छान्दोग्योपनिषद (टीका सहित) · अध्याय 2.11
छुप्भ्_2,10.6 उक्तस्यैव पिण्डितार्थमाह-एकविंशतिसंख्ययाऽदित्यस्य जयमाप्नोति परो हास्यैवंविद आदित्यजयान्मृत्युगोचरात्परो जयो भवति द्वाविंशत्यक्षरसंख्ययेत्यर्थः ।
य एतदेवं द्वानितिक्याद्युक्तार्थम् ।
तस्यैतद्यथोक्तं फलमिति द्विरभ्यासः साप्तविध्यसमाप्त्यर्थः ॥6॥
इति छान्दोग्योपनिषदि द्वितीयाध्यायस्य दशमः खण्डः
=======================================================================
स्तर्त् छुप् 2,11.1
मनो हिङ्कारः ।
वाक् प्रस्तावः ।
चक्षुर् उद्गीथः ।
श्रोत्रं प्रतिहारः ।
प्राणो निधनम् ।
एतद् गायत्रं प्राणेषु प्रोतम्
छुप्भ्_2,11.1 विना नामग्रहणं पञ्चविधस्य सप्तविधस्य च साम्न उपासनमुक्तम् ।
अथेदानीं गायत्रादिनामग्रहणपूर्वकं विशिष्टफलानि सामोपासनान्तराण्युच्यन्ते यथाक्रमं गायत्रादीनां कर्मणि प्रयोगस्तथैव ।
मनो हिङ्कारो मनसः सर्वकरणप्रवृत्तीनां प्राथम्यात् ।
तदानन्तर्याद्वाक्प्रस्तावश्चक्षुरुद्गीथः श्रैष्ठ्यात् ।
श्रोत्रं प्रतिहारः प्रतिहृतत्वात् ।
प्राणो निधनं यथोक्तानां प्राणे निधनात्स्वापकाले ।
एतद्गायत्रं साम प्राणेषु प्रोतम् ।
गायत्र्याः प्राणसंस्तुतत्वात् ॥1 ॥
स्तर्त् छुप् 2,11.2
स य एवम् एतद् गायत्रं प्राणेषु प्रोतं वेद ।
प्राणी भवति ।
सर्वम् आयुर् एति ।
ज्योग् जीवति ।
महान् प्रजया पशुभिर् भवति ।
महान् कीर्त्या ।
महामनाः स्यात् ।
तद् व्रतम्
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0