भाषा

ENहिગુ
ग्रंथ पाठ

छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.10

1.10.1

छुप्भ्_1,9.4 तथादृष्टे ऽपि परलोके ऽमुष्मिन्परोवरीयांल्लोको भविष्यतीत्युक्तवाञ्शाण्डिल्यायातिधन्वा शौनकः ।
स्यादेतत्फलं पूर्वेषां महाभाग्यानां नैदंयुगीनानामित्याशङ्कानिवृत्तय आह-स यः कश्चिदेतदेवं विद्वानुद्गीथमेतर्ह्युपास्ते तस्याप्येवमेव परोवरीय एव हास्यास्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोके लोक इति ॥4॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य नवमः खण्डः
=======================================================================
स्तर्त् छुप् 1,10.1
मटचीहतेषु कुरुष्व् आटिक्या सह जाययोषस्तिर् ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास

1.10.2

छुप्भ्_1,10.1 उद्गीयोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं वक्तव्यमितीदमारभ्यते ।
आख्यायिका त सुखावबोधार्था ।
मटचीहतेषु मटच्यो ऽशनयस्ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः ।
ततो दुर्भिक्षे जात आटिक्यानुपजातपयोधरादिस्त्रीव्यञ्जनया सह जाययोषस्तिर्ह नामतश्चक्रस्यापत्यं चाक्रायणः ।
इभो हस्ती तमर्हतीतीभ्य ईश्वरो हस्त्यारोहो वा तस्य ग्राम इभ्यग्रामस्तस्मिन्प्रद्राणको ऽन्नालाभात् ।
द्रा कुत्सायां गतौ ।
कृत्सितां गतिं गतो ऽन्त्यावस्थां प्राप्त इत्यर्थः ।
उवासोषितवान्कस्यचिद्गृहमाश्रित्य ॥1 ॥
स्तर्त् छुप् 1,10.2
स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे ।
तं होवाच ।
नेतो ऽन्ये विद्यन्ते यच् च ये म इम उपनिहिता इति

1.10.3

छुप्भ्_1,10.2 सो ऽन्नार्थमटन्निभ्यं कुल्माषान्कुत्सितान्माषान्खादन्तं भक्षयन्तं यदृच्छयोपलभ्य बिभिक्षे याचितवान् ।
तमुषस्तिं होवाचेभ्यः ।
नेतो ऽस्मान्मया भक्ष्यमाणादुच्छिष्टराशेः कुल्माषा अन्ये न विद्यन्ते ।
यच्च ये राशौ मे ममोपनिहिताः प्रक्षिप्ता इमे भाजते किं करोमीत्युक्तः प्रत्युवाचोषस्तिः ॥2 ॥
स्तर्त् छुप् 1,10.3
एतेषां मे देहीति होवाच ।
तान् अस्मै प्रददौ ।
हन्तानुपानम् इति ।
उच्छिष्टं वै मे पीतं स्याद् इति होवाच

1.10.4

छुप्भ्_1,10.3 एतेषामेतानित्यर्थः ।
मे मह्यं देहीति होवाच ।
तान्स इभ्यो ऽस्मा उषस्तये प्रददौ प्रदत्तवान् ।
अनुपानीयं समीपस्थमुदकं हन्त गृहाणानुपानमित्युक्तः प्रत्युवाच ।
उच्छिष्टं वै मे ममेदमुदकं पीतं स्याद्यदि पास्यामीत्युक्तवन्तं प्रत्युवाचेतरः ॥3 ॥
स्तर्त् छुप् 1,10.4
न स्विद् एते ऽप्य् उच्छिष्टा इति ।
न वा अजीविष्यम् इमान् अखादन्न् इति होवाच ।
कामो म उदपानम् इति

1.10.5

छुप्भ्_1,10.4 किं न स्विदेते कुल्माषा उप्युच्छिष्टा इत्युक्त आहोषस्तिर्न वा अजीविष्यं न जीविष्यामीमान्कुल्माषानखादन्नभक्षयन्निति होवाच ।
काम इच्छातो मे ममोदकपानं लभ्यत इत्यर्थः ।
अतश्चैतामवस्यां प्राप्तस्य विद्याधर्मयशोवतः स्वात्मपरोपकारसमर्थस्यैतदपि कर्म कुर्वतो नाऽगःस्पर्श इत्यभिप्रायः ।
तस्यापि जावितं प्रत्युपायान्तरे ऽजुगुप्सिते सति जुगुप्सितमेतत्कर्म दोषाय ।
ज्ञानावलेपेन कुर्वतो नरकपातः स्यादेवेत्यभिप्रायः ।
प्रद्राणकशब्दश्रवणात् ॥4 ॥
स्तर्त् छुप् 1,10.5
स ह खादित्वातिशेषाञ् जायाया आजहार ।
साग्र एव सुभिक्षा बभूव ।
तान् प्रतिगृह्य निदधौ

1.10.6

छुप्भ्_1,10.5 तांश्च स खादित्वातिशेषानतिशिष्टाञ्जायायै कारुण्यादाजहार ।
साऽटिक्यग्र एव कुल्माषप्राप्तेः सुभिक्षा शोभनभिक्षा लब्धान्नेत्येतद्बभूव संवृत्ता ।
तथापि स्त्रीस्वाभाव्यादनवज्ञाय तान्कुल्माषान्पत्युर्हस्तात्प्रतिगृह्य निदधौ निक्षिप्तवती ॥5 ॥
स्तर्त् छुप् 1,10.6
स ह प्रातः संजिहान उवाच ।
यद् बतान्नस्य लभेमहि लभेमहि धनमात्राम् ।
राजासौ यक्ष्यते ।
स मा सर्वैर् आर्त्विज्यैर् वृणीतेति

1.10.7

छुप्भ्_1,10.6 स तस्याः कर्म जानन्प्रातरुषःकाले सञ्जिहानः शयनं निद्रां वा परित्यजन्नुवाच पत्न्याः शृण्वत्या यद्यदि वतेति खिद्यमानो ऽन्नस्य स्तोकं लभेमहि तद्भुक्त्वान्नं समर्थो गत्वा लभेमहि धनमात्रां धनस्याल्पम् ।
ततो ऽस्माकं जीवनं भविष्यतीति ।
धनलाभे च कारणमाह-राजासौ नातिदूरे स्थाने यक्ष्यते ।
यजमानत्वात्तस्याऽत्मनेपदम् ।
स च राजा मा मां पात्रमुपलभ्य सर्वैरार्त्विज्यैरॄत्विक्कर्मभिरॄत्विक्कर्मप्रयोजनायेत्यर्थो वृणीतेति ॥6 ॥
स्तर्त् छुप् 1,10.7
तं जायोवाच ।
हन्त पत इम एव कुल्माषा इति ।
तान् खादित्वामुं यज्ञं विततम् एयाय

1.10.8

छुप्भ्_1,10.7 एवमुक्तवन्तं जायोवाच-हन्त गृहाण हे पत इम एव ये मद्धस्ते विनिक्षिप्तास्त्वया कुल्माषा इति ।
तान्खादित्वामुं यज्ञं राज्ञो विततं विस्तारितमृत्विग्भिरेयाय ॥7 ॥
स्तर्त् छुप् 1,10.8
तत्रोद्गात्ःन् आस्तावे स्तोष्यमाणान् उपोपविवेश ।
स ह प्रस्तोतरम् उवाच

1.10.9

छुप्भ्_1,10.8 तत्र च गत्वोद्गातॄनुद्गातृपुरुषानागत्य स्तुवन्त्यस्मिन्नित्यास्तावस्तस्मिन्नास्तावे स्तोष्यमाणानुपोपविवेश समीप उपविष्टस्तेषामित्यर्थः ।
उपविश्य स ह प्रस्तोतारमुवाच ॥8 ॥
स्तर्त् छुप् 1,10.9
प्रस्तोतर् या देवता प्रस्तावम् अन्वायत्ता तां चेद् अविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति

1.10.10

छुप्भ्_1,10.9 हे प्रस्तोतरित्यामन्त्र्याभिमुखीकरणाय ।
या देवता प्रस्तावं प्रस्तावभक्तिमनुगतान्वायत्ता तां चेद्देवतां प्रस्तावभक्तेरविद्वान्सन्प्रस्तोष्यसि विदुषो मम समीपे ।
तत्परोक्षे ऽपि चेद्विपतेत्तस्य मूर्धा कर्ममात्रविदामनधिकार एव कर्मणि स्यात् ।
तच्चानिष्टमविदुषामपि कर्मदर्शनात् ।
दक्षिणमार्गश्रुतेश्च ।
अनधिकारे चाविदुषामुत्तर एवैको मार्गः श्रूयेत ।
न च स्मार्तकर्मनिमित्त एव दक्षिणः पन्थाः ।
यज्ञेन दानेनेत्यादिश्रतेः ।
तथोक्तस्य मयेति च विशेषणाद्विद्वत्समक्षमेव कर्मण्यनधिकारो न सर्वत्राग्निहोत्रस्मार्तकर्माध्ययनादिषु च ।
अनुज्ञायास्तत्र तत्र दर्शनात् कर्ममात्रविदामप्यधिकारः सिद्धः कर्मणीति ।
मूर्धा ते विपतिष्यतीति ॥9 ॥
स्तर्त् छुप् 1,10.10-11
एवम् एवोद्गातारम् उवाच ।
उद्गातर् या देवतोद्गीथम् अन्वायत्ता तां चेद् अविद्वान् उद्गास्यसि मूर्धा ते विपतिष्यतीति

1.10.11

एवम् एव प्रतिहर्तारम् उवाच ।
प्रतिहर्तर् या देवता प्रतिहारम् अन्वायत्ता तां चेद् अविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ।
ते ह समारतास् तूष्णीम् आसां चक्रिरे

मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc