाधुविवेककरण उताप्याहुः-साम्नैनं राजानं सामन्तं चोपागादुपगतवान् ।
को ऽसौ यतो ऽसाधुत्वप्राप्त्याशङ्का?स इत्यभिप्रायः ।
शोभनाभिप्रायेण साधुनैनमुपागादित्येव तत्तत्राऽहुर्लौकिका बन्धनाद्यसाधुकार्यमपश्यन्तः ।
यत्र पुनर्विपर्ययो बन्धनाद्यसाधुकार्यं पश्यन्ति तत्रासाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥2 ॥
स्तर्त् छुप् 2,1.3
अथोताप्य् आहुः ।
साम नो बतेति यत् साधु भवति साधु बतेत्य् एव तद् आहुः ।
असाम नो बतेति यद् असाधु भवत्य् असाधु बतेत्य् एव तद् आहुः

2.1.4

छुप्भ्_2,1.3 अथोताप्याहुः स्वसंवेद्यं साम नो ऽस्माकं बतेत्यनुकम्पयतः संवृत्तमित्याहुः ।
एतत्तैरुक्तं भवति यत्साधु भवति साधु वतेत्येव तदाहुः ।
विपर्यये जाते ऽसाम नो बतेति ।
यदसाधु भवत्यसाधु बतेत्येव तदाहुः तस्मात्सामसाधुशब्दयोरेकार्थत्वं सिद्धम् ॥3 ॥
स्तर्त् छुप् 2,1.4
स य एतद् एवं विद्वान् साधु सामेत्य् उपास्ते ऽभ्याशो ह यद् एनं साधवो धर्मा आ च गच्छेयुर् उप च नमेयुः

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc