भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.9

1.9.1

छुप्भ्_1,8.8 तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य सामेत्यादि पूर्ववत् ।
ततः शालावत्य आह-हन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाचेतरो ऽनुज्ञात आह ॥8॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्याष्टमः खण्डः
=======================================================================
स्तर्त् छुप् 1,9.1
अस्य लोकस्य का गतिर् इति ।
आकाश इति होवाच ।
सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते ।
आकाशं प्रत्य् अस्तं यन्ति ।
आकाशो ह्य् एवैभ्यो ज्यायान् ।
आकाशः परायणम्

1.9.2

छुप्भ्_1,9.1 अस्य लोकस्य का गतिरिति ।
आकाश इति होवाच प्रवाहणः ।
आकाश इति च पर आत्मा"आकाशो वै नामे"ति श्रुतेः ।
तस्य हि कर्म सर्वभूतोत्पादकत्वम् ।
तस्मिन्नेव हि भूतप्रलयः ।
तत्तेजो ऽसृजत ।
तेजः परस्यां देवतायामिति हि वक्ष्यति ।
सर्वाणि ह वा इमानि भूतानि स्थावरजङ्गमान्याकाशादेव समुत्पद्यन्ते तेजोबन्नादिक्रमेण, सामर्थ्यात् ।
आकाशं प्रत्यस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमेण हि यस्मादाकाश एवैभ्यः सर्वेभ्यो भूतेभ्यो ज्यायान्महत्तरो ऽतः स सर्वेषां भृतानां परमयनं परायणं प्रतिष्ठा त्रिष्वपि कालेष्वित्यर्थः ॥1॥
स्तर्त् छुप् 1,9.2
स एष परोवरीयान् उद्गीथः ।
स एषो ऽनन्तः ।
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ् जयति य एतद् एवं विद्वान् परोवरीयांसम् उद्गीथम् उपास्ते

1.9.3

छुप्भ्_1,9.2 यस्मात्परं परं वरीयो वरीयसो ऽप्येष वरः परश्च वरीयाश्च रपोवरीयानुद्गीथः परमात्मा सम्पन्न इत्यर्थः ।
अत एव स एषो ऽनन्तो ऽविद्यामानान्तस्तमेतं परोवरीयांसं परमात्मभूतमनन्तमेवं विद्वान्परोवरीयांसमुद्गीथमुपास्ते ।
तस्यैतत्फलमाह-परोवरीयः परं परं वरीयो विशिष्टतरं जीवनं हास्य विदुषो भवति दृष्टं फलमदृष्टं च परोवरीयस उत्तरोत्तरविशिष्टतरानेव ब्रह्माकाशान्तांल्लोकाञ्जयति य एतदेवं विद्वानुद्गीथमुपास्ते ॥2 ॥
स्तर्त् छुप् 1,9.3
तं हैतम् अतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच ।
यावत् त एनं प्रजायाम् उद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस् तावद् अस्मिंल् लोके जीवनं भविष्यति

1.9.4

छुप्भ्_1,9.3 किं च तमेतमुद्गीथं विद्वानतिधन्वा नामतः शुनकस्यापत्यं शौनक उदरशाडिल्याय शिष्यायैतमुद्गीथदर्शनमुक्त्वोवाच ।
यावत्ते तव प्रजायां प्रजासन्ततावित्यर्थः ।
एनमुद्गीथं त्वत्सन्ततिजा वेदिष्यन्ते ज्ञास्यन्ति तावन्तं कालं परोवरीयो हैभ्यः प्रसिद्धेभ्यो लौकिकजीवनेभ्य उत्तरोत्तरविशिष्टतरं जीवनं तेभ्यो भविष्यति ॥3 ॥
स्तर्त् छुप् 1,9.4
तथामुष्मिंल् लोके लोक इति ।
स य एतम् एव विद्वान् उपास्ते परोवरीय एव हास्यामुष्मिंल् लोके जीवनं भवति तथामुष्मिंल् लोके लोक इति लोके लोक इति

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc