छान्दोग्योपनिषद (टीका सहित) · अध्याय 1.8
छुप्भ्_1,7.8 अथानेनैव चाक्षुषेणैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाऽप्नोति मनुष्यकामांश्च चाक्षुषो भूत्वेत्यर्थः ।
तस्मादु हैवंविदुद्गाता ब्रूयाद्यजमानं कमिष्टं ते तव काममागायानीति ।
एष हि यस्मादुद्गाता कामागानस्योद्गानेन कामं सम्पादयितुमीष्टे समर्थ इत्यर्थः ।
को ऽसौ?य एवं विद्वान्साम गायति साम गायति ।
द्विरुक्तिरुपासनसमाप्त्यर्था ॥8-9 ॥
इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य सप्तमः खण्डः
=======================================================================
स्तर्त् छुप् 1,8.1
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश् चैकितायनो दाल्भ्यः प्रवाहणो जैवलिर् इति ।
ते होचुर् उद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति
छुप्भ्_1,8.1 अनेकधोपास्यत्वादक्षरस्य प्रकारान्तरेण परोवरीयस्त्वगुणफलमुपासनान्तरमानिनाय ।
इतिहासस्तु सुखावबोधनार्थः ।
त्रयस्त्रिसंख्याकाः ।
ह, इत्यैतिह्यार्थः ।
उद्गीथ उद्गीथज्ञानं प्रति कुशला निपुणा बभूवुः ।
कस्मिंश्चिद्देशे काले च निमित्ते वा समेतानामित्यभिप्रायः ।
न हि सर्वस्मिञ्जगति त्रयाणामेव कौशलमुद्गीथादिविज्ञाने ।
श्रूयन्ते ह्युषस्तिजानश्रुतिकैकेयप्रभृतयः सर्वज्ञकल्पाः ।
के ते त्रय इत्याह-शिलको नामतः शलावतो ऽपत्यं शालावत्यः ।
चिकितायनस्यापत्यं चैकितायनः ।
दल्भगोत्रो दाल्भ्यो द्व्यामुष्यायणो वा ।
प्रवाहणो नामतो जीवलस्यापत्यं जैवलिरित्येते त्रयस्ते होचुरन्योन्यमुद्गीथे वै कुशला निपुणा इति प्रसिद्धाः स्मः ।
अतो हन्त यद्यनुमतिर्भवतामुद्गीथ उद्गीथज्ञाननिमित्तां कथां विचारणां पक्षप्रतिपक्षोपन्यासेन वदामो वादं कुर्म इत्यर्थः ।
तथा च तद्विद्यसंवादे विपरीतग्रहणनाशो ऽपूर्वविज्ञानोपजनः संशयनिवृत्तिश्चेति ।
अतस्तद्विद्यसंयोगः कर्तव्य इति चेतिहासप्रयोजनम् ।
दृश्यते हि शिलकादीनाम् ॥1 ॥
स्तर्त् छुप् 1,8.2
तथेति ह समुपविविशुः ।
स ह प्रावहणो जैवलिर् उवाच ।
भगवन्ताव् अग्रे वदताम् ।
भ्रामणयोर् वदतोर् वाचं श्रोष्यामीति
छुप्भ्_1,8.2 तथेत्युक्त्वा ते समुपविविशुर्हेपविष्टवन्तः किल ।
तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाचेतरौ"भगवन्तौ पूजावन्तावग्रे पूर्वं वदताम्" ।
ब्राह्मणयोरिति लिङ्गाद्राजासौ ।
युवयोर्ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामि ।
अर्थरहितामित्यपरे वाचमिति विशेषणात् ॥2 ॥
स्तर्त् छुप् 1,8.3
स ह शिलकः शालावत्यश् चैकितायनं दाल्भ्यम् उवाच हन्त त्वा पृच्छानीति ।
पृच्छेति होवाच
छुप्भ्_1,8.3 उक्तयोः स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच-"हन्त यद्यनुमंस्यसे त्वा त्वां पृच्छानी"त्युक्त इतरः"पृच्छे"ति होवाच ॥3 ॥
स्तर्त् छुप् 1,8.4
का साम्नो गतिर् इति ।
स्वर इति होवाच ।
स्वरस्य का गतिर् इति ।
प्राण इति होवाच ।
अन्नस्य का गतिर् इति ।
अन्नम् इति होवाच ।
अन्नस्य का गतिर् इति ।
आप इति होवाच
छुप्भ्_1,8.4 लब्धानुमतिराह-का साम्नः, प्रकृतत्वादुद्गीथस्य ।
उद्गीथो ह्यत्रोपास्यत्वेन प्रकृतः ।
"परोवरीयांसमुद्गीथम्"इति च वक्ष्यति ।
गतिराश्रयः परायणमित्येतत् ।
एवं पृष्टो दाल्भ्य उवाच-स्वर इति ।
स्वरात्मकत्वात्साम्नः ।
यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति युक्तं मृदाश्रय इव घटादिः ।
स्वरस्य का गतिरिति, प्राण इति होवाच ।
प्राणनिष्पाद्यो हि स्वरस्तस्मात्सवरस्य प्राणो गतिः ।
प्राणस्य का गतिरित्यन्नमिति होवाच ।
अन्नावष्टम्भो हि प्राणः ।
"शुष्यति वै प्राण ऋते ऽन्नात्"इति हि श्रुतेः ।
"अन्नं दाम"इति च ।
अन्नस्य का गतिरित्याप इति होवाच ।
अप्सम्भवत्वादन्नस्य ॥4 ॥
स्तर्त् छुप् 1,8.5
अपां का गतिर् इति ।
असौ लोक इति होवाच ।
अमुष्य लोकस्य का गतिर् इति ।
न स्वर्गं लोकम् अतिनयेद् इति होवाच ।
स्वर्गं वयं लोकं सामाभिसंस्थापयामः ।
स्वर्गसंस्तावं हि सामेति
छुप्भ्_1,8.5 अपां का गतिरित्यसौ लोक इति ।
अमुष्माल्लोकाद्वृष्टिः सम्भवति ।
अमुष्य लोकस्य का गतिरिति पृष्टो दाल्भ्य उवाच-स्वर्गममुं लोकमतीत्याश्रयान्तरं साम न नयेत्कश्चिदिति होवाचाऽह ।
अतो वयमपि स्वर्गं लोकं सामाभिसंस्थापयामः ।
स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः ।
स्वर्गसंस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत्साम स्वर्गसंस्तावं हि यस्मात्"स्वर्गो वै लोकः सामवेद"इति श्रुतिः ॥5 ॥
स्तर्त् छुप् 1,8.6
तं ह शिलकः शालावत्यश् चैकितायनं दाल्भ्यम् उवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम ।
यस् त्व् एतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेद् इति
छुप्भ्_1,8.6 तमितरः शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच-अप्रतिष्ठितमसंस्थितं परोवरीयस्त्वेनासमाप्तगति सामेत्यर्थः ।
वा इत्यागमं स्मारयति किलेति च, दाल्भ्य ते तव साम ।
यस्त्वसहिष्णुः सामविदेतर्ह्येतस्मिन्काले ब्रूयात्कश्चिद्विपरीतविज्ञानमप्रतिष्ठितं साम प्रतिष्ठितमित्येवंवादापराधिनं मूर्धा शिरस्ते विपतिष्यति विस्पष्टं पतिष्यतीति ।
एवमुक्तस्यापराधिनस्तथैव तद्विपतेन्न संशयो न त्वाहं ब्रवीमीत्यभिप्रायः ।
ननु मूर्धपातार्ऽहं चेदपराधं कृतवानतः परेणानुक्तस्यापि पतेन्मूर्धा;न चेदपराध्युक्तस्यापि नैव पतति ।
अन्यथाकृताभ्यागमः कृतनाशश्च स्याताम् ।
नैष दोषः ।
कृतस्य कर्मणः शुभाशुभस्य फलप्राप्तेर्देशकालनिमित्तापेक्षत्वात् ।
तत्रैवं सति मूर्धपातनिमित्तस्याप्यज्ञानस्य पराभिव्याहारनिमित्तापेक्षत्वमिति ॥6 ॥
स्तर्त् छुप् 1,8.7
हन्ताहम् एतद् भगवत्तो वेदानीति ।
विद्धीति होवाच ।
अमुष्य लोकस्य का गतिर् इति ।
अयं लोक इति होवाच ।
अस्य लोकस्य का गतिर् इति ।
न प्रतिष्ठां लोकम् अतिनयेद् इति होवाच ।
प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः ।
प्रतिष्ठासंस्तावं हि सामेति
छुप्भ्_1,8.7 एवमुक्तो दाल्भ्य आह-हन्ताहमेतद्भगवत्तो वेदानि यत्प्रतिष्ठं सामेत्युक्तः प्रत्युवाच शालावत्यो विद्धीति होवाच ।
अमुष्य लोकस्य का गतिरिति पृष्टो दाल्भ्येन शालावत्यो ऽयं लोक इति होवाच ।
अयं हि लोको यागदानहोमादिभिरमुं लोकं पुष्यतीति ।
"इतः प्रदानं देवा उपजीवन्ति"इति हि श्रुतयः ।
प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति ।
अतः साम्नो ऽप्ययं लोकः प्रतिष्ठैवेति युक्तम् ।
अस्य लोकस्य का गतिरित्युक्त आह शालावत्यः ।
न प्रतिष्ठामिमं लोकमतीत्य नयेत्साम कश्चित् ।
अतो वयं प्रतिष्ठां लोकं सामाभिसंस्थापयामः ।
यस्मात्प्रतिष्ठासंस्तावं हि प्रतिष्ठात्वेन संस्तुतं सामेत्यर्थः ।
"इयं वै रथन्तरम्"इति च श्रुतिः ॥7 ॥
स्तर्त् छुप् 1,8.8
तं ह प्रवाहणो जैवलिर् उवाच ।
अन्तवद् वै किल ते शालावत्य साम ।
यस् त्व् एतर्हि ब्रूयान् मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेद् इति ।
हन्ताहम् एतद् भगवत्तो वेदानीति ।
विद्धीति होवाच
मूल पाठ: Chāndogyopaniṣad with the commentary ascribed to Śaṃkara · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0