छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.13
छुप्भ्_1,12.5 ओमदामों पिबामों देवो द्योतनात् ।
वरुणो वर्षणाज्जगतः ।
प्रजापतिः पालनात्प्रजानाम् ।
सविता प्रसवितृत्वात्सर्वस्याऽदित्य उच्यते ।
एतैः पर्यायैः स एवंभूत आदित्यो ऽन्नमस्मभ्यमिहाऽबरदाबरत्विति ।
त एवं हिं कृत्वा पुनरप्यूचुः-स त्वं हे ऽन्नपते ।
स हि सर्वस्यान्नस्य प्रसवितृत्वात्पतिः ।
न हि तत्पाकेन विना प्रभूतमन्नमणुमात्रमपि जायते प्राणिनाम् ।
अतो ऽन्नपतिः ।
हे ऽन्नपते ऽन्नमस्मभ्यमिहाऽहराऽहरेति ।
अभ्यास आदरार्थः ।
ओमिति ॥5॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य द्वादशः खण्डः
=======================================================================
स्तर्त् छुप् 1,13.1
अयं वाव लोको हाउकारः ।
वायुर् हाइकारः ।
चन्द्रमा अथकारः ।
आत्मेहकारः ।
अग्निर् ईकारः
छुप्भ्_1,13.1 भक्तिविषयोपासनं सामावयवसम्बद्धमित्यतः सामावयवान्तरस्तोभाक्षर विषयाण्युपासनान्तराणि संहतान्युपदिश्यन्ते ऽनन्तरं सामावयवसम्बद्धत्वाविशेषात्-अयं वावायमेव लोको हाउकारः स्तोभो रथन्तरे साम्नि प्रसिद्धः-"इयं वै रथन्तरम्" इति ।
अस्मात्सम्बन्धसामान्याद्धाउकारस्तोभो ऽयं लोक इत्येवमुपासीत ।
वायुर्हाकारः ।
वामदेव्ये सामनि हाइकारः प्रसिद्धः ।
वाय्वप्सम्बन्धश्च वामदेवस्य साम्नो योनिरित्यस्मात्सामान्याद्धाइकारं वायुदृष्ट्योपासीत ।
चन्द्रमा अथकारः ।
चन्द्रदृष्ट्याथकारमुपासीत ।
अन्ने हीदं स्थितम् ।
अन्नात्मा चन्द्रः ।
थकाराकारसामान्याच्च ।
आत्मेहकारः ।
इहेति स्तोभः प्रत्यक्षो ह्यात्मेति व्यपदिश्यते ।
इहेति च स्तोभः ।
तत्सामान्यात् ।
अग्निरीकारः ।
ईनिधनानि चाऽग्नेयानि सर्वाणि सामानीत्यतस्तत्सामान्यात् ॥1 ॥
स्तर्त् छुप् 1,13.2
आदित्य ऊकारः ।
निहव एकारः ।
विश्वे देवा औहोयिकारः ।
प्रजपतिर् हिङ्कारः ।
प्राणः स्वरः ।
अन्नं या ।
वाग् विराट्
छुप्भ्_1,13.2 आदित्य ऊकारः ।
उच्चैरूर्ध्वं सन्तमादित्यं गायन्त्यूकारश्चायं स्तोभः ।
आदित्यदैवत्ये साम्नि स्तोभ ऊ इत्यादित्य ऊकारः ।
निहव इत्याह्वानमेकारः स्तोभः ।
एहीति चाऽह्वयन्तीति तत्सामान्यात् ।
विश्वे देवा औहोयिकारोवैश्वदेव्ये साम्नि दर्शनात् ।
प्रजापतिर्हिङ्कारः ।
आनिरुक्त्याद्धिङ्कारस्य चाव्यक्तत्वात् ।
प्राणः स्वरः ।
स्वर इति स्तोभः ।
प्राणस्य च स्वरहेतुत्वसामान्यात् ।
अन्नं या या इति स्तोभो ऽन्नम् ।
अन्नेन हीदं यातीत्यतस्तत्सामान्यात् ।
वागिति स्तोभो विराडन्नं देवताविशेषो वा ।
वैराजे साम्नि स्तोभदर्शनात् ॥2 ॥
स्तर्त् छुप् 1,13.3
अनिरुक्तस् त्रयोदशः स्तोभः संचरो हुङ्कारः
छुप्भ्_1,13.3 अनिरुक्तो ऽव्यक्तत्वादिदं वेदं वेति निर्वक्तुं न शक्यत इत्यतः सञ्चरो विकल्प्यमानस्वरूप इत्यर्थः ।
को ऽसावित्याह-त्रयोदशः स्तोभो हुङ्कारः ।
अव्यक्तो ह्ययमतो ऽनिरुक्तविशेष एवोपास्य इत्यभिप्रायः ॥3 ॥
स्तर्त् छुप् 1,13.4
दुग्धे ऽस्मै वाग् दोहं यो वाचो दोहः ।
अन्नवान् अन्नादो भवति ।
य एताम् एवं साम्नाम् उपनिषदं वेदोपनिषदं वेद
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0